________________
अध्ययनं-६, उद्देशकः - [नि. २६८]
१८१ सव्वाहारं न भुजंति, निगंथा राइभोअणं ।। वृ. उपसंहरत्राह-'एअंच'त्ति सूत्रं, 'एतं च' अनन्तरोदितं प्राणिहिंसारूपमन्यं चात्मविराधनादिलक्षणं दोषं दृष्ट्वा मतिचक्षुषा 'ज्ञातपुत्रेण' भगवता 'भाषितम्' उक्तं 'सर्वाहारं' चतुर्विधमप्यशनादिलक्षणमाश्रित्य न भुञ्जते 'निर्ग्रन्थाः' साधवो रात्रिभोजनमिति सूत्रार्थः॥ , म.(२५१) पुढविकायं न हिंसंति, मनसा वयसा कम्यसा।
तिविहेणं करणजोएणं, संजया सुसमाहिआ॥ वृ. उक्तं व्रतषट्कम्, अधुना कायषट्कमुच्यते, तत्र पृथिवीकायमधिकृत्याह-'पुढवित्ति सूत्रं, पृथ्वीकार्य न हिंसन्त्यालेखनादिना प्रकारेण मनसा वाचा कायेन, उपलक्षणमेतदत एवाह'त्रिविधेन करणयोगेन' मनःप्रभृतिभिः करणादिरूपेण, के न हिंसन्तीत्याह-'संयता:' साधवः 'सुसमाहिता' उद्युक्ता इति सूत्रार्थः॥ मू. ( २५२) पुढविकायं विहिंसंतो, हिंसई उतयस्सिए।
तसे अविविहे पाणे, चक्खुसे अ अचक्खुसे। वृ. अत्रैव व्यापादयत्येव, 'तदाश्रितान्' पृथिवीश्रितान् ‘त्रसांश्च विविधान् प्राणिनो' द्वीन्द्रियादीन् चशब्दात्स्थावरांश्चप्कायादीन् ‘चाक्षुषांश्चाचाक्षुषांश्च' चक्षुरिन्द्रियग्राह्यानग्राह्यांश्चेति सूत्रार्थः ।। मू.( २५३) तम्हा एअंविआणित्ता, दोसं दुग्गइवडणं।
पदविकायसमारंभ, जावजीवाइ वज्जए। वृ.यस्मादेवं 'तम्ह'त्ति सूत्रं, तस्मादेवं विज्ञाय दोषं तत्तदाश्रितजीवहिंसालक्षणं 'दुर्गतिवर्धनं' संसारवर्धनं पृथिवीकायसमारंभमालेखनादि ‘यावज्जीवं' यावज्जीवमेव वर्जयेदिति। मू. ( २५४) आउकायं न हिंसंति, ममसा वयसा कायसा।।
तिविहेण करणजोएण, संजया सुसमाहिआ। मू. ( २५५) आउकायं विहिंसंतो, हिसंई उतयस्सिए।
तसे अ विविहे पाणे, चक्खुसे अ अचक्खुसे। मू. (२५६) तम्हा एअंविआणित्ता, दोसं दुग्गइवडणं ।
आउकायसमारंभं जावजीवाइ वज्जए। वृ.उक्तः सप्तमस्थानविधिः, अधुनाऽष्टमस्थानविधिमधिकृत्योच्यते'आउ-काय'ति सूत्रं, सूत्रत्रयमप्कायाभिलापेन नेयं, ततश्चायमप्युक्त एव ।। मू. ( २५७) जायतेअं न इच्छंति, पावगं जलइत्तए।।
तिक्खमन्त्रयरंसत्थं, सबओऽविदुरासयं । वृ. साम्प्रतं नवमस्थानविधिमाह-'जायते'ति सूत्र, जाततेजा-अग्निः तं जाततेजसं नेच्छन्ति मन:प्रभृतिभिरपि पापकं पाप एव पापकस्तं, प्रभूतसत्त्वापकारित्वेनाशुभमित्यर्थः, किं नेच्छन्तीत्याह-'सर्वशस्त्रम्, एकधारादिशस्त्रव्यवच्छेदेन सर्वतोधारशस्त्रकल्पमिति भावः, अत एव 'सर्वतोऽपि दुराश्रयं' सर्वतोधारत्वेनानाश्रयणीयमिति सूत्रार्थः ।।
मू. ( २५८) पाईणं पडिणं वावि, उड्ड अणुदिसामवि।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org