________________
२०४
दशवैकालिक-मूलसूत्रं-७/-/३४८ मू.( ३४८)सवक्कसुद्धिं समुपेहिआ मुनी, गिरं च दुई परिज्जए सया।
मिअं अदुढे अनुवीइ भासए, सयाण मज्झे लहई पसंसणं। वृ.वाक्यशुद्धिफलमाह-'सवक्क'त्ति सूत्रं, सद्वाक्यशुद्धिं वा, सती शोभनां, स्वामात्मीयां, स इति वक्ता, वाक्यशुद्धि संप्रेक्ष्य' सम्यग् दृष्ट्वा 'मुनिः' साधुः गिरंतु दुष्टां' यथोक्तलक्षणां परिवर्जयेत् सदा, किंतु 'मितं' स्वरत: परिमाणतश्च, 'अदुष्टं' देशकालोपपन्नादि 'अनुविचिन्त्य' पर्यालोच्य भाषमाणः सन् ‘सतां' साधूनां मध्ये 'लभते प्रशंसन' प्राप्नोति प्रशंसामिति । मू.( ३४९)भासाइ दोसे अ गुणे अ जाणिआ, तीसे अदुढे परिवज्जए सया।
छसु संजए सामणिए सया जए, वइज्ज बुद्धे हिअ मानुलोमिअं॥ वृ.यतश्चैवमतः-'भासाइ'त्ति सूत्रं, 'भाषाया' उक्तलक्षणाया दोषांश्च गुणांश्च 'ज्ञात्वा' यथावदवेत्य तस्याश्च दुष्टाया भाषायाः परिवर्जकः सदा, एवंभूतः सन् षड्जीवनिकायेषु संयतः, तथा 'श्रामण्ये' श्रमणभावे चरणपरिणामगर्भे चेष्टिते 'सदा यतः सर्वकालमुद्युक्तः सन् वदेद् बुद्धो "हितानुलोमं हितं-परिणामसुन्दरम् अनुलोम-मनोहारीति सूत्रार्थः ।। मू.( ३५०)परिक्खभासी सुसमाहिइंदिए, चउकसायावगए अनिस्सिए।
से निद्धणे धुनमलं पुरेकर्ड, आराहए लोगमिणं तहा परं। ति बेमि ॥ वृ.उपसंहरनाह-'परिक्ख'त्ति सूत्र, 'परीक्ष्यभाषी' आलोचितवक्ता तथा सुसमाहितेन्द्रियः' सुप्रणिहितेन्द्रिय इत्यर्थः, 'अपगतचतुष्कषायः' क्रोधादिनिरोधकर्तेति भावः, अनिश्रितो' द्रव्यभावनिश्रारहितः, प्रतिबन्धविमुक्त इति हृदयम्, स इत्थंभूतो 'निधूय' प्रस्फोट्य 'धूनमलं' पापमलं 'पुराकृतं' जन्मान्तरकृतं, किमिति ?-'आराधयति' प्रगुणीकरोति लोकम् 'एनं' मनुष्यलोकं वाक्यसंयतत्वेन, तथा 'पर'मिति परलोकमाराधयति निर्वाणलोकं, यथासंभवमनन्तरं पारम्पर्येण वेति गर्भ: । ब्रवीमिति पूर्ववत् । नयाः पूर्ववदेव ।।
अध्ययनं ७ समाप्तम मुनि दीपरत्न सागरेण संशोधिता सम्पादिता दशवैकालिकसूत्रे सप्तम्अध्ययनस्य भद्रबाहु स्वामि विरचिता नियुक्तिः एवं हरिभदसूरि विरचिता टीका परिसमाप्ता।
अध्ययनं - ८ - आचारप्रणिधिःवृ.व्याख्यातं वाक्यशुद्ध्यध्ययनम्, इदानीमाचारप्रणिध्याख्यामारभ्यते, अस्य चायमभिसंबन्धः इहानन्तराध्ययने साधुना वचनगुणदोषाभिज्ञेन निरवद्यवचसा वक्तव्यमित्येतदुक्तम्, इह तु तन्निरवद्यं वच आचारे प्रणिहितस्य भवतीति तत्र यनवता भवितव्यमित्येतदुच्यते,
"पणिहाणरहिअस्सेह, निरवज्जपि भासि।
सावज्जतुल्लं विन्नेअं, अज्झत्थेणेह संवुडम्।।" इत्यनेनाभिसंबन्धेनायातमिदमध्ययनम्, अस्य चानुयोगद्वारोपन्यासः पूर्ववत्तावद्यावन्नामनिष्पन्नो निक्षेपः, तत्र चाचारप्रणिधरिति द्विपदं नाम, तत्राचारनिक्षेपमतिदिशन् प्रणिधिं च प्रतिपादयन्नाह
नि. [२९४] जो पुद्वि उद्दिट्ठो आयारो सो अहीनमइरित्तो।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org