________________
अध्ययनं - ५, उद्देशक :- २. [ नि. २४५ ]
१६७
सपत्रजालकं 'मूलवर्त्तिकां' मूलकन्दचक्कलिम् 'आमाम्' अपक्कामशस्त्रपरिणतां स्वकायशस्त्रादिनाऽविध्वस्ताम्, अनन्तकायत्वाद्गुरुत्वख्यापनार्थमुभयं मनसापि न प्रार्थयेदिति सूत्रार्थः ।। मू. ( १९९ ) तहेव फलमंथूणि बीअमंथूणि जाणिआ । farai पियालं च, आमगं परिवज्जए ||
वृ. 'तहेव 'त्ति सुत्रं, तथैव 'फलमन्थून्' बदरचूर्णान्, बीजभन्थून्' यवादिचूर्णान् ज्ञात्वा प्रवचनतो 'बीभीतकं' बिभीतकफलं 'प्रियालं वा' प्रियालफलं च 'आमम्' अपरिणतं परिवर्जयेदिति सूत्रार्थः ॥ पू. ( २०० )
समृआणं चरे भिक्खू, कुलमुच्चावयं सया । नीयं कुलमइक्कम, ऊसदं नाभिधारए ।
वृ. विधिमाह - 'समुआणं' ति सूत्रं, समुदानं भावभैक्ष्यमाश्रित्य चरेद्मिक्षुः, केत्याह-कुलमुच्चावचं सदा, अगर्हितत्वे सति विभवाक्षया प्रधानमप्रधानं च यथापरिपाट्यव चरेत् 'सदा' सर्वकालं, नीचं कुलमतिक्रम्य विभवापेक्षया प्रभूततरलाभार्थम् 'उत्सृतम् ' ऋद्धिमत्कुलं 'नाभिधारयेत्' न यायात्, अभिष्वङ्गलोकलाघवादिप्रसङ्गादिति सूत्रार्थः ॥
मू. (२०१ )
अदीनो वित्तिमेसिज्जा, न विसीइज्ज पंडिए ।
अमुच्छिओ भोअणमि, मायण्णे एसनारए ॥
वृ. किंच- 'अदीन'त्ति सूत्रं, 'अदीनो' द्रव्यदैन्यमङ्गीकृत्याम्लानवदनः 'वृत्ति' वर्तनम् 'एपयेद्' गवेपयेत्, 'न विपीदेद्' अलाभे सति विषादं न कुर्यात् 'पण्डितः ' साधुः 'अमूच्छितः ' अगृद्धो भोजने, लाभे सति मात्राज्ञ आहारमात्रां प्रति 'एषणारत: ' उगमोत्पादनैषणापक्षपाती । मू. (२०२ ) बहु परघरे अत्थि, विविहं खाइमसाइमं ।
न तत्थ पंडिओ कुप्पे, इच्छा दिज्ज परो न वा ।।
वृ. एवं च भावयेत्- 'बहुं 'ति सूत्रं, 'बहु' प्रमाणतः प्रभूतं 'परगृहे' असंयतादिगृहेऽस्ति 'विविधन्' अनेकप्रकारं खाद्यं स्वाद्यम्, एतच्चाशनाद्युपलक्षणं, 'न तत्र पण्डितः कुप्येत्' सदपि न ददानीति न रोषं कुर्यात्, किंतु-' इच्छया दद्यात् परो न वे 'ति इच्छा परस्य, न तत्रान्यत् किञ्चिदपि चिन्तयेद्, सामायिकबाधनादिति सूत्रार्थः ॥
मू. ( २०३ )
सयनासनवत्थं वा, भत्तं पानं व संजए ।
अदितस्स न कुप्पिज्जा, पच्चक्खेवि अदीसओ ॥
वृ. एतदेव विशेषेणाह - 'सयण' त्ति सूत्रं, शयनासनवस्त्र चेत्येकवद्भावः भक्तं पानं वा संयतोऽददतो न कुप्येत् तत्स्वामिनः, प्रत्यक्षेऽपि च दृश्यमाने शयनासनादाविति सूत्रार्थः । पू. ( २०४ ) इत्थिअं पुरिसं वावि, डहरं वा महल्लगं ।
वंदमाणं न जाइज्जाअ, नो अ नं फरुसं वए ॥
वृ. 'इत्थिअं' ति सूत्रं, स्त्रियं वा पुरुषं वापि, अपिशब्दात्तथविधं नपुंसकं वा, 'डहरं' तरुणं ‘महल्लकं वा' वृद्धं वा, वाशब्दान्मध्यमं वा, वन्दमानं सन्तं भद्रकोऽयमिति न याचेत, विपरिणामदोषात्, अन्नाद्यभावेन याचितादाने न चैनं परुषं ब्रूयात् वृथा ते वन्दनमित्यादि पाठान्तरं वा-वन्दमानो न याचेत लल्लिव्याकरणेन । शेषं पूर्ववदिति सूत्रार्थः ॥
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org