________________
अध्ययनं-८, उद्देशकः - [नि. २९४]
२०५ दुविहो अ होइ पणिही दव्वे भावे अ नायव्यो । वृ.यः पूर्वं क्षुल्लिकाचारकथायामुद्दिष्ट आचार: सोऽहीनातिरिक्तः-तदवस्थ एवेहपि दृष्टव्य इति वाक्यशेषः, क्षुण्णत्वान्नामस्थापने अनादृत्य प्रणिधिमधिकृत्याह- द्विविधश्च भवति प्रणिधिः, कथमित्याह-'द्रव्य' इति द्रव्यविषयो 'भाव' इति भावविषयश्च ज्ञातव्य इति गाथार्थः । नि. [२९५] दव्वे निहाणमाई मायपउत्ताणि चेव दव्वाणि ।
भाविदिअनोइंदिअ दुविहो उ पसत्थ अपसत्थो । वृ.'द्रव्य' इति द्रव्यविषयः प्रणिधि: निधानादि प्रणिहितं निधानं निक्षिप्तमित्यर्थः, आदिशब्दः स्वभेदप्रख्यापकः, मायाप्रयुक्तानि चेह द्रव्याणि द्रव्यप्रणिधिः, पुरुषस्य स्त्रीवेषेण पलायनादिकरणं स्त्रियो वा पुरुषवेषेणत्यादि। तथा 'भाव' इति भावप्रणिधिर्द्विविध:-इन्द्रियप्रणिधिोंइन्द्रियप्रणिधिश्च, तत्रेन्द्रियप्रणिधिर्द्विविधः-प्रशस्तोऽप्रशस्तश्चेति गाथार्थः॥ नि. [२९६] सद्देसु अरूवेसु अगंधेसु रसेसु तह य फासेसु ।
. नवि रज्जइ न वि दुस्सइ एसा खलु इंदिअप्पणिही ।। वृ.शब्देषु च रूपेषु च गन्धेषु रसेषु तथा च स्पर्शेषु एतेष्विन्द्रियार्थेष्विष्टानिष्टेषु चक्षुरादिभिरिन्द्रयैर्नापि रज्यते नापि द्विष्यते एष खलु माध्यस्थ्यलक्षण इन्द्रियप्रणिधिः प्रशस्त इति गाथार्थः, अन्यथा त्वप्रशस्तः, तत्र दोषमाहनि.[२९७] सोइंदिअरस्सीहि उ मुक्काहिं सद्दमुच्छिओ जीवो।
आइअइ अनाउत्तो सद्दगुणसमुट्ठिए दोसे ।। वृ.'श्रोत्रेन्द्रियरश्मिभिः' श्रोतेन्द्रियरज्जुभिः 'मुक्ताभिः' उच्छृङ्खलाभिः, किमित्याह'शब्दमूच्छितः' शब्दगृहो जीवः ‘आदत्ते' गृह्णात्यनुपयुक्तः सन्, कानित्याह-शब्दगुणसमुत्थितान् दोषान्-शब्द एवेन्द्रियगुणः तत्समुत्थितान् दोषान्-बन्धवधादीन् श्रोत्रेन्द्रियरज्जुभिरादत्त इति गाथार्थः ।। शेषेन्द्रियातिदेशमाहनि. [२९८] जह एसो सद्देसु एसेव कमो उ सेसएहिं पि।
चाहिंपि इंदिएहि रूवे गंधे रसे फासे ।। वृ.यथैष 'शब्देषु' शब्दविषयः श्रोत्रेन्द्रियमधिकृत्य दोष उक्तः, एष एव क्रमः शेषैरपि' चक्षुरादिभिश्चतुर्भिरपीन्द्रियैर्दोषाभिधाने द्रष्टव्यः, तद्यथा-चविखन्दिअरस्सीहि उ, इत्यादि, अत एवाह- 'रूपे गन्धे रसे स्पर्श' रूपादिविषय इति गाथार्थः ।। अमुमेवार्थं दृष्टान्तभिधानेनाहनि. [२९९] जस्स खलु दुप्पणिहिआणि इंदिआहे तवं चरंतस्स ।
सो हीरइ असहीणेहिं सारही वा तुरंगेहिं ॥ वृ. 'यस्य खल्वि'ति यस्यापि दुष्प्रणिहितानीन्द्रियाणि विश्रोतोगामीनि 'तपश्चरत' इति तपोऽपि कुवर्तः स तथाभूतो 'हियते' अपनीयते इन्द्रियैरेव निर्वाणहेतोश्चरणात्, दृष्टान्तमाह'अस्वाधीनैः' अस्ववशैः 'सारथिरिव' रथनेतेव 'तुरङ्गमैः' अश्वैरिति गाथार्थः ।। नि. [३०० कोहं मानं मायं लोहं च महब्भयाणि चत्तारि ।
जो रुंभइ सुद्धप्पा एसो नोइंदिअप्पणिही ।। वृ.क्रोधं मानं मायां लोभं चेत्येतेषां स्वरूपमनन्तानुबन्ध्यादिभेदभिन्नं पूर्ववत्, एत एव च
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org