________________
१७१
अध्ययनं-५, उद्देशकः -२. [नि. २४६] मू. ( २२२) लभृणवि देवत्तं. उववन्नो देवकिब्बिसे।
तत्थावि से न याणाइ, किं मे किच्चा इमं फलं?॥ वृ.अयं चेत्थंभूतः ‘लभूण'त्ति सूत्रं, लब्ध्वापि देवत्वं तथाविधक्रियापालनवशेन उपपन्नो 'देवकिल्बिषे' देवकिल्बिषिका ये, तत्राप्यसौ न जानात्यविशुद्धावधिना, किं मम कृत्वा 'इदं फलं' किल्बिषिकदेवत्वमिति सूत्रार्थः ।। मू.( २२३) तत्तोवि से चइत्ताणं लब्भिही एलमूअयं ।
नरगं तिरिक्खजोणि वा, बोही जत्थ सुदुल्लहा ।। वृ. अत्रैव दोषान्तरमाह-'तत्तोवि'त्ति सूत्रं, 'ततोऽपि' देवलोकादसौ च्युत्वा लप्स्यते 'एलमकताम्' अजाभाषानुकारित्वं मानुपत्वे, तथा नरकं तिर्यग्योनि वा पारम्पर्येण लप्स्यते, 'बोधिर्यत्र सुदुर्लभ:' सकलसंपनिबन्धना यत्र जिनधर्मप्रासिर्दुरापा। इह च प्राप्नोत्येलमूकतामिति वाच्ये असकृद्भावप्राप्तिख्यापनाय लप्स्यत इति भविष्यत्कालनिर्देश इति सूत्रार्थः ।। मू. ( २२४) एअंच दोसं दट्टणं, नायपुत्तेण भासि।
अनुमायपि मेहावी, मायामोसं विवज्जए। वृ. प्रकृतमुपसंहरति-'एअंच' त्ति सूत्रं, एनं च दोषम् - अनन्तरोदितं सत्यपि श्रामण्ये किल्बिषिकत्वादिप्राप्तिरूपं दृष्ट्वा आगमतो 'ज्ञातपुत्रेण' भगवता वर्द्धमानेन भाषितम्' उक्तम् 'अनुमात्रमपि' स्तोकमात्रमपि किमुत प्रभूतं ? 'मेधावी' मर्यादावर्ती 'मायामृषावादम्' अनन्तरोदितं 'वर्जयेत्' परित्यजेदिति सूत्रार्थः ।।
अध्ययनं -५ उद्देशकः .-२ समाप्तः मू. ( २२५ )सिक्खिऊण भिक्खेसणसोहि, संजयाण बुद्धाण सगासे।
तत्थ भिक्खु सुप्पणिहिइं दिए, तिव्वलज्जगुणवं विहरिग्जासि ॥ तिबेमि वृ. अध्ययनार्थमुपसंहन्नाह-'सिक्खिऊण'त्ति सूत्रं, शिक्षित्वा' अधीत्य 'भिषणाशुद्धिम्' पिण्डमार्गणाशुद्धिमुद्गमादिरूपां, केभ्यः सकाशादित्याह-'संयतेभ्यः' साधुभ्यो 'बुद्धेभ्यः' अवगततत्त्वेभ्यः गीतार्थेभ्यो न द्रव्यसाधुभ्यः सकाशात्, ततः किमित्याह-'तत्र' भिक्षैषणायां 'भिक्षुः' साधु 'सुप्रणिहितेन्द्रिय:' श्रोत्रादिभिढिं तदुपयुक्तः तीव्रलज्ज' उत्कृष्टसंयमः सन्, अनेन प्रकारेण गुणवान् विहरेत्-सामाचारीपालनं कुर्याद् इति ब्रवीमीति पूर्ववदिति सूत्रार्थः ।। उक्तोऽनुगमः । साम्प्रतं नयाः ते च पूर्ववदेव । व्याख्यातं पिण्डैषणाध्ययनम् ॥
अध्ययनं - ५ समाप्तम्। मुनिदीपरत्नसागरेण संशोधिता सम्पादिता दशवैकालिकसूत्रे पंचम अध्ययनस्य भद्रबाहुस्वामीविरचिता नियुक्तिः एवं हरिभद्रसूरि विरचिता टीका परिसमाप्ता ।
(अध्ययनं-६ महाचारकथा - वृ. अधुना महाचारकथाख्यमारभ्यते, अस्य चायमभिसंबन्धः-इहानन्तरध्ययने साधोभिक्षाविशोधिरुक्ता, इह तु गोचरप्रविष्टेन सता स्वाचारं पृष्टेन तद्विदाऽपि न महाजनसमक्षं तत्रैव विस्तरतः कथयितव्य इति, अपि त्वालये गुरवो वा कथयन्तीति वक्तव्यमित्येतदुच्यते, उक्तं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org