________________
१९६
दशवैकालिक-मूलसूत्र-७/-/३०४ . वृ. 'तहेव'त्ति सूत्रं, तथैव 'परुषा भाषा' निष्ठुरा भावस्नेहरहिता 'गुरुभूतोपघातिनी' महाभूतोपघातवती, यथा कश्चित्कस्यचित् कुलपुत्रतवेन प्रतीतस्तदा तं दासमित्यभिदधतः, सर्वथा सत्यापि सा बाह्यार्थातथाभावमङ्गीकृत्य न वक्तव्या, 'यतो' यस्या भाषायाः सकाशात् 'पापस्यागमः' अकुशलबन्धो भवतीति सूत्रार्थः॥ मू.(३०५) नहेव काणं काणेति, पंडगं पंडगे त्ति वा।
वाहिअंवा वि रोगिति, तेणं चोरे त्ति नो वा। व. तहेव'त्ति सूत्र, तथैवेति पूर्ववत्, 'काणं तिभित्राक्षंकाण इति, तथा पण्डकं' नपुंसकं पण्डक इति वा, व्याधिमन्तं वापि रोगीति, स्तेनं चौर इति नो वदेत, अप्रीतिलज्जानाशस्थिररोगबुद्धिविराधनादिदोषप्रसङ्गादिति गाथार्थः ।। मू.(३०६) एएणत्रेण अद्वेणं, परो जेणुवहम्मद।
आयारभावदोसन्न, न त भासिज्ज पनवं ।। व. एएण'त्ति सूत्रं, एतेनान्येन वाऽर्थेनोक्तेन सता परो येनोपहन्यते, येन केनचित्प्रकारेणे । आचारभावदोषज्ञो यतिन तं भाषेत प्रज्ञावांस्तमर्थमिति सूत्रार्थः ।। मू. (३०७) तहेव होले गोलित्ति, साणे वा वसुलित्ति ।
दमए दुहुए वावि, नेवं भासिज्ज पनवं ॥ वृ. 'तहेव'त्ति सूत्रं, तथैवेति पूर्ववत्, होलो गोल इति श्वा वा वसुल इति वा द्रमको वा दुर्भगश्चापि नैवं भाषेत प्रज्ञावान् । इह होलादिशब्दास्तत्तद्देशप्रसिद्धितो नैष्ठुर्यादिवाचकाः अतस्तत्प्रतिषेध इति सूत्रार्थः ॥ मू.(३०८) अज्जिए पज्जिए वावि, अम्मो माउसिअत्ति ।
पिउस्सिए भायणिज्जत्ति, धूए नत्तुनिअत्ति अ॥ वृ. एवं स्त्रीपुरुषयोः सामान्येन भाषणप्रतिषेधं कृत्वाऽधुना स्त्रियमधिकृत्याह-'अज्जिए' - त्ति सूत्रं, आजिके प्राजिके वापि अम्बमातृष्वस इति च पितृष्वसः भागिनेयीति दुहितः नीति च । एतान्यामन्त्रणवचनानि वर्तन्ते, तत्र मातुः पितुर्वा माताऽऽयिका, तस्या अपि याऽन्या माता सा प्रार्यिका, शेषाभिधानानि प्रकटार्थान्येवेति सूत्रार्थः ।। मू. (३०९) हले हलित्ति अन्नित्ति, भट्टे सामिणि गोमिणि ।
होले गोले वसुलित्ति, इत्थिनेवमालवे॥ वृ.किं च - 'हले हले'त्ति सूत्रं, हले हले इत्येवमन्ने इत्येवं तथा भट्ट स्वामिनि गोमिनि । तथा होले गोले वसुले इति, एतान्यपि नानादेशापेक्षया आमन्त्रणवचनानि गौरव-कुत्सादिगर्भाणि वर्तन्ते, यतश्चैवमतः स्त्रियं नैवं हलादिशब्दैरालपेदिति, दोषाश्चैवमालपनं कुर्वतः सङ्गगतित्प्रद्वेषप्रवचनलाघवादय इति सूत्रार्थः ।। मू. (३१०) नामधिज्जेण नं बूआ, इत्थीगुत्तेण वा पुणो।
जहारिहमभिगिज्झ, आलविज्ज लविज्ज वा ।। वृ.यदि नैवमालपेत् कथं तालपेदित्याह-'नामाधिज्जेणं'ति सूत्रं, 'नामधेयेने ति नाम्नैव एनां ब्रूयात्स्त्रियं क्वचित्कारणे यथा देवदत्ते ! इत्येवमादि! नामास्मरणादौ गोत्रेण वा पुनर्ब्रयात्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org