________________
अध्ययन-६, उद्देशकः - [नि. २४७]
१७३ पढमो अ बारसविहो दसहा पुन बीयओ होइ ।। वृ. धर्मो 'द्वाविंशतिविधः' सामान्येन द्वाविंशतिप्रकार: 'अगारधर्मो' गृहस्थधर्मः 'अनगारधर्मश्च' साधुधर्मः, 'प्रथमश्च' अगारधर्मो द्वादशविधः, दशधा पुनः द्वितीयः' अनगारधर्मोभवति इतिगाथासमासार्थः !! व्यासार्थं त्वाहनि. [२४८] पंच य अणुव्वयाइं गुणव्वयाइं च होंति तिन्नेव ।
सिक्खावयाइं चउरो गिहिधम्मो बारसविहो । वृ. पञ्चचाणुव्रतानि-स्थूलप्राणातिपातनिवृत्त्यादीनि, गुणव्रतानि च भवन्ति त्रीण्येवदिग्व्रतादीनि शिक्षापदानि चत्वारि-सामायिकादीनि, गृहिधर्मो द्वादशविधस्तु एष एवाणुव्रतादि। अणुव्रतादिस्वरूपं चावश्यके चर्चितत्वानोक्तमिति गाथार्थः ।। साधुधर्ममाहनि.[२४९] खंती अ मद्दवऽज्जव मुत्ती तवसंजमे अ बोद्धव्वे ।
सच्चं सोचं आकिंचणं च बंभं च जइधम्मो । वृ.क्षान्तिश्च मार्दम्, आर्जवं मुक्तिः तप:संयमौ च बोद्धव्यौ सत्यं शौचमाकि-ञ्चन्यं ब्रह्मचर्य च यतिधर्म इति गाथारक्षरार्थः । भावार्थः पुनर्यथा प्रथमाध्ययने ।। नि. [२५०] धम्मो एसुवइट्ठो अत्थस्स चउव्विहो उ निक्खेवो ।
* ओहेण छव्विहऽथो चउसट्टिविहो विभागेणं ॥ वृ. धर्म एष 'उपदिष्टो' व्याख्यातः, अधुना त्वर्थावसरः, तत्रेदमाह-अर्थस्य चतुर्विधस्तु निक्षेपो-नामादिभेदात्, तत्र 'ओधेन' सामान्यतः षडिवधोऽर्थ आगमनोआगम-व्यतिरिक्तो द्रव्यार्थः, चतुःषष्टिविधो 'विभागेन' विशेषेणेति गाथासमुदायार्थः ।। अवयवार्थं त्वाहनि.२५१] धन्नाणि रयण थवार दुपयचउप्पय तहेव कुविअंच।।
ओहेण छव्विहत्थो एसो धीरेहिं पन्नत्तो । वृ. धान्यानि' यवादीनि, रत्नं-सुवर्णं स्थावरं-भूमिगृहादि द्विपदं-गन्त्र्यादि चतुष्पदं-गवादि तथैव कुप्यं च-ताम्रकलशाद्यनेकविधम्। ओधेन षड्विधोऽथ 'एषः' अनन्तरो-दितः 'धीरैः' तीर्थकरणगधरैः 'प्रज्ञप्तः' प्ररूपित इति गाथार्थः । एनमेव विभागतोऽभिधित्सुराहनि. [२५२] चउवीसा चउवीसा तिगदुगदसहा अणेगविह एव ।
सव्वेसिपि इमेसि विभागमहयं पवक्खामि !! - वृ.चतुर्विशति: चतुर्विशतीति चतुर्विशतिविधो धान्यार्थो रत्नार्थश्च, त्रिद्विदशधे'ति त्रिविधः स्थावरार्थः द्विविधो द्विपदार्थ: दशविधश्चतुष्पदार्थ, 'अनेकविध एवे'त्यनेकविधः कृप्यार्थः सर्वेषामप्यमीषा चतुर्विशत्यादिसंख्याभिहितानां धान्यादीनां विभागं' विशेषम् 'अथ' अनन्तरं संप्रवक्ष्यामीत्यर्थः॥ नि. [२५३]धन्नाइं चउव्वीसं जव १ गोहुम २ सालि ३ वीहि ४ सट्ठीआ ५ ।
कोद्दव ६ अणुया ७ कंगू ८ रालग ९ तिल १० मुग्ग ११ मासा १२ य ।। नि. [२५४] अयसि १३ हरिमन्थ १४ तिउडग १५ निप्फाव १६ सिलिंद १७ रायमासा अ।
इक्खू १९ मसूर २० तुवरी २१ कुलत्थर २२ तहर २३ धनगकलाया २४ ।। वृ.धान्यानि चतुर्विंशतिः, यवगोधूमशालिव्रीहिषष्टिका: कोद्रवाणुकाः कङ्गुरालगति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org