________________
२०२
दशवैकालिक - मूलसूत्र- ७ /-/ ३३६
अतुलं नास्तीदृशमन्यत्रापी कचित्, 'अविक्कि अं'ति असंस्कृतं सुलभमीदृशमन्यत्रापि, 'अवक्तव्य' मित्यनन्तगुणमेतत् अविअत्तं वा अप्रीतिकरं चैतदिति नो वदेत्, अधिकरणान्तरयाद्रिदोषप्रसङ्गादिति सूत्रार्थः ॥
मू. ( ३३७ )
सव्वमेअं वइस्सामि, सव्वमेअं ति नो वए। अनुवोड़ सव्वं सव्वत्थ, एवं भासिज्ज पन्नवं ॥
वृ. किच- 'सव्वमेअं' त्ति सूत्रं, 'सर्वमेतद्वक्ष्यामी' ति केनचित् कस्यचित् संदिष्टे सर्वमेतत्त्वया वक्तव्यमिति सर्वमेतद्वक्ष्यामीति नो वदेत्, सर्वस्य तथास्वरव्यञ्जनाद्युपेतस्य वक्तुमशक्यत्वात्, तथा सर्वमेतदिति नो वदेत्, कस्यचित्संदेशं प्रयच्छन् सर्वमेतदित्येवं वक्तव्य इति नो वदेत्, सर्वस्य तथास्वरव्यञ्जनाद्युपेतस्य वक्तुमशक्यत्वात्, असंभवाभिधाने मृषावाद:, यतश्चैवमत: 'अनुचिन्त्य' आलोच्य सर्वं वाच्यं 'सर्वत्र' कार्येषु यथा असंभवाद्यभिधानादिना मृषावादो न भवत्येवं भाषेत प्रज्ञावान् साधुरिति सूत्रार्थ: ॥
मू. ( ३३८ ) सुक्कीअं वा सुविक्कीअं, अकिज्जं किज्जमेव वा । इमं गिve इमं मुंच, पणीअं नो विआगरे ।
वृ.किंच- 'सुक्कीअं व 'त्ति सूत्रं, 'सुक्रीतं वेत्ति किञ्चित् केनचित् क्रीतं दर्शितं सत्सुक्रीतमिति न व्यागृणीयात् इति योग:, तथा 'सुविक्रीत' मिति किञ्चित्केनचिद्विक्रीतं दृष्टवा पुष्टः सन् सुविक्रीतमिति न व्यागृणीयात्, तथा केनचित् क्रीतें पृष्टः 'अक्रेयं' क्रयार्हमेव न भवतीति न व्यागृणीयात्, तथैवमेव 'क्रेयमेव वा' क्रयार्हमेवेति, तथा 'इदं' गुडादि गृहाणागामिनि काले महार्थं भविष्यति तथा 'इदं' मुञ्च धृताद्यागामिनी काले समर्थं भविष्यतीतिकृत्वा 'पणितं' पण्यं नैव व्यागृहणीयात्, अप्रीत्यधिकरणादिदोषप्रसङ्गादिति सूत्रार्थः ॥
मू. ( ३३९ )
अप्परधे वा महग्धे वा, कए वा विक्कएवि वा ।
पणिअट्ठे समुप्पन्ने, अनवज्जं विआगरे ।
वृ. अत्रैव विधिमाह- 'अप्पग्धे व 'त्ति सूत्रं, अल्पार्धे वा महार्थे वा, कस्मिन्नित्याह-क्रये वा विक्रयेऽपि वा 'पणितार्थे' पण्यवस्तुनि समुत्पन्ने केनचित्त पृष्टः सन् 'अनवद्यम्' अपापं व्यागृणीयात् यथा नाधिकारोऽत्र तपस्विनां व्यापाराभावादिति सूत्रार्थ: ।
मू. ( ३४० )
तहेवासंजयं धीरो, आस एहि करेहि वा ।
सय चिट्ठ वयाहित्ति, नेवं भासिज्ज पन्नवं ॥
वृ. 'तहेव 'त्ति सूत्रं, तथैव 'असंयतं' गृहस्थं 'धीर: ' संयतः आस्वेहैव, एहीतोऽत्र, कुरु वेद-संचयादि, तथा शेष्वनिद्रया, तिष्ठोर्ध्वस्थानेन, व्रज ग्राममितिनैवं भाषेत प्रज्ञावान् साधुरिति । पू. ( ३४१ ) बहवे इमे असाहू, लोए वुच्चंति साहुणो ।
न लवे असाहु साहुत्ति, साहु साहुत्ति आलवे ॥
वृ. किंच- 'बहवे 'त्ति सूत्रं, बहवः 'एते' उपलभ्यमानस्वरूपा आजीवकादयः असाधवः निर्वाणसाधकयोगापेक्षया 'लोके तु' प्राणिसंघाते उच्यन्ते साधवः सामान्येन, तत्र नालपेदसाधुं साधुं मृषावादप्रसङ्गात्, अपितु साधुं साधुमित्यालपेत्, न तु तमपि नालपेत्, उपबृंहणातिचारदोषप्रसङ्गादिति सूत्रार्थः ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org