SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ अध्ययनं-७, उद्देशकः - [नि. २९३] १९९ यन्त्रयष्टवे वा, यन्त्रयष्टिः प्रतीता, तथा नाभये वा, नाभिः शकटरथाङ्ग, गण्डिकायै वाऽलं स्युरेते वक्षा इति, नैवं भाषेत प्रज्ञावानिति वर्तते, गण्डिका सुवर्णकाराणामधिकरणी (अहिगरणी) स्थापनी भवतीति सूत्रार्थः ।। मू.(३२२) आसनं सयनं जाणं, हुज्जा वा किंचुवस्सए । भूओवघाइणि भासं, नेवं भासिज्ज पनवं ।। वृ. तथा 'आसनं'ति सूत्रं, 'आसनम्' आसन्दकादि ‘शयनं' पर्यङ्कादि ‘यानं' युग्यादि भवेद्वा किञ्चदुपाश्रये-वसतावन्यद्-द्वारपात्राद्येतेषु वृक्षेष्विति भूतोपघातिनी सत्त्वपीडाकारिणी भाषां नैव भाषेत प्रज्ञाान् साधुरिति सूत्रार्थः ।। दोषाश्चात्र तद्वनस्वामी व्यन्तरादिः कुप्येत्, सलक्षणो वा वृक्ष इत्यभिगृह्णीयात्, अनियमितभाषिणो लाघवं चेत्येवमादयो योज्याः ।। मू. (३२३) तहेव गंतुमुज्जाणं, पव्वयाणि वनानि । रुक्खा महल्ल पेहाए, एवं भासिज्ज पनवं ।। वृ.अत्रैव विधिमाह-'तहेव'त्ति सूत्रं, वस्तुतः पूर्ववदेव, नवरमेवं भाषेत ।। मू.(३२४) जाइमंता इमे रुकंखा, दीहवा महालया। पयायसाला विडिमा, वए दरिसणित्ति अ। वृ.'जाइमंत'त्ति सूत्रं, 'जातिमन्तः' उत्तमजातयोऽशोकादयः अनेकप्रकारा 'एत' उपलभ्यमानस्वरूपया वृक्षा दीर्घवृत्ता महालयाः दीर्घा नालिकेरीप्रभृतयः वृत्ता नन्दिवृक्षादयः महालया वटादयः 'प्रजातशाखा' उत्पन्नडाला 'विटपिनः प्रशाखावन्तो वदेदर्शनीया इति च । एतदपि प्रयोजन उत्पन्ने विश्रमणतदासन्नमार्गकथनादौ वदेन्नान्यदेति सूत्रार्थः ।। मू. (३२५) तहा फलाइं पकाई, पायखज्जाइं नो वए। वेलोइयाइं टालाई, वेहिमाइ ति नो बए। वृ.'तहा फलाणि'त्ति सूत्रं, तथा 'फलानि' आम्रफलादीनि पक्वानि' पाकप्राप्तानि तथा 'पाकस्वाद्यानि' बद्धास्थीनीति गर्तप्रक्षेपकोद्रवपलालादिना विपाच्य भक्षणयोग्यानोतिनो वदेत्। तथा 'वेलोचितानि' पाकातिशयतो ग्रहणकालोचितानि, अतः परं कालं न विषहन्तीत्यर्थः, 'यलानि' अबद्धास्थीनि कोमलानीति तदुक्तं भवति, तथा 'द्वैधिकानी'त्ति पेशीसंपादनेन द्वैधीभावकरणयोग्यानीति नो वदेत् । दोषाः पुनरत्रात ऊर्ध्वं नाश एवामीषां न शोभनानि वा प्रकारान्तर भोगेनेत्यवधार्य गृहिप्रवृत्तावधिकरणादय इति सूत्रार्थः ।। मू. (३२६) असंथडा इमे अंबा, बहुनिव्वडिमाफला। वइज्ज बहसंभूआ, भूअरूवत्ति वा पणो। वृ. प्रयोजने पुनर्मार्गदर्शनादावेवं वदेदित्याह-'असंथड'त्ति सूत्रं, असमर्था 'एते' आम्राः, अतिभरेण न शक्नुवन्ति फलानि धारयितुमित्यर्थः, आम्रग्रहणं प्रधानवृक्षोपलक्षणम्, एतेन पक्वार्थ उक्तः, तथा 'बहुनिवर्तितफला:' बहूनि निर्वतितानि-बद्धास्थीनि फलानि येषु ते तथा, अनेन पाकखाद्यार्थ उक्तः, वदेद् ‘बहुसंभूताः' बहूनि संभूतानि-पाकातिशयतो ग्रहणकालोचितानि फलानि येषु ते तथा, अनेन वेलोचितार्थ उक्तः, तथा भूतरूपा इति वा पुनर्वदेत्, भूतानि रूपाणी-अबद्धास्थीनि कोमलफलस्वरूपाणि येषु ते तथा, अनेन टालद्यर्थ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003380
Book TitleAgam Sutra Satik 42 Dashvaikalik MoolSutra 3
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages284
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 42, & agam_dashvaikalik
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy