________________
१६५
अध्ययनं-५, उद्देशकः - २. नि.२४५] मू.( १८४) अग्गलं फलिहं दारं, कवाडं वावि संजए।
अवलंबिआ न चिट्ठिज्जा, गोअरगगओ मुनी। वृ.उक्ता क्षेत्रयतना, द्रव्ययतनामाह-'अग्गलं'ति सूत्रं, अर्गलं' गोपुरकपाटादिसंबन्धिनं 'परिघं' नगरद्वारादिसंबन्धिनं 'द्वारं' शाखामयं 'कपाटं' द्वारयन्त्रं वाऽपि संयतः अवलम्ब्य न तिष्ठेत्, लाघवविराधनादो पात्, 'गोचराग्रगतो' भिक्षाप्रविष्टः, मुनिः संयत इति पर्यायौ तदुपदेशाधिकाराददुष्टावेवेति सूत्रार्थः !! मू.(१८५) समणं माहणं वावि, किविणं वा वणीमगं।
उवसंकमंतं भत्तट्ठा, पानवाए व संजए॥ वृ.उक्ता द्रव्ययतना, भावयतनामाह-'समणं'त्ति सूत्रं, 'श्रमणं' निर्ग्रन्थादिरूपं, 'ब्राह्मणं' धिग्वर्णं वापि 'कृपणं वा' पिण्डलोकं 'वनीयकं' पञ्चा(नां वनीपका)नामप्यन्यतमम् 'उपसंक्रामन्तं' सामीप्येन गच्छन्तं गतं वा भक्तार्थं पानार्थं वा 'संयतः' साधुरिति सूत्रार्थः ।। मू.(१८६) तमइक्कमित्तु न पविसे, नवि चिट्ठे चक्खुगोअरे।
एगंतमवक्कमित्ता, तत्थ चिट्ठिज्ज संजए ।। वृ.'ते'मिति सूत्रं, 'तं' श्रमणादिम् 'अतिक्रम्य' उल्लङ्घय न प्रविशेत्, दीयमाने च समुदाने तेभ्यो न तिष्ठेच्चक्षुर्गोचरे। कस्तत्र विधिरित्याह-एकान्तमवक्रम्य तत्र तिष्ठेत् संयत इति । मू. (१८७) वणीमगस्स वा तस्स, दायगस्सुभयस्स वा।
अप्पत्तिअंसिआ हुज्जा, लहुत्तं पवयणस्स वा ।। वृ.अन्यथैते दोषा इत्याह-'वणीमगस्स'त्ति सूत्र, 'वनीपकस्य वा तस्ये'त्येतच्छ्रमणाधुपलक्षणं, दातुर्वा उभयोर्वा अप्रीतिः कदाचित् स्यात्-अहो अलोकज्ञतैतेषामिति, लधुत्वं प्रवचनस्य वाऽन्तरायदोषश्चेति सूत्रार्थः ।। मू. (१८८) पडिसेहिए व दिने वा, तओ तम्मि नियतिए।
उवसंकभिज्ज भत्तट्ठा, पानहाए व संजए। वृ. तस्मान्नैवं कुर्यात्, किंतु-'पडिसेहिअति सूत्रं, प्रतिषिद्धे वा दत्तेवा'ततः' स्थानात् 'तस्मिन् वनीपकादौ निवर्तिते सति उपसंक्राभेद्भक्तार्थं वापि संयत इति सूत्रार्थः॥ मू. ( १८९) उप्पलं परमं वावि, कुमुअं वा मगदंति।
अन्नं वा पुप्फसच्चितं, तं च संलुचिआ दए। वृ. परपीडाप्रतिषेधाधिकारादिदमाह-'उप्पलं'ति सूत्रं, 'उत्पलं' नीलोत्पलादि 'पद्मम्' अरविन्दं वापि कुमुदं वा' गभकं वा 'मगदन्तिकां' मेत्तिका, मल्लिकामित्यन्ये, तथाऽन्यद्धा पुष्पं सचित्तं-शाल्मलीपुष्पादि, तच्च 'संलुञ्चय' अपनीय छित्त्वा दद्यादिति सूत्रार्थः ॥ मू.(१९०) तं भवे भत्तपानं तु, संजयाण अकप्पिा
दितिअंपडिआइक्खे, न मे कप्पइ तारिसं॥ वृ.'तारिसंपत्ति सूत्रं, तादृशं भक्तपानं तु संयतानामकल्पिकं, यतश्चैवमतो ददती प्रत्याचक्षीत न मम कल्पते तादृशमिति सूत्रार्थः ।। मू.(१९१) उप्पलं पउमं वावि, कुमुवा मगदंति।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org