SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ दशवैकालिक - मूलसूत्रं - ५/२/१९१ अनं वा पुप्फसच्चितं, तं च संमद्दिआ दए ॥ तं भवे भत्तपानं तु, संजयाण अकप्पिअं । दितिअं पडिआइक्खे, न मे कप्पइ तारिसं ॥ पू. ( १९२ ) वृ. एवं तच्च संमृद्य दद्यात्, संमर्दनं नाम पूर्वच्छिन्नानामेवापरिणतानां मर्दनं, शेषं सूत्रद्वयेऽपि तुल्यम्। आह-एतत्पूर्वमप्युक्तमेव 'संमद्दमाणी पाणाणि हरिआणि अ' इत्यत्र, उच्यते, उक्तं सामान्येन विशेषभिधानाददोषः ॥ १६६ मू. ( १९३ ) सालुअं वा विरालिअं, कुमुअं उप्पलनालिअं । मुणालिअं सासवनालिअं, उच्छुखंड अनिव्वुडं ॥ बृ. तथा 'सालुअं'ति सूत्रं, 'शालूकं वा' उत्पलकन्दं 'विरालिकां' पलाशकन्दरूपां, पर्ववल्लिप्रतिपर्ववल्लिप्रतिपर्वकन्दमित्यन्ये, कुमुदोत्पलनाला प्रतीतौ तथा 'मृणालिकां' पद्मिनीकन्दोत्थां, 'सर्षपनालिकां' सिद्धार्थकमञ्जरी तथा इक्षुखण्डम् 'अनिर्वृतं' सचित्तम् । एतच्चानिर्वृतग्रहणं सर्वत्राभिसंबध्यत इति सूत्रार्थः ॥ मू. ( १९४ ) तरुणगं वा पवालं, रुक्खस्स तणगस्स वा । अन्नस्स वावि हरिअस्स, आमगं परिवज्जए । वृ. किंच- 'तरुणयं 'ति सूत्रं, तरुणं वा 'प्रवालं' पल्लवं 'वृक्षस्य' चिञ्चिणिकादेः 'तृणस्य वा' मधुरतृणादेः अन्यस्य वापि हरितस्य आर्यकादे: 'आमम्' अपरिणतं परिवर्जयेदिति । मू. ( १९५ ) तरुणिअं वा छिवाडि, आमिअं भज्जिअं सई । दितिअं पडिआइक्खे, न मे कप्पइ तारिसं ॥ वृ. तथा - 'तरुणिअं 'ति सूत्रं, 'तरुणां वा' असंजातां 'छिवाडि' मिति मुद्रादिफलिम् 'आमाम्' असिद्धां सचेतनां, तथा भर्जितां 'सकृद्' एकवारं ददर्ती प्रत्याचक्षीत न मम कल्पते तादृशं भोजनमिति सूत्रार्थः ॥ मू. (१९६) तहा कोलमणुस्त्रिं, वेलुअं कासवनालिअं । तिलपपडगं नीम, आमगं परिवज्जए ॥ वृ . ' तहा कोलं 'ति सूत्रं, तथा 'कोलं' बदरम् 'अस्विन्नं' वह्नयुदकयोगेनानापादितविकारान्तरं, 'वेणुकं' वंशकरिल्लं 'कासवनालिअं' श्रीपर्णीफलम्, अस्विन्नमिति सर्वत्र योज्यं, तथा 'तिलपर्पट' पिष्टतिलमयम् 'नीमं' नीमफलमामं परिवर्जयेदिति सूत्रार्थः ॥ मू. ( १९७ ) तहेव चाडलं पिट्ठ, विअडं वा तत्तऽनिव्वुडं । तिलपिट्ठपूइपिन्नागं, आमगं परिवज्जए । वृ. 'तहेव 'त्ति सूत्रं तथैव तान्दुल पिष्टं, लोट्टमित्यर्थः, विकटं वा शुद्धोदकं तथा तप्तनिर्वृतं कथितं सत् शीतीभूतम्, तप्तानिर्वृतं वा अप्रवृत्तत्रिदण्डं, तिलपिष्टं तिललोट्टं, 'पूतिपिण्याकं' सर्षपस्वलमामं परिवर्जयेदिति सूत्रार्थः ॥ - मू. ( १९८ ) कविद्वं माडलिंगं च, मूलगं मूलगत्तिअं । आमं असत्थपरिणयं, मणसावि न पत्थए । वृ. 'कवि' ति सूत्रं, 'कपित्थं' कपित्थफलं, 'मातुलिङ्गं च' बीजपूरकं, 'मूलकं' www.jainelibrary.org Jain Education International For Private & Personal Use Only
SR No.003380
Book TitleAgam Sutra Satik 42 Dashvaikalik MoolSutra 3
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages284
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 42, & agam_dashvaikalik
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy