________________
१६८
मू. (२०५ )
दशवैकालिक - मूलसूत्रं - ५/२/२०५
जे न वंदे न से कुप्पे, वंदिओ न समुक्कसे ।
एवमन्समाणस्स, सामन्नमनुचिट्ठइ ॥
वृ. तथा - 'जे न वंदि'त्ति सूत्रं, यो न वन्दते कश्चिदृहस्थादिः न तस्मै कुप्यैत् तथा वन्दितः केनचिन्नृपादिना न समृत्कर्षेत् । 'एवम्' उक्तेन प्रकारेण 'अन्वेषमाणस्य' भगवदाज्ञामनुपालयतः श्रामण्यमनुतिष्ठत्यखण्डमिति सूत्रार्थः ॥
मू. ( २०६ )
सिआ एगइओ लद्धुं, लोभेन विनिगूहइ । मामेयं दाइयं संत, दट्ठूणं सयमायए ॥
वृ. स्वपक्षस्तेयप्रतिषेधमाह- 'सिअ 'त्ति सूत्र, 'स्यात्' कदाचिद् 'एकः ' कश्चिदत्यन्तजघन्यो लब्ध्वोत्कृष्टमाहारं, 'लोभेन' अभिष्वङ्गेण 'विनिगूहते' अहमेव भोक्ष्य इत्यन्तप्रान्तादिनाऽऽच्छादयति- किमित्यत आह-मा मम 'इदं' भोजनजातं दर्शितं सदृष्ट्वाऽऽचार्यादिः "स्वयमादद्याद्' आत्मनैव गृह्णीयादिति सूत्रार्थः ॥
मू. (२०७ ) अत्तट्ठा गुरुओ लुद्धो, बहुं पावं पकुव्वन् । दुत्तोसओ असो होइ, निव्वाणं च न गच्छइ ।
'वृ. अस्य दोषमाह - 'अत्तट्ट' त्ति सूत्रं, आत्मार्थ एव जघन्यो- गुरुः पापप्रधानो यस्य स आत्मार्थगुरुर्लुब्धः सन् क्षुद्रभोजने 'बहु' प्रभूतं पापं करोति, मायया दारिद्रं कर्मेत्यर्थः, अयं परलोकदोषः, इहलोकदोषमाह-'दुस्तोषश्च भवति' येन केनचिदाहारेणास्य क्षुद्रसत्त्वस्य तुष्टिः कर्तुं न शक्यते, अत एव 'निर्वाणं च न गच्छति' इहलोक एव धृतिं न लभते, अनन्तसंसारिकत्वाद्वा मोक्षं न गच्छतीति सूत्रार्थः ॥
मू. ( २०८ ) सिआ एगइओ लद्धुं विविहं पानभो अणं । भगं भद्दगं भुच्चा, विवत्रं विरसमाहरे ॥
वृ. एवं यः प्रत्यक्षमपहरति स उक्तः, अधुना यः परोक्षमपहरति स उच्यते- 'सिअ 'त्ति सूत्र, स्यादेको लब्ध्वेति पूर्ववत्, 'विविधम्' अनेकप्रकारं पानभोजनं भिक्षाचर्यागत एव 'भद्रकं भद्रकं' घृतपूर्णादि भुक्त्वा 'विवर्ण' विगतवर्णमाम्लखलादि 'विरसं' विगतरसंशीतौदनादि 'आहरेद्' आनयेदिति सूत्रार्थः ।
पू. (२०९ ) जाणंतु ता इमे समणा, आययट्ठी अयं मुनी । संतुट्ठो सेवए पंतं, सूहवित्ती सुतोसओ ॥
'वृ. स किमर्थमेवं कुर्यादित्यत आह-'जाणंतु 'त्ति सूत्रं, जानन्तु तावन्मां शेषसाधवो यथा 'आयतार्थी' मोक्षार्थी अयं 'मुनिः ' साधुः 'संतुष्टो' लाभालाभयोः समः सेवते 'प्रान्तम्' असारं 'रूक्षवृत्तिः ' संयमवृत्तिः ' 'संतोष्यः' येन केनचित्तोषं नीयत इति सूत्रार्थ: ।।
मू. ( २१० )
पूअणट्ठा जसोकामी, मानसम्मानकामए ।
Jain Education International
बहु पसवई पावं, मायासल्लं च कुव्वइ ॥
वृ. एतदपि किमर्थमेवं कुर्यात्तत्राह - 'पूअणट्ठ' ति सूत्रं, 'पूजार्थम् ' एवं कुर्वतः स्वपक्षपरपक्षाभ्यां सामान्येन पूजा भविष्यतीति 'यशस्कामी' अहो अयमिति प्रवादार्थं वा, तथा मानसन्मानकाम एवं कुर्यात्, तत्र वन्दनाभ्युत्थानलाभनिमित्तो मान:- वस्त्रपात्रादिलाभनिमित्तः
For Private & Personal Use Only
www.jainelibrary.org