________________
अध्ययनं-५, उद्देशकः- २. [नि. २४५]
१६९ सन्मानः, स चैवंभूतः 'बहु' अतिप्रचुर प्रधानसंक्लेशयोगात प्रसूते' निर्वर्त्तयति पापं तद्गुरुत्वादेव सम्यगनालोचयन् 'मायाशल्यं च' भावशल्यं च कगेतीति सूत्रार्थः ॥ मू. ( २११) सुरं वा मेरगं वावि, अन्नं वा मज्जगं रसं।
ससक्खं न पिबे भिक्ख, जसंसारक्खमप्पणो ।। वृ.प्रतिषेधान्तरमाह-'सुरं वत्ति सूत्रं-'सुरां वा' पिष्टादिनिष्पन्नां, 'मेरकं वापि' प्रसन्नाख्यां, सुराप्रायोग्यद्रव्यनिष्पन्नमन्यं वा 'माद्यं रसं' सीध्वादिरूपं 'ससाक्षिकं' सदापरित्यागसाक्षिकेवलिप्रतिषिद्धं न पिबेद्भिक्षुः, अनेनात्यन्तिक एव तत्प्रतिषेधः, सदासाक्षिभावात् । किमिति न पिबेटित्याह-यशः संरक्षन्नात्मनः, यश:शब्देन संयमोऽभिधीयते, अन्ये तु ग्लानापवादविषयमेतत्सूत्रं अल्पसागारिकविधानेन व्याचक्षत इति सूत्रार्थः ।। मू. ( २१२) पियए एगओ तेनो, न मे कोइ विआणइ।
तस्स पस्सइ दोसाई, निअडिं च सुणेह मे ॥ वृ.अत्रैव दोषमाह-'पियए'त्ति सूत्रं, पिबति 'एको' धर्मसहायविप्रमुक्तोऽल्पसागारिकस्थितो वा 'स्तेनः' चौराऽसौ भगवददत्तग्रहणात् अन्यापदेशयाचनाद्वा न मां कश्चिज्जानातीति भावयन्, तस्येत्थंभूतस्य पश्यत दोषानैहिकान् पारलौकिकांश्च निकृति च' मायारूपां शृणुत ममेति सूत्रार्थ: i मू.( २१३) वडुई सुंडिआ तस्स, मायामोसं च भिक्खुणो।
अयसो अ अनिव्वाणं, सययं च असाहुआ। वृ. 'वड्डइ'त्ति सूत्रं, वर्धते 'शौण्डिका' तदत्यन्ताभिष्वङ्गरूपा तस्य माया मृषावादं चेत्येकवद्भाव: प्रत्युपलब्धापलापेन वर्धते तस्य भिक्षोः, इदं च भवपरम्पराहेतुः, अनुबन्धदोषात्, तथा अयशश्च स्वपक्षपरपक्षयोः, तथा अनिर्वाणं तदलाभे सततं चासाधुता लोके व्यवहारतः चरणपरिणामबाधनेन परमार्थत इति सूत्रार्थः ॥ मू. ( २१४) निच्चुब्विग्गो जहा तेनो, अतकम्मेहिं दुम्मई।
तारिसो मरणंतेवि, न आराहेइ संवरं। वृ.किंच-'निच्चुव्विग्गो'त्ति सूत्र, स इत्थंभूतो 'नित्योद्विग्नः' सदाऽप्रशान्तो यथा 'स्तेनः' चौर: 'आत्मकर्मभिः' स्वदुश्चरितैः दुर्मतिः-दुष्टबुद्धिः 'तादृशः' क्लिष्टसत्त्वो 'मरणान्तेऽपि' चरमकालेऽपि नाराधयति संवरं' चारित्रं, सदैवाकुशलबुद्धया तद्बीजाभावादिति सूत्रार्थः !! मू. ( २१५) आयरिए नाराहेइ, समणे आवि तारिसे।
गिहत्थाविन गरिहंति, जेन जाणंति तारिसं। वृ. तथा-'आयरिए'त्ति सूत्रं, आचार्याचाराधयति, अशुद्धभावत्वात्-श्रमणांश्चापि तादृशान्नाराधयत्यशुभभावत्वादेव, गृहस्था अप्येनं दुष्टशीलं ‘गर्हन्ते' कुत्सन्ति, किमिति?येन जानन्ति 'तादृशं' दुष्टशीलमिति सूत्रार्थः ।। मू. (२१६) एवं तु अगुणप्पेही, गुणाणं च विवज्जए।
तारिसो मरणंतेऽवि, न आराहेइ संवरं ।। वृ.'एवं तु'त्ति सूत्रं, एवं तु' उक्तेन प्रकारेण 'अगुणप्रेक्षी' अगुणान्-प्रमादादीन् प्रेक्षते
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org