________________
अध्ययनं -७, उद्देशक:- [नि. २९३ ]
१९७
स्त्रियं यथा काश्यपगोत्रे ! इत्येवमादि, 'यथार्हं' यथायथं वयोदेशैश्वर्याद्यपेक्षया 'अभिगृह्य' गुणदोषानालोच्य 'आलपेल्लपेद्वा' ईषत्सकृद्धा लपनमालपनमतोऽन्यथा लपनं, तत्र वयोवृद्धा मध्यदेशे ईश्वरा धर्मप्रियाऽन्यत्रोच्यते धर्मशीले इत्यादिना, अन्यथा च यथा न लोकोपघात इति । मू. ( ३११ ) अज्जए पज्जए वावि, बप्पो चुल्लपिउत्ति अ । माउलो भाइणिज्ज त्ति, पुत्ते नत्तुनिअत्ति अ ॥
वृ. उक्तः स्त्रियमधिकृत्यालपनप्रतिषेधो विधिश्च साम्प्रतं पुरुषमाश्रित्याह' अज्जए 'त्ति सूत्रं, आर्यकः प्रार्यकश्चापि बप्पश्चल्लुपितेति च, तथा मातुल भागिनेयेति पुत्र नप्त इति च, इह भावार्थः स्त्रियामिव द्रष्टव्यः, नवरं चुल्लबप्पः पितृव्योऽभिधीयते इति सूत्रार्थः ।
मू. ( ३१२ ) हे भो हलित्ति अत्रित्ति, भट्टे सामिअ गोमिअ । होल गोल वसुलि त्ति, पुरिसं नेवामालवे ॥
वृ. किंच - 'हे भो 'त्ति सूत्रं, हे भो हलेति । अत्रेत्ति भर्तः । स्वामिन् गोमिन् होल गोल वसुल इति पुरुषं नैवमालपेदिति, अत्रापि भावार्थ: पूर्ववदेवेति सूत्रार्थः ॥ नामधिज्जेण नं बूआ, पुरिसगुत्तेण वा पुणो । जहाftenfभfroझ, आलविज्ज लविज्ज वा. ॥
मू. ( ३१३ )
वृ. यदि नैवमालपेत्, कथं तह्यलपेदित्याह-'नामधिज्जेण' त्ति सूत्रं, व्याख्या पूर्ववदेव, नवरं पुरुषाभिलापेन योजना कार्येति ॥
मू. ( ३१४ )
पंचिंदिआण पाणाणं, एस इत्थी अयं पुमं । जाव नं न विजाणिज्जा, ताव जाइत्ति आलवे ।
वृ. उक्तः पुरुषमप्याश्रित्यालपनप्रतिषेधो विधिश्च, अधुना पञ्चेन्द्रियतिर्यग्गतं वाग्विधिमाह'पंचिंदिआण'त्ति सूत्रं, 'पञ्चेन्द्रियाणां ' गवादीनां प्राणिनां 'कचिद्' विप्रकृष्टदेशावस्थितानामेषा स्त्री गौरयं पुमान् बलीवर्द:, यावदेतद्विशेषेण न विजानीयात् तावन्मार्गप्रश्नादौ प्रयोजने उत्पन्ने सति 'जाति' मिति जातिमाश्रित्यालपेत्, अस्माद्गोरूपजातात्कियद्दूरेणेत्येवमादि, अन्यथाअ लिङ्गव्यत्ययसंभवान्मृषावादापत्तिः, गोपालादीनामपि विपरिणाम इत्येवमादयो दोषाः आक्षेपपरिहारौ तु वृद्धविवरणादवसेयौ, तच्चेदम् - जइ लिंगवच्चए दोसो ता कीस पुढवादि नपुंसगत्तेवि पुरिसित्थिनिद्देसो पयट्टइ, जहा पत्थरो मट्टिआ करओ उस्सा मुम्मरो जाला वाओवाउली अंबओ अंबिलिआ किमिओ जलूया मक्कोडाओ कीडिआ भमरओ मच्छिया इच्चेवमादि ?, आयरिओ आह-जनवयसच्चेण ववहारसच्चेण य एवं पयट्टइत्ति न एत्थ दोसो, पंचिदिए पुन न एयमंगीकीर, गोवालादीणवि न सुदिट्ठधम्मत्ति विपरिणामसंभवाओ, पुच्छि असामायारिकहणे वा गुणसंभवादिति इति सूत्रार्थः ॥
मू. (३१५ )
तहेव मानुसं पसुं, पक्खि वावि सरीसवं । थूले पमेइले वज्झे, पायमित्ति अ नो वए ॥
वृ. किंच- 'तहेव ' त्ति सूत्रं, 'तथैव' यथोक्तं प्राक् 'मनुष्यम्' आर्यादिकं 'पशुम्' अजादिकं ‘पक्षिणं वापि' हंसादिकं ‘सरीसृपम्' अजगरादिकं 'स्थूलः' अत्यन्तमांसलोऽयं मनुष्यादिः तथा 'प्रमेदुर: ' प्रकर्षेण भेद: संपन्न तथा 'वध्यो' व्यापादनीयः पाक्य इति च नो वदेत्, 'पाक्यः '
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International