________________
अध्ययन-६, उद्देशकः - (नि. २६८]
१७९ तम्हा मेहुणसंसागं, निग्गंथा वज्जयंति नं ।।। वृ.एतदेव निगमयति-'मूलं'ति सूत्रं, 'मूलं' बीजमेतद् 'अधर्मस्य' पापस्येति पारलौकिकोऽपाय: 'महादोषसमुच्छ्रयं' महतां दोषाणां-चौर्याप्रवृत्त्यादीनां समुच्छ्रयं-संघातवदित्यैहिकोऽपायः, यस्मादेवं तस्मात् 'मैथुनसंसर्ग' मैथुनसंबन्धं योषिदालापाद्यपि निर्ग्रन्था वर्जयन्ति, नमिति वाक्यालङ्कार इति सूत्रार्थः ।। मू. ( २४२) बिडमुब्भेइमं लोणं, तिलं सप्पिं च फाणिों।
नते संनिहिमिच्छति, नायपुत्तवओरया॥ वृ. प्रतिपादितश्चतुर्थस्थानविधिः, इदानी पञ्चमस्थानविधिमाह-'बिड'त्ति सूत्रं, 'बिडं' गोमूत्रादिपक्वं 'उद्भेद्यं' सामुद्रादि यद्वा 'बिडं' प्रासुकम् 'उद्भेद्यम्' अप्रासुकमपि, एवं द्विप्रकारं लवणं, तथा तैलं सर्पिश्च फाणितम्, तत्र तैलं प्रतीतं, सर्पिघृतं, फाणितं द्रवगडः, एतल्लवणाद्येवंप्रकारमन्यच्च न ते साधवः 'संनिधिं कुर्वन्ति' पर्युषितं स्थापयन्ति, 'ज्ञातपुत्रवचोरताः' भगवद्वर्धमानवचसि निःस्ङ्गताप्रतिपादनपरे सक्ता इति सूत्रार्थः ।। मू. ( २४३) लोहस्सेस अनुप्फासे, मने अत्रयरामवि।
जे सिआ सन्निहिं कामे, गिही पव्वइए न से ।। वृ. संनिधिदोषमाह-'लोभस्स'त्ति सूत्रं, 'लोभस्य' चारित्रविघ्नकारिणश्चतुर्थकषायस्य 'एसोऽनुप्फास'त्ति एषोऽनुस्पर्श:-एषोऽनुभावो यदेतत्संनिधिकरणमिति, यतश्चैवमतो 'मन्ये' मन्यन्ते, प्राकृतशैल्या एकवचनम्, एवमाहुस्तीर्थकरगणधराः 'अन्यतरामपि' स्तोकामपि 'य: स्यात्' यः कदाचित्संनिधि 'कामयते' सेवते 'गृही' गृहस्थोऽसौ भावतः प्रव्रजितो नेति, दुर्गतिनिमित्तानुष्ठानप्रवृत्तेः, संनिधीयते नरकादिष्वात्माऽनयेति संनिधिरिति शब्दार्थात् प्रव्रजितस्य च दुर्गतिगमनाभावादिति सूत्रार्थः॥ मू. ( २४४) जंपि वत्थं व पायं वा, कंबलं पायपुंछणं ।
तंपि संजमलज्जट्ठा, धारंति परिहति ॥ वृ. आह-यद्येवं वस्त्रादिधारयतां साधूनां कथमसंनिधिरित्यत आह 'जंपिपत्ति सूत्रं, यदप्यागमोक्तं 'वस्त्रं वा' चोलपट्टकादि 'पात्रं वा' अलाबुकादि 'कम्बलं' वर्षाकल्पादि, 'पादपुंछनं रजोहरणं, तदपि 'संयमलज्जार्थ'मिति संयमार्थं पात्रादि, तद्वयतिरेकेण पुरुषमात्रेण गृहस्थभाजने सति संयमपालनाभावात्, लज्जार्थं वस्त्र, तद्वयतिरेकेणाङ्गनादौ विशिष्टश्रुतपरिणत्यादिरहितस्य निर्लज्जतोपपत्तेः, अथवा संयम एव लज्जा तदर्थं सर्वमेतद्वस्त्रादि धारयन्ति, पुष्टालम्बनविधानेन 'परिहरन्ति च परिभुञ्जते च' मूर्छारहिता इति सूत्रार्थः॥ मू. ( २४५) नसो परिग्गहो वुत्तो, नायपुत्तेण ताइणा।
मुच्छा परिग्गहो वुत्तो, इअ वुतं महेसिणा॥ वृ.यतश्चैवमत:-'न सो'त्ति सूत्रं, नासौ निरभिष्वङ्गस्य वस्त्रधारणादिलक्षणः परिग्रह उक्तो, बन्धहेतुत्वाभावात्, केन?, 'ज्ञातपुत्रेण' ज्ञात-उदारक्षत्रियः सिद्धार्थः तत्पुत्रेण वर्धमानेन 'जात्रा' स्वपरपरित्राणसमर्थेन, अपि तु 'मूर्छा' असत्स्वपि वस्त्रादिष्वभिष्वङ्गः परिग्रह उक्तो, बन्धहेतुत्वाद्, अर्थतस्तीर्थकरेण, ततोऽवधार्य 'इति' एवमुक्तो 'महर्षिणा' गणधरेण, सूत्रे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org