________________
२००
दशवैकालिक-मूलसूत्र-७/-/३२६ उपलक्षित इति सूत्रार्थः ।। मू.(३२७) तहेवोसहिओ पक्काओ, नीलिआओ छवीइ ।
लाइमा भग्जिमाउत्ति, पिहुखज्ज ति नो वए।। वृ. 'तहेव'त्ति सूत्रं, तथा 'ओषधयः' शाल्यादिलक्षणः, पक्वा इति, तथा नीलाश्छवय इति वा वल्लचवलकादिफललक्षणाः तथा 'लवनवत्यो' लवनयोग्या: 'भर्जनवत्य' इति भर्जनयोग्याः तथा.'पृथकभक्ष्या' इति पृथुकभक्षणयोग्याः, नो वदेदिति सर्वत्राभिसंबध्यते, पृथुका अर्धपक्वशाल्यादिषु क्रियन्ते, अभिधानदोषाः पूर्ववदिति सूत्रार्थः ॥ मू. (३२८) रूढा बहुसंभूआ, थिरा ओसढावि ।
गभिआओ पसूआओ, संसाराउत्ति आलवे ॥ वृ.प्रयोजने पुनर्मार्गदर्शनादावेवमालपेदित्याह-'रूढ'त्ति सूत्रं, 'रूढाः' प्रादुर्भूताः 'बहुसंभूता' निष्पन्नप्रायाः 'स्थिरा' निष्पन्नाः 'उत्सृता' इति उपघातेभ्यो निर्गता इति वा, तथा 'गर्भिता' अनिर्गतशीर्षका: प्रसूता' निर्गतशिर्षका: 'प्रसूता' निर्गतशीर्षका: 'संसाराः' संजाततन्दुलादिसारा इत्येवमालपेत्, पक्वाद्यर्थयोजना स्वधिया कार्येति सूत्रार्थः ।। म.(३२९) तहेव संखडि नच्चा, किच्चं कज्जति नो वए।
तेनगं वावि वज्झित्ति, सुतित्थित्ति अ आवगा ।। - वृ.वाग्विधिप्रतिषेधाधिकारेऽनुवर्तमान इदमपरमाह-'तहेव'त्ति सूत्रं, तथैव 'संखडिज्ञात्वा' संखण्डयन्ते प्राणिनामायूंषि यस्यां प्रकरणक्रियायां सा संखडी तां ज्ञात्वा, 'करणीये'ति पित्रादिनिमित्तं कृत्यैवैषेति नो वदेत्, मिथ्यात्वोपबृंहणदोषात्, तथा स्तेनकं वापि वध्य इति नो वदेत्, तदनुमतत्वेन निश्चयादिदोषप्रसङ्गात्, सुतीर्था इति च, चशब्दाहुस्तीर्था इति वा 'आपगा' नद्यः केनचित्पृष्टाः सन्नो वदेत्, अधिकरणविधातादिदोषप्रसङ्गादिति सूत्रार्थः॥ मू. (३३०) संखडि संखडि बूआ, पणिअट्ठति तेनगं।
बहसमाणि तित्थाणि, आवगाणं विआगरे।। वृ.प्रयोजने पुनरेवं वदेदित्याह-'संखडिन्ति सूत्रं, संखडि संखडिब्रूयात्, साधुकथनादौ संकीर्णा संखडीत्येवमादि, पणितार्थ इति स्तेनकं वदेत्, शैक्षकादिकर्मविपाकदर्शनादौ, पणितेनार्थोऽस्येति पणितार्थः, प्राणद्यूतप्रयोजन इत्यर्थः, तथा बहुसमानि तीर्थानि 'आपगानां' नदीनां व्यागृणीयात् साध्वादिविषय इति सूत्रार्थः ॥ मू. (३३१) तहा नईओ पुण्णाओ, कायतिज्जत्ति नो वए।
नावाहि तारिमाउत्ति, पाणिपिज्जत्ति नो वए। वृ.वाग्विधिप्रतीषेधाधिकार एवेदमाह-'तहा नईउ'त्ति सूत्रं, तथा नद्यः 'पूर्णा' भृता इति नो वदेत्, प्रवृत्तश्रवणनिवर्त्तनादिदोषात्, तथा 'कायतरणीयाः' शरीरतरणयोग्या इति नो वदेत्, साधुवचनतोऽविघ्नमिति प्रवर्त्तनादिप्रसङ्गात्, तथा नौभिः-द्रोणीभिस्तरणीयाः-तरणयोग्या इत्येवं नो वदेत्, अन्यथा विघ्नशङ्कया तत्प्रवर्त्तनात्, तथा 'प्राणिपेया:' तटस्थप्राणिपेया नो वदेदिति, तथैव प्रवर्तनादिदोषादिति सूत्रार्थः॥
मू. (३३२) बहुवाहडा अगाहा, बहुसलिलुप्पिलोदगा।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org