________________
१८० .
दशवैकालिक-मूलसूत्र-६/-/२४५ सेज्जंभव आहेति सूत्रार्थः॥ मू. ( २४६) सम्वत्थुवहिणा बुद्धा, संरक्खणपरिंग्गहे।
सवि अप्पणोऽवि देहमि, नायरंति ममाइयं ।। वृ.आह-वस्त्राद्यभावभाविन्यपि मूर्छा कथं वस्त्रादिभावे साधूनां न भविष्यति?, उच्यते, सम्यग्बोधेन तद्बीजभूताबोधोपघाताद, आह च-'सव्वत्थ'त्ति सूत्रं, 'सर्वत्र' उचिते क्षेत्रे काले च उपधिना' आगमोक्तेन वस्त्रादिना सहापि 'बुद्धा' यथावद्विदितवस्तुतत्त्वा: साधवः ‘संरक्षणपरिग्रह' इति संरक्षणाय षण्णां जीवनिकायानां वस्त्रादिपरिग्रहे सत्यपि नाचरन्ति ममत्वमिति योगः, किं चानेन?, ते हि भगवन्तः 'अप्यात्मनोऽपि देह' इत्यात्मनो धर्मकायेऽपि विशिष्टप्रतिबन्धसंगति न कुर्वन्ति ममत्वम्' आत्मीयाभिधानं, वस्तुतत्त्वावबोधात्, तिष्ठतु तावदन्यत्, ततश्च देहवदपरिग्रह एव तदिति सूत्रार्थः ।। मू. ( २४७) अहो निच्चं तवो कम्म, सब्वबुद्धेहि वण्णि।
जाव लज्जासमा वित्ती, एगभत्तं च भोअणं ।। वृ. उक्तः पञ्चमस्थानविधिः, अधुना पष्ठमधिकृत्याह-'अहो'त्ति सूत्रं, 'अहो नित्यं तपःकर्मे'ति अहो-विस्मये नित्यं नामापायाभावेन तदन्यगुणवृद्धिसंभवादप्रतिपात्येव तपःकर्मतपोऽनुष्ठानं 'सर्वबुद्धैः' सर्वतीर्थकरैः वर्णितं' देशितं, किंविशिष्टमित्याह-'याव-ल्लज्जासमा वृत्तिः'लज्जा-संयमस्तेन समा-सदृशी तुल्या संयमाविरोधिनीत्यर्थः वर्तनं वृत्तिः-देहपालना 'एकभक्तं च भोजनम्' एकं भक्तं द्रव्यतो भावतश्च यस्मिन् भोजने तत्तथा, द्रव्यत एकम्एकसंख्यानुगतं, भावत एकं-कर्मबन्धाभावादद्वितीयं, तद्दिवस एव रागादिरहितस्य अन्यथा भावत एकत्वाभावादिति सूत्रार्थः ।। मू.(२४८) संतिमे सुहमा पाणा, तसा अदुव थावरा। .
जाई राओ अपासंतो, कहमेसणिअं चरे? ।। वृ.रात्रिभोजने प्राणातिपातसंभवेन कर्मबन्धसद्वितीयतां दर्शयति-'संतिमे'त्ति सूत्रं, सन्त्येतेप्रत्यक्षोपलभ्यमानस्वरूपाः सूक्ष्माः 'प्राणिनो' जीवा: त्रसा-द्वीन्द्रियादयः अथवा स्थावरा:पृथिव्यादयः यान् प्राणिनो रात्रावपश्यन् चक्षुषा कथम् एषणीय' सत्त्वानुपरोधेन चरिष्यति भोक्ष्यते च?, असंभव एव रात्रावेषणीयचरणस्येति सूत्रार्थः ।। मू. ( २४९) उदउल्लं बीअसंसत्तं, पाणा निवडिया महि।
दिआ ताई विवज्जिजा, राओ तत्थ कह चरे? ॥ वृ. एवं रात्रौ भोजने दोषमभिधायाधुना ग्रहणगतमाह-'उदउल्लं'ति सूत्रं, उदकार्दै पूर्ववद्रेकग्रहणे तज्जातिग्रहणात्सस्निग्धादिपरिग्रहः, तथा 'बीजसंसक्तं' बीजैः संसक्तं-मिश्रम्, ओदनादीति गम्यते, अथवा बीजानि पृथग्भूतान्येव, संसक्तं चारनालाद्यपरेणेति, तथा 'प्राणिनः' संपातिमप्रभृत्यो निपतिता 'मह्यां' पृथिव्यां संभवन्ति, ननु दिवाप्येतत्संभवत्येव?, सत्यं, किंतु परलोकभीरुश्चक्षुषा पश्यन् दिवा तान्युदकार्द्रादीनि विवर्जयेत्, रात्रौ तु तत्र कथं चरति संयमानुपरोधेन?, असंभव एव शुद्धचरणस्येति सूत्रार्थः ।।
मू. ( २५०) एअंच दोसं दट्टणं, नायपुत्तेण भासि।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org