________________
१९८
दशवैकालिक-मूलसूत्र-७/-/३१५ पाकप्रायोग्यः, कालप्राप्त इत्यन्ये, 'नो वदेत्' न ब्रूयात् तदप्रीतितदव्यापत्त्याशङ्कादिदोष-- प्रसङ्गादिति सूत्रार्थः ।। मू. (३१६) परिवूढत्ति नं बूआ, बूआ उवचिअत्ति अ।
संजाए पीणिए वावि, महाकायत्ति आलवे ।। वृ. कारणे पुनरुत्पन्न एवं वदेदित्याह-'परिवूढ'त्ति सूत्रं, परिवृद्ध इत्येनंस्थूलं मनुष्यादि ब्रूयात्, तथा ब्रूयादुपचित इति च, संजातः प्रीणितश्चापि महाकाय इति चालपेत् परिवृद्ध, पलोपचित्तं परिहरेदित्यादाविति सूत्रार्थः॥ मू. (३१७) तहेव गाओ दुज्झाओ, दम्मा गोरहगत्ति ।
वाहिमा रहजोगित्ति, नेवं भासिज्ज पनवं। वृ.किं च -'तहेव'त्ति सूत्रं, तथैव गावो 'दोह्या' दोहार्हा दोहसमय आसां वर्तत इत्यर्थः, 'दम्या' दमनीया गोरथका इति च, गोरथका: कल्होडाः, तथा वाह्या: सामान्येन ये कचित्तानाश्रित्य रथयोग्याश्चे इति नैवं भाषेत प्रज्ञावान् साधुः, अधीकरणलाघवादिदोषादिति सूत्रार्थः ।। मू. (३१८) जुवं गवित्ति नं बूआ, धेनुं रसदयत्ति अ।
रहस्से महल्लए वावि, वए संवहनित्ति अ॥ वृ.प्रयोजने तु क्वचिदेवं भाषेतेत्याह-जुवं ति सूत्रं, युवा गौरिति-दम्यो गौर्युवेति ब्रूयात्, धेनुं गां रसदेति ब्रूयात्, रसदा गौरिति, तथा हुस्वं महल्लकं वापि गोरथकं हूस्वं वाह्यं महालकं वदेत्, संवहनमिति रथयोग्यं संवहनं वदेत्, क्वचिद्दिगुपलक्षणादौ प्रयोजन इति सूत्रार्थः ।। मू. (३१९) तहेव गंतुमुज्जाणं, पव्वायणि वणाणि ।
रुक्खा महल्ल पेहाए, नेवं भासिज्ज पन्नं । वृ.'तहेव'त्ति सूत्रं, 'तथैवेति पूर्ववत्, गत्वा 'उद्यानं' जनक्रीडास्थानं तथा पर्वतान् प्रतीतान् गत्वा तथा वनानि च, तत्र वृक्षान् 'महतो' महाप्रमाणान् ‘प्रेक्ष्य' दृष्ट्वा नैवं भाषेत 'प्रज्ञावान्' साधुरिति सूत्रार्थः॥ मू.(३२०) अलं पासायखंभाणं, तोरणाण गिहाण अ।
फलिहऽग्गलनावाणं, अलं उदगदोणिणं॥ वृ.किमित्याह-'अलं'ति सूत्रं, 'अलं' पर्याप्ता एते वृक्षाः प्रासादस्तम्भयोः, अत्रैकस्तम्भः प्रासादः, स्तम्भस्तु स्तंभ एव, तयोरलम्, तथा 'तोरणानां' नगरतोरणादीनां 'गृहाणांच' कुटीरकादीनाम्, अलमिति योगः, तथा परिघार्गलानावां वा' तत्र नगरद्वारे परिघः गोपुर-कपाटादिष्वर्गला नौः प्रतीतेति आसामलभेते वृक्षाः, तथा उदकद्रोणीनां अलम्, उदकद्रोण्योऽरहदृजलधारिका इति सूत्रार्थः ।। मू. (३२१) पीढए चंगबेरे अ, नंगले मइयं सिआ।
जंतलट्ठी व नाभी वा, गंडिआ व अलं सिआ॥ वृ. तथा 'पीढए'त्ति सूत्रं, पीठकायालमेते वृक्षाः, पीठकं प्रतीतं तदर्थम्, 'सुपां सुपो भवन्ती'ति चतुर्थ्यर्थे प्रथमा, एवं सर्वत्र योजनीयं, तथा 'चंगबेरा ये'ति चङ्गबेराकाष्ठापात्री तथा 'नंगले'त्ति लागलं-हलं, तथा अलं मयिकाय स्यात्, मयिकम्-उसबीजाच्छादानं, तथा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org