SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ १७२ दशवैकालिक-मूलसूत्र-६/-/२२५ च-“गोअरग्गपविट्ठो उ, ननिसीएज्ज चानुयोगद्वारोपन्यासः पूर्ववत्तावद्यावत्रामनिष्पन्नो निक्षेपः, तत्र च महाचारकथेति नाम, एतच्च तत्त्वतः प्राग्निरूपितमेवेत्यतिदिशन्नाहनि. [२४६] जो पुचि उद्दिट्ठो आयारो सो अहीणभइरित्तो। सच्चेव य होइ कहा आयारकहाए महईए ।। वृ. यः 'पूर्व' क्षुल्लकाचारकथायां 'निर्दिष्ट' उक्तः 'आचारो' ज्ञानाचारादिः असावहीनातिरिक्तो वक्तव्यः, सैव च भवति 'कथा' आक्षेपण्यादिलक्षणा वक्तव्या, चशब्दात्तदेव क्षुल्लकप्रतिपक्षोक्तं महद्वक्तव्यम्, आचारकथायां महत्यां प्रस्तुतयामिति गाथार्थ: ।। उक्तो नामनिष्पन्नो निक्षेप इत्यादिचर्चः पूर्ववत्तावद्यावत्सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चारणीयं, तच्चेदम्मू.( २२६) नाणदंसणसंपन्न, संजमे अतवे रयं । गणिमागमसंपन्न, उज्जाणम्मि समोसढं। वृ.'ज्ञानदर्शनसंपन्न' ज्ञानं-श्रुतज्ञानादि दर्शनं-क्षायोपशमिकादि ताभ्यां संपन्नं-युक्तं 'संयमे' पञ्चाश्रवविरमणादौ 'तपसि च' अनशनादौ 'रतम्' आसक्तं, गणोऽस्यास्तीति गणीतं गणिनम्आचार्यम् 'आगमसंपन्नं' विशिष्टश्रुतधरं, बह्वागमत्वेन प्राधान्यख्यापनार्थमेतत्, 'उद्याने' कचित्साधुप्रायोग्ये 'समवसृतं' स्थितं धर्मदेशनार्थं वा प्रवृत्तमिति सूत्रार्थः ।। मू. (२२७) रायाणो रायमच्चा य, माहणा अदुव खत्तिआ। पुच्छंति निहुअप्पाणो, कहं भे आयारगोयरो?॥ वृ.तत्किमित्याह-'रायाणो'त्ति सूत्रं, 'राजानो' नरपतयः 'राजामात्याश्च' मन्त्रिणः ‘ब्राह्मणाः' प्रतीताः 'अदुव'त्ति तथा 'क्षत्रिया:' श्रेष्ठयादयः पृच्छन्ति निभृतात्मानः' असभ्रान्ता रचिताञ्जलयः कथं भे' भवताम् 'आचारगोचरः' क्रियाकलापः स्थित इति सूत्रार्थः ।। मू. ( २२८) तेर्सि सो निहुओ दंतो, सव्वभूअसुहावहो। सिक्खाए सुसमाउत्तो, आयक्खइ विअक्खणो । वृ. 'तेसिं'ति सूत्रं, 'तेभ्यो' राजादिभ्यः 'असौ' गणी 'निभृतः' असंभ्रान्त उचितधर्मकायस्थित्या, दान्त इन्द्रियनोइन्द्रियाभ्यां, 'सर्वभूतसुखावहः' सर्वप्राणिहित इत्यर्थः, शिक्षया' ग्रहणासेवनरूपया सुसमायुक्तः' सुष्ठ-एकीभावेन युक्तः 'आख्याति' कथयति 'विचक्षणः' पण्डित इति सूत्रार्थः॥ मू. (२२९) हंदि धम्मत्थकामाणं, निग्गंधाणं सुणेह मे। आयारगोअरं भीम, सयलं दुरहिडिअं॥ वृ. हंदि'त्ति सूत्रं, हन्दीत्युपप्रदर्शने, तमेनं 'धर्मार्थकामाना मिति धर्म:-चारित्रधर्मादिस्तस्यार्थः-प्रयोजनं मोक्षस्तं कामयन्ति-इच्छन्तीति विशुद्धविहितानुष्ठानकरणेनेति धर्मार्थकामामुमुक्षवस्तेषां 'निर्ग्रन्थानां' बाह्याभ्यन्तरग्रन्थरहितानां शृणुत मम समीपाद् ‘आचारगोचरं' क्रियाकलापं 'भीम' कर्मशञ्चपेक्षया रौद्रं 'सकलं' संपूर्ण 'दुरधिष्ठं' क्षुद्रसत्त्वैर्दुराश्रयमिति सूत्रार्थः । धर्मार्थकामानामित्युक्तं, तदेतत्सूत्रस्पर्शनियुक्ता निरूपयति-तत्र धर्म-निक्षेपो यथा प्रथमाध्ययने, नवरं लोकोत्तरमाह-. नि. [२४७] धम्मो बावीसविहो अगारधम्मोऽनगारधम्मो अ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003380
Book TitleAgam Sutra Satik 42 Dashvaikalik MoolSutra 3
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages284
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 42, & agam_dashvaikalik
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy