________________
अध्ययनं-७, उद्देशकः - [नि. २९३] कथंचित्तत्स्वरूपमपि वस्तु, अपिशब्दस्य व्यवहितः संबन्धः, एतदुक्तं भवतिपुरुषनेपथ्यस्थितवनिताद्यप्यङ्गीकृत्य याकगिरं भाषते नरः, इयं स्त्री आगच्छति गायति वेत्यादिरूपां, 'तस्माद्' भाषणादेवंभूतात्पूर्वमेवासौ वक्ता भाषणाभिसंधिकाले 'स्पृष्टः पापेन' बद्धः कर्मणा, कि पुनर्यो मृषा वक्ति भूतोपधातिनीं वाचं?, स सुतरां बद्धयत इति सूत्रार्थः ।। मू. ( २९९) तम्हा गच्छामो वक्खामो, अमुगं वा ने भविस्सइ।
अहं वा नं करिस्सामि, एसो वा नं करिस्सइ।। वृ.'तम्ह'त्ति सूत्रं, यस्माद्वितथं तथामूर्त्यपि वस्त्वङ्गीकृत्य भाषमाणो बुद्धयेत तस्माद्गमिष्याम एव श्व इतोऽन्यत्र, वक्ष्याम एव श्वस्तत्तदौषधनिमित्तमिति, अमुकं वा नः कार्य वसत्यादि भविष्यत्येव, अहं चेदं लोचादि करिष्यामि नियमेन, एष वा साधुरस्माकं विश्रामणादि करिष्यत्येवेति सूत्रार्थः॥ मू.(३००) एवमाइ उ जा भासा, एसकालंमि संकिआ।
संपयाइअमढे वा, तंपि धीरो विवज्जए । वृ. एवमाइ'त्ति सूत्रम्, एवमाद्या तु या भाषा, आदिशब्दात् पुस्तकं ते दास्याम्येवेत्येवमादिपरिग्रहः, 'पुष्यत्काले भविष्यत्कालविषया, बहुविघ्नत्वात् मुहूर्तादीनां 'शङ्किता' किमिदमिस्थमेव भविष्यत्युतान्यथेत्यनिश्चितगोचरा, तथा साम्प्रतातीतार्थयोरपि या शङ्किता, साम्प्रतार्थे स्त्रीपुरुषाविनिश्चये एष पुरुष इति, अतीतार्थेऽप्येवमेव बलीवर्दतत्स्व्याद्यनिश्चये तदाऽत्र गौरस्माभिर्दष्ट इति । याप्येवंभूता भाषा शङ्किता तामपि धीरो विवर्जयेत्, तत्तथाभावनिश्चयाभावेन व्यभिचारतो मृषात्वोपपत्तेः, विघ्नतोऽगमनादौ गृहस्थमध्ये लाघवादिप्रसङ्गात्, सर्वमेव सावसरं वक्तव्यमिति सूत्रार्थः ।। मू.(३०१) अईअंमि अ कालंमि, पच्चुप्पन्नमनागए।
जमढं तु न जाणिज्जा, एवमेअंति नो वए। वृ.'अईयंमि'त्ति सूत्रं, अतीते च काले तथा 'प्रत्युत्पन्ने' वर्तमानेऽनागते च यमर्थं तु न जानीयात् सम्यगेवमयमिति, तमङ्गीकृत्य एवमेतदिति न ब्रूयादिति सूत्रार्थः । मू. (३०२) अईअंमि अ कालंमि, पच्चुप्पत्रमनागए।
जत्थ संका भवे तंतु, एवमेअंति नो वए। वृ. तथा- 'अईयम्मि'त्ति सूत्रं, अतीते च काले प्रत्युत्पन्नेऽनागते यत्रार्थे शङ्का भवेदिति तमप्यर्थमाश्रित्यैवमेतदिति न ब्रूयादिति सूत्रार्थः, अयमपि विशेषतः शङ्कितभाषणप्रतिषेधः ।। मू.(३०३) अईयमि अ कालंमि, पच्चुप्पन्नमनागए।
निस्संकिअं भवे जंतुं, एवमेअंतु निदिसे ॥ वृ.तथा-'अईयंमि'त्ति सूत्रं, अतीते च काले प्रत्युत्पन्नेऽनागते निःशङ्कितं भवेत्, यदर्थजातं तुशब्दादनवद्यं, तदेवमेतदिति निर्दिशेत्, अन्ये पठन्ति-'स्तोकस्तोक मिति, तत्र परिमितया वाचा निदिशेदिति सूत्रार्थः ।।। मू.( ३०४) तहेव फरुसा भासा, गुरुमूओवधाइणी।
सच्चावि सा न वत्तव्बा, जओ पावस्स आगमो।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org