________________
१७०
दशवैकालिक - मूलसूत्रं - ५/२/२१६
तच्छीलश्च य इत्यर्थः, तथा 'गुणानां च ' अप्रमादादीनां स्वगतानामनासेवनेन परगतानां च प्रद्वेषेण 'विवर्जकः' त्यागी 'तादृश: ' क्लिष्टचित्तो मरणान्तेऽपि नाराधयति 'संवरं' चारित्रमिति । मू. ( २१७ ) तवं कुव्वइ मेहावी, पणीअं वज्जए रसं । मज्जप्पमायविरओ, तवस्सी अइउक्कसो॥
वृ. यतश्चैवमत एतद्दोषपरिहारेण 'तवं 'ति सूत्रं, तपः करोति 'मेधावी' मर्यादावर्ती 'प्रणीतं ' स्त्रिग्धं वर्जयति 'रसं' धृतादिकं, न केवलमेतत्करोति, अपितु मद्यप्रमादविरतो, नास्ति क्लिष्टसत्त्वानामकृत्यमित्येवं प्रतिषेधः, 'तपस्वी' साधुः 'अत्युत्कर्ष: ' अहं तपस्वीत्युत्कर्षरहित इति सूत्रार्थः ॥
मू. ( २१८ )
तस्स पस्सह कल्लाणं, अनंगसाहुपूइअं । विलं अत्थसंजुत्तं, कित्तइस्सं सुणेह मे ॥
वृ. 'तस्स' त्ति सूत्रं, 'तस्य' इत्थंभृतस्य पश्यत 'कल्याणं' गुणसंपद्रूपं संयमं किविशष्टमित्याह- अनेकसाधुपूजितं, पूजितमिति - सेवितमाचरितं, 'विपुलं' विस्तीर्णं विपुलमोक्षावहत्वात्, 'अर्थसंयुक्तं' तुच्छतादिपरिहारेण निरुपमसुखरूपमोक्षसाधनत्वात् कीर्तयिष्येऽहं शृणुत 'मे' ममेति सूत्रार्थः ॥ मू. ( २१९ )
एवं तु सगुणप्पेही, अगुणाणं च विवज्जए । तारिस मरणंतेऽवि, आराहेइ संवरं ॥
वृ. ' एवं तु' उक्तेन प्रकारेण 'स' साधुः 'गुणप्रेक्षी' गुणान् अप्रमादादीन् प्रेक्षते तत्छीलश्च य इत्यर्थः, तथा 'अगुणानां च ' प्रमादादीनां स्वगतानामनासेवनेन परगतानां चाननुमत्वा 'विवर्जकः' त्यागी 'तादृश: ' शुद्धवृत्तो 'मरणान्तेऽपि' चरमकालेऽप्याराधयति 'संवरं' चारित्रं, सदैव कुशलबुद्धया तद्बीजपोषणादिति सूत्रार्थः ।
मू. ( २२० )
आयरिए आराहेइ, समणे आवि तारिसे ।
गिहत्थावि न पूयंति, जेण जाणंति तारिसं ॥
वृ. तथा 'आयरिए 'त्ति सूत्रं, आचार्यानाराधयति, शुद्धभावत्वात्, श्रमणांश्चपि तादृश आराधयति, शुद्धभावत्वादेव, गृहस्था अपि शुद्धवृत्तमेनं पूजयन्ति किमिति ?, येन जानन्ति 'तादृशं' शुद्धवृत्तमिति सूत्रार्थः ॥
मू. (२२१ )
तवतेने वयतेने, रूवतेने अजे नरे ।
आयारभावतेने अ, कुव्वई देवकिव्विसं ॥
वृ. स्तेनाधीकार एवेदमाह- 'तव 'त्ति सूत्रं, तपस्तेनो वाक्स्तेनो रूपस्तेनस्तु यो नरः कश्चित् आचारभावस्तेनश्च, पालयन्नपि क्रियां तथाभावदोषाद्देवकिल्विषं करोति किल्बिषिकं कर्म निर्वर्त्तयतीत्यर्थः, तपस्तेनो नाम क्षपकरूपकल्पः कश्चित् केनचित् पृष्टस्त्वमसौ क्षपक इति, स पूजाद्यर्थमाह-अहम्, अथवा वक्ति साधव एव क्षपका: तृष्णीं वाऽऽस्ते, एवं वाक्स्तेनो धर्मकथकादितुल्यरूपः कश्चित्केनचित् पृष्ट इति, एवं रूपस्तेनो राजपुत्रादितुल्य - रूपः एवमाचारस्तेनो विशिष्टाचारवत्तुल्यरूप इति, भावस्तेनस्तु परोत्प्रेक्षितं कथञ्चित् किञ्चित् श्रुत्वा स्वयमनुत्प्रेक्षितमपि भयैतत्प्रपञ्चेन चर्चितमित्याहेति सूत्रार्थः ॥
Jain Education International
-
For Private & Personal Use Only
www.jainelibrary.org