________________
२१०
दशवैकालिक - मूलसूत्रं - ८ / - / ३६४
त्रोपादेयबुद्धिर्भवति, अन्यथा विपर्यय इति सूत्रार्थः ॥
मू. ( ३६५ )
सिनेहं पुप्फसुहुमं च, पाणुतिंगं तहेव य । पणगं बीअहरिअं च, अंडसुहुमं च अट्टमं ॥
वृ. 'सिनेहं 'ति सूत्रं, 'स्नेह'मिति स्नेहसूक्ष्मम् अवश्यायहिममहिकाकरकहरतनुरूपं, पुष्पसूक्ष्मं चेति वटोदुम्बराणां पुष्पाणि तानि तद्वर्णानि सूक्ष्माणीति न लक्ष्यन्ते, 'पाणी'ति प्राणिसूक्ष्ममनुद्धरिः कुन्थुः स हि चलन् विभाव्यते, न स्थितः, सूक्ष्मत्वात् । 'उत्तिगं' तथैव
'त्युतिंगसूक्ष्म कीटिकानगरं, तत्र कीटिका अन्ये च सूक्ष्मसत्त्वा भवन्ति । तथा पनकसूक्ष्मं प्रायः प्रावृट्काले भूमिकाष्ठादिषु पञ्चवर्णस्तद्रव्यलीन: पनक इति, तथा 'बीजसूक्ष्मं' शाल्यादिबीजस्य मुखमूले कणिका, या लोके तुषमुखमित्युच्यते, 'हरितं चे 'ति हरितसूक्ष्मं तच्चात्यन्ताभिनवोद्भिन्नं पृथिवीसमानवर्णमेवेति 'अण्डसूक्ष्मं चाष्टम' मिति एतच्च मक्षिकाकीटकागृहकोलिकाब्राह्मणीकुकलासाद्यण्डमिति सूत्रार्थः ॥
मू. ( ३६६ )
एवमं आणि जाणिज्जा, सव्वभावेण संजए। अप्पमत्तो जए निच्च सव्विदिअसमाहिए ।।
वृ. 'एवमेआणि'त्ति सूत्रं, 'एवम्' उक्तेन प्रकारेण एतानि सूक्ष्माणि ज्ञात्वा सूत्रादेशेन 'सर्वभावेन' शक्तयनुरूपेण स्वरूपसंरक्षणादिना 'संयत: ' साधुः किमित्याह
'अप्रमत्तो' निद्रादिप्रमादरहितः यतेत मनोवाक्कायैः संरक्षणं प्रति 'नित्यं' सर्वकालं 'सर्वेन्द्रियसमाहितः' शब्दादिषु रागद्वेषावगच्छन्निति सूत्रार्थः ॥
मू. ( ३६७ ) धुवं च पडिलेहिज्जा, जोगसा पायकंबलं ।
सिज्जमुच्चारभूमिं च, संथारं अदुवाऽऽसनं ।।
वृ. तथा 'ध्रुव' न्ति सूत्रं, तथा 'ध्रुव च' नित्यं च यो यस्य काल उक्तोऽनागतः परिभोगे च तस्मिन् प्रत्युपेक्षेत सिद्धान्तविधिना 'योगे सति' सति सामर्थ्य अन्यूनातिरिक्तं कि तदित्याह‘पात्रकम्बलम्' पात्रग्रहणादलाबुदारुमयादिपरिग्रहः, कम्बलग्रहणादूर्णा- सूत्रमयपरिग्रहः, तथा 'शय्या' वसतिं द्विकालं त्रिकालं च उच्चारभुवं च - अनापातवदादि स्थण्डिलं तथा 'संस्तारकं ' तृणमयादिरूपमथवा 'आसनम्' अपवादगृहीतं पीठकादि प्रत्युपेक्षे-तेति सूत्रार्थः ॥ उच्चारं पासवणं, खेलं सिंधाणजल्लिअं । फासुअं पडिलेहिता, परिद्राविज्ज संजए ।
मू. ( ३६८ )
वृ. तथा 'उच्चारं 'ति सूत्रं, उच्चारं प्रस्त्वणं श्लेष्म सिंघाणं जल्लमिति प्रतितानि, एतानि प्रासुकं प्रत्युपेक्ष्य स्थण्डिलमिति वाक्यशेष:, 'परिस्थापयेद्' व्युत्सृजेत् संयत इति सूत्रार्थः ॥ मू. ( ३६९ ) पविसित्तु परागारं, पाणट्ठा भोअणस्स वा ।
जयं चिट्ठे मिअं भासे, न य रूवेसु मनं करे ।
Jain Education International
वृ. उपाश्रयस्थानविधिरुक्तो, गोचरप्रवेशमधिकृत्याह - 'पविसित्तु' सूत्रं प्रविश्य 'परागारं ' परगृहं पानार्थं भोजनस्य ग्लानादेरौषधार्थं वा यतंगवाक्षकादीन्यनवलोकयन् तिष्ठेदुचितदेशे, मितं यतनया भाषेत आगमनप्रयोजनादीति, न च 'रूपेषु' दातृकान्तादिषु मनः कुर्यात्, एवंभूतान्येतानीति न मनो निवेशयत्, रूपग्रहणं रसाद्युपलक्षणमिति सूत्रार्थः ॥
-
For Private & Personal Use Only
www.jainelibrary.org