________________
अध्ययन-८, उद्देशकः - [नि.३०९] मू.(३७०) बहुं सुणेहि कन्नहि, बहुं अच्छीहिं पिच्छइ।।
नय दिढं सुअंसव्वं, भिक्खू, अक्खाउमरिहइ ।। वृ. गोचरादिगत एव केनचित्तथाविधं पृष्ट एवं ब्रूयादित्याह-'बहु'न्ति सूत्रं, अथवा उपदेशाधिकारे सामान्येनाह-'बहु'न्ति सूत्रं, 'बहु' अनेकप्रकारंशोभनाशोभनं शृणोति कर्णाभ्यां, शब्दजातमिति गम्यते, तथा 'बहु' अनेकप्रकारमेव शोभनाशोभनभेदेनाक्षिभ्यां पश्यति, रूपजातमिति गम्यते, एवं न च दृष्टं श्रुतं सर्वं स्वपरोभयाहितमपि 'श्रुता ते रुदपी पत्नी'त्यवमादिभिक्षुराख्यातुमर्हति, चारित्रोपघातात्, अर्हति च स्वपरोभयहितं 'दृष्टस्ते राजानमुपशामयशिष्य' इति सूत्रार्थः ।। मू.(३७१) सुअंवा जइ वा दिटुंन लविज्जोवधाइ।
नय केणइ उवाएणं, गिहिजोगं समायरे। वृ.एतदेव स्पष्टयन्नाह-'सुअंति सूत्रं, श्रुतं वा अन्यतः यदिवा दृष्टं स्वयमेव 'नालपेत्' न भाषेत, 'औपघातिकम्' उपघातेन निर्वृत्तं तत्फलं वा, यथा-चौरस्त्वमित्यादि, अतो नालपेदपीति गम्यते, तथा न च केनचिदुपायेन सूक्ष्मयाऽपि भङ्गया 'गृहियोग' गृहिसंबन्धं तद्वालग्रहणादिरूपं गृहिव्यापारं वा-प्रारम्भरूपं 'समाचरेत्' कुर्यात्रैवेति सूत्रार्थः॥ मू.(३७२) निहाणं रसनिज्जूढं, भद्दगं पावगंति वा ।
पुट्ठो वावि अपुट्ठो वा, लाभालाभं न निद्दिसे ।। वृ. किं च -'निट्ठाणं ति सूत्रं, 'निष्ठानं' सर्वगुणोपेतं संभृतमन्नं रसं नियूंढमेतद्विपरीतं कदशनम्, एतदाश्रित्याद्यं भद्रकं द्वितीयं पापकमिति वा, पृष्टो वापि परेण कोहा लब्धमिति अपृष्टो वा स्वयमेव लाभालाभं निष्ठानादेन निदिशेद्, अद्य साधु लब्धमसाधु वा शोभनमिदमपरमशोभनं वेति सूत्रार्थः ।। मू. ( ३७३) न य भोअणमि गिद्धो, चरे उंछं अयंपिरो।
अफासुअंन अँजिज्जा, कीअमुद्देसिआहडं। वृ. किं च -'न य'त्ति सूत्रं, न च भोजने गृद्धः सन् विशिष्टवस्तुलाभायेश्वरादिकुलेषु मुखमङ्गलिकया चरेत्, अपितु उञ्छं भावतो ज्ञाताज्ञातमजल्पन शीलो धर्मलाभमात्राभिधायी चरेत्, तत्रापि 'अप्रासुकं' सचित्तं सन्मिश्रादि कथञ्चिग्द्गृहीतमपि न भुञ्जीत, तथा क्रीतमौदेशिकाहतं प्रासुकमपि न भुञ्जीत, एतद्विशोध्यविशोधिकोट्यपलक्षणमिति सूत्रार्थः ।। मू.(३७४) संनिहिं च न कुपिज्जा, अनुमायपि संजए।
मुहाजीवी असंबद्धे, हविज्ज जगनिस्सिए । वृ.'संनिहिति सूत्रं, 'संनिधिं च' प्राडनिरूपितस्वरूपां न कुर्यात् 'अणुमात्रमपि' स्तोकमपि 'संयतः' साधुः, तथा मुधाजीवीति पूर्ववत्, असंबद्धः पद्मिनीपत्रोकवद्गृहस्थैः, एवभूतः सन् भवेत् 'जगनिश्रितः' चराचरसंरक्षणप्रतिबद्ध इति सूत्रार्थः॥ मू. (३७५) लूहवित्ती सुसंतुढे, अप्पिच्छे सुहरे सिआ।
आसुरतं न गच्छिज्जा, सुच्चा नं जिनसासनं ।। वृ. किंच-'लहू'त्ति सूत्रं, रूक्षैः-वल्लचणकादिभिर्वृत्तिरस्येति रूक्षवृत्तिः, सुसंतुष्टो येन
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org