SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ १८२ . दशवैकालिक-मूलसूत्र-६/-/२५८ अहे दाहिणओ वावि, दहे उत्तरओवि अ। वृ.एतदेव स्पष्टयन्नाह- 'पाईणं'ति सूत्रं, 'प्राच्या प्रतीच्यां वापि' पूर्वायां पश्चिमायां चेत्यर्थः, ऊद्धर्वमनुदिक्ष्वपि, ‘सुपा सुपो भवन्तीति सप्तम्यर्थे षष्ठी, विदिश्वपीत्यर्थः, अधो दक्षिणतश्चापि 'दहति' दाह्यं भस्मीकरोत्युत्तरतोऽपि च, सर्वासु दिक्षु विदिक्षु च दहतीति सूत्रार्थः !! मू. ( २५९) भूआणमेसमाधाओ, हव्यवाहो न संसओ। तं पईवपयावट्ठा, संजया किंचि नारभे॥ वृ. यतश्चै वमतो भूआण'त्ति सूत्रं, भूतानां' स्थावरादीनामेष आघात' आघातहेतुत्वादाघातः 'हव्यवाहः' अग्निः 'नसंशय' इत्येवमेवैतद् आघात एवेति भावः, येनैवं तेन 'तं' हव्यवाहं 'प्रदीपप्रतापनार्थम्' आलोकशीतापनोदार्थं संयताः' साधवः 'किश्चित्' संघट्टनादिनाऽपि नारभन्ते, संयतत्वापगमनप्रसङ्गादिति सूत्रार्थः॥ मू.(२६०) तम्हा एअंविआणित्ता, दोसं दुग्गइवडणं। तेउकायसमारंभं, जावजीवाइ वज्जाए। वृ.यस्मादेवं 'तम्ह'त्ति सूत्रं, व्याख्या पूर्ववत् ।। मू. (२६१) अनिलस्स समारंभ, बुद्धा मनति तारिसं। सावज्जबहुलं चेअं, नेअंताईहि सेविअं। वृ. उक्तो नवमस्थानविधिः, साम्प्रतं दशमस्थानविधिमधिकृत्याह-'अनि-लस्स'त्ति, 'अनिलस्य' वायोः 'समारम्भं' तालवृन्तादिभिः करणं 'बुद्धाः' तीर्थकरा 'मन्यन्ते' जानन्ति 'तादृशं' जाततेजःसमारम्भसदृशं । 'सावद्यबहुलं' पापभूयिष्ठं चैतमितिकृत्वा सर्वकालमेव नैनं 'त्रातृभिः सुसाधुभिः 'सेवितम्' आचरितं मन्यन्ते बुद्धा एवेति सूत्रार्थः॥ मू. ( २६२) तालिअंटेण पत्तेण, साहाविहुअनेन वा। न ते वीइउमिच्छति, वेआवेऊण वा परं ।। वृ.एतदेव स्पष्टयति-'तालियंटेण'त्ति सूत्रं, तालवृन्तेन पत्रेण शाखाविधूननेन वेत्यमीषां स्वरूपं यथा षड्जीवनिकायिकायां, न 'ते' साधवो वीजितुमिच्छन्त्यात्मानामात्मना, नापि वीजयन्ति परैरात्मानं तालवृन्तादिभिरेव, नापि वीजयन्तं परमनुमन्यन्त इति सूत्रार्थः ॥ मू. ( २६३) पि वत्थं व पायं वा, कंबलं पायपुंछणं । न ते वायकुईरति, जयं परिहरति । वृ. उपकारणात्तद्विराधनेत्येतदपि परिहरनाह-'जंपि'त्ति सूत्रं, यदपि वस्त्रं वा पात्रं वा कम्बलं वा पादपुञ्छनम्, अमीषां पूर्वोक्तं धर्मोपकरणं तेनापि न ते वातमुदीरयन्ति अयतप्रत्युपेक्षणादिक्रियया, किंतु यतं परिहरन्ति, परिभोगपरिहारेण धारणापरिहारेण चेति सूत्रार्थः । मू. ( २६४) तम्हा एअंविआणित्ता, दोसं दुग्गइवडणं। वाउकायसमारंभ, जावजीवाइ वज्जए। वृ.यत एवं सुसाधुवर्जितोऽनिलसमारम्भः, 'तम्ह'त्ति सूत्रं, व्याख्या पूर्ववत् ॥ उक्तो दशमस्थानविधिः, इदानीमेकादशमाश्रित्य उच्यते इति मू.(२६५) वणस्सई न हिंसंति, मणसा वयस कायसा। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003380
Book TitleAgam Sutra Satik 42 Dashvaikalik MoolSutra 3
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages284
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 42, & agam_dashvaikalik
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy