________________
दशवैकालिक-मूलसूत्र-५/२/१७९ वृ.'कालेनं ति सूत्र, यो यस्मिन् ग्रामादावुचितो भिक्षाकालस्तेन करणभूतेन 'निष्क्रामेद्' भिक्षुर्वसतेभिक्षायै, कालेन चोचितेनैव यावता स्वाध्यायादि निष्पद्यते तावता 'प्रतिक्रामेत्' निवर्तेत । भणिअंच-खेत्तं कालो भायणं तिन्निवि पहुप्पहंति हिंडउत्ति अट्ठ भंगा। 'अकालं च वर्जयित्वा' येन स्वाध्यायादि न संभाव्यते स खल्वकालस्तमपास्य काले कालं समाचारेदिति सर्वयोगोपसंग्रहार्थं निगमनं, भिक्षावेलायां भिक्षां समाचारेत्, स्वाध्यायादिवेलायां स्वाध्यायादीनीति, उक्त च-'जोगो जोगो जिनसासणंमी'त्यादि, इति सूत्रार्थः ।। मू.( १८०) अकाले चरसी भिक्खू, कालं न पडिलेहसि।
अप्पाणं च किलामेसि, संनिवेसं च गरिहसि ।। वृ. अकालचरणे दोषमाह-'अकाले'त्ति सूत्र, अकालचारी कश्चित् साधुरलब्धभैक्षः केनचित्त साधुना प्राप्ता भिक्षा नवेत्यभिहितः सन्नेवं ब्रूयात्-कुतोऽत्र स्थण्डिलसंनिवेशे भिक्षा?,स तेनोच्यते-अकाले चरसि भिक्षो! प्रमादात्स्वाध्यायलोभाद्वा, कालं न प्रत्युपेक्षसे, किमयं भिक्षाकालो नवेति, अकालचरणेनात्मानं च ग्लपयसि दीर्घाटनन्यूनोदरभावेन, संनिवेश च गर्हसि भगवदाज्ञालोपते दैन्यं प्रतिपद्येति सूत्रार्थः । मू.(१८१) सइ काले चरे भिक्खू, कुज्जा पुरिसकारि।
अलाभुत्ति न सोइज्जा, तवृत्ति अहिआसए। वृ. यस्मादयं दोष: संभाव्यते तस्मादकालाटनं न कुर्यादिति । 'सति'त्ति सूत्र, 'सति' विद्यमाने 'काले' भिक्षासमये चरेभिक्षुः, अन्ये तु व्याचक्षते-स्मृतिकाल एव भिक्षाकालोऽभिधीयते, स्मर्यन्ते यत्र भिक्षाकाः स स्मृतिकालस्तस्मिन्,'चरेभिक्षुः' भिक्षार्थं यायात्, कुर्यात् पुरुषकारं, जवाबले सति वीर्याचारं न लङ्घयेत् । तत्र चालाभेऽपि भिक्षाया अलाभ इति न शोचयेद्, वीर्याचाराराधनस्य निष्पन्नत्वात्, तदर्थं च भिक्षाटनं नाहारर्थमेवातोन शोचेत्, अपितु तप इत्यधिसहेत, अनशनन्यूदोरतालक्षणं तपो भविष्यतीति सम्यग्विचिन्तयेदिति सूत्रार्थः ॥ मू.(१८२) तहेवुच्चावया पाणा, भत्तट्ठाए समागया।
तं उज्जुन गच्छिज्जा, जयमेव परकमे।। वृ. उक्ता कालयतना, अधुना क्षेत्रयतनामाह-'तहेव'त्ति, तथैव 'उच्चावचाः' शोभनाशोमनभेदेन नानाप्रकारा: प्राणिनो भक्तार्थं समागता बलिप्राभुतिकादिष्वागता भवन्ति, 'तहजुकं' तेषामभिमुखं न गच्छेत् तत्संत्रासनेनान्तरायाधिकरणादिदोषात्, किंतु यतमेव पराक्रामेत्, तदुद्वेगमनुत्पादयन्निति सूत्रार्थः ।। | मू. ( १८३) गोअरग्गपविट्ठो अ, न निसीइज्ज कत्थई।
कहं च न पबंधिज्जा, चिट्ठित्ता न व संजए । वृ. किं च 'गोअरग्ग'त्ति सूत्रं, गोचराग्रप्रविष्टस्तु भिक्षार्थं प्रविष्ट इत्यर्थः 'न निषीदेत्' नोपविशेत् 'क्वचिद् गृहदेवकुलादौ, संयमोपघातादिप्रसङ्गात्, 'कथां च' धर्मकथादिरूपां 'न प्रबन्धीयात्' प्रबन्धेन न कुर्यात्, अनेनैकव्याकरणैकज्ञातानुज्ञामाह, अत एवाहस्थित्वा कालपरिग्रहेण संयत इति, अनेषणाद्वेषादिदोषप्रसंगादिति सूत्रार्थः॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org