________________
अध्ययनं-७, उद्देशकः - [नि. २९३]
२०३ मू. ( ३४२) नाणदंसणसंपन्न, संजमे अ तवे रयं ।
एवंगुणसमाउत्तं, संजय साहुमालवे।। वृ. किंविशिष्टं साधु साधुमित्यालपेदित्यत आह-'नाण'त्ति सूत्र, ज्ञानदर्शनसंपत्रंसमृद्धं संयमे तपसि च रतं यथाशक्ति एवंगुणसमायुक्तं संयतं साधुमालपेत्, न तु द्रव्यलिङ्गधारिणमपीति सूत्रार्थः ।। मू.(३४३) देवाणं मनुआणं च, तिरिआणं च वुग्गहे।
अमुगाणं जओ होउ, मा वा होउत्ति नो वए ।। वृ.किंच-'देवाणं'ति सूत्रं, 'देवानां देवासुराणां 'मनुजानां' नरेन्द्रादीनां 'तिरश्चां' महिषादीनां च 'विग्रहे' संग्रामे सति 'अमुकानां' देवादीनां जयो भवतु मावा भवत्विति नो वदेद्, अधिकरणतत्सवाम्यादिद्वेषदोषप्रसङ्गादिति सूत्रार्थः ।। मू. (३४४) वाओ वुढं च सीउण्हं, खेमं धायं सिवंति वा।
कया नु हुज्ज एआणि ?, मा वा होउति नो वए। व.किं च - 'वाउ'त्ति सूत्रं, 'वातो' मलयमारुतादिः, 'वृष्टं वा' वर्षणं, शीतोष्णं प्रतीतं 'क्षेमं' राजविड्वरशून्यं 'ध्रातं' सुभिक्षं 'शिव'मिति चोपसर्गरहितं कदा नु भवेयुः 'एतानि' वातादीनि, मा व भयेवुरिति धर्माद्यभिभूतो नो वदेद्, अधिकरणादिदोषप्रसङ्गाद्, वातादिषु सत्सु सत्त्वपीडापत्तेः तद्वचनतस्तथाभवनेऽप्यार्तध्यानभावादिति सूत्रार्थः !! मू.(३४५) तहेव मेहं व नहं व मानवं, न देवदेवत्ति गिरं वइज्जा।
समुच्छिए उन्नए वा पओए, वइज्ज वा वृद्ध बलाहय ति।। वृ. 'तहेव'त्ति सूत्रं, तथैव मेघं वा नभो वा मानवं वाऽऽश्रित्व नो देवद्नेवत्ति गीरं वदेत्, मेघमुत्रतं दृष्ट्वा उन्नतो देव इति नो वदेत्, एवं 'नभ' आकाशं 'मानव' राजानं वा देवमिति नो वदेत्, मिथ्यावालाघवादिप्रसङ्गात् । कथं तर्हि वदेदित्याह-उन्नतं दृष्ट्वा संमूर्छित उन्नतो वा पयोद इति, वदेवा वृष्टो बलाहक इति सूत्रार्थः ।। मू. (३४६) अंतलिक्खत्ति नं बूआ, गुज्झाणुचरिअति ।
रिद्धिमंतं नरं दिस्स, रिद्धिमंतंति आलवे॥ वृ.नभ आश्रित्याह-'अंतलिक्ख'त्ति सूत्रं, इह नभोऽन्तरिक्षमिति ब्रूयाद्गुह्यानुचरितमिति वा, सुरसेवितमित्यर्थः, एवं किल मेघोऽप्येतदुभयशब्दवाच्य एव। तथा ऋद्धिमन्त' संपदुपेतं नरं दृष्ट्वा, किमित्याह-'रिद्धिमंत'मिति ऋद्धिमानयमित्येवमालपेत्, व्यवहारतो मृषावादादिपरिहारार्थमिति सूत्रार्थ: । मू. (३४७)तहेव सावज्जणुमोअणी गिरा, ओहारिणी जा य परोवधाइणी।
से कोह लोह भय हास मानवो, न हासमाणोऽवि गिरं वइज्जा ।। वृ.किंच-'तहेव'त्ति सूत्, तथैव सावद्यानुमोदिनी 'गी:' वाग् यथा सुष्ठु हतो ग्राम इति, तथा 'अवधारिणी' इदमित्थमेवेति, संशयकारिणी वा, या च परोपघातिनी यथामांसमदोषाय 'से' इति तामेवंभूतां क्रोधाल्लोभाद्भयाद्धासाद्धा, मानप्रेमादीनामुपलक्षणमेतत्, 'मानवः' पुमान् साधुन हसन्नपि गिरं वदेत्, प्रभूतकर्मबन्धहेतुत्वादिति सूत्रार्थः ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org