________________
१६२
दशवैकालिक-मूलसूत्रं-५/१/१७२ ___ वृ.भोज्यमधिकृत्य विशेषमाह-'तित्तगंव'त्ति सूत्रं, तिक्तकं वा एलुकवालुङ्कादि, कटुके वा आर्द्रकतीमनादि, कषयां वल्लादि, अम्लं तक्रारनालादि, मधुरं क्षीरमध्वादि, लवणं वा प्रकृतिक्षारंतथाविधं शाकादिलवणोत्कटंवाऽन्यत्, एतत्तिक्तादि लब्धम्' आगमोक्तेन विधिना प्राप्तम् 'अन्यार्थम्' अक्षोपाङ्गन्यायेन परमार्थतो मोक्षार्थं प्रयुक्तं तत्साधकमितिकृत्वा मधुघृतमिव च भुञ्जीत संयतः, न वर्णाद्यर्थम्, अथवा मधृघृतमिव 'नो वामाओ हणुआओ दाहिणं हणुअं संचारेज्ज'त्ति सूत्रार्थः ।। मू. (१७३) अरसं विरसं वावि, सूइअंवा असूइ।
उलं वा जइवा सुक्कं. मंथुकुम्मासभोअणं ।। वृ. किंच-'अरसं'ति सूत्रं, अरसम्-असंप्राप्तरसं हिंग्वादिभिरसंस्कृतमित्यर्थः, 'विरसं वापि' विगतरसमतिपुराणौदनादि 'सूचितं' व्यञ्जनादियुक्तम् 'असूचितं वा' तद्रहितं वा, कथयित्वा अकथयित्वा वा दत्तमित्यन्ये, 'आर्द्र' प्रचुरव्यञ्जनम्, यदिवा शुष्कं स्तोकव्यञ्जनं वा, किं तदित्याह-'मन्थुकुल्माषभोजनं' मन्थु-बदरचूर्णादि कुल्माषा:-सिद्धमाषाः, यवमाषा इत्यन्ये इति सूत्रार्थः ।। मू. (१७४) उप्पन्नं नाइहोलिज्जा, अप्पं वा बहु फासुअं।
मुहालद्धं मुहावीजी, भुजिज्जा दोसवज्जिअं ।। वृ.एतद्भोजनं किमित्याह-'उप्पन्नति सूत्रं, 'उत्पन्नं' विधिना प्राप्त 'नातिहीलयेत्' सर्वथा न निन्देत्, अल्पमेतन्न देहपूरकमिति किमनेन?, बहु वा असारप्रायमिति, वाशब्दस्य व्यवहितः संबन्धः, किंविशष्टं तदित्याह-'प्रासुकं' प्रगतासु निर्जीवमत्यिर्थः, अन्ये तु व्याचक्षते- अल्पं वा, वाशब्दाद्विरसादि वा, बहुप्रासुकं-सरर्ववथा शुद्धं नातिहीलयेदिति, अपि त्वेवं भावयेत्यदेवेह लो का ममानुपकारिणः प्रयच्छन्ति तदेव शोभनमिति । एवं 'मुधालब्धं' कोण्टलादिव्यतिरेकेण प्राप्तं 'मुधाजीवी' सर्वथा अनिदानजीवी, जात्याधनाजीवक इत्यन्ते, भुञ्जीत ‘दोपवर्जितं' संयोजनादिरहितमिति सूत्रार्थः ॥ मू. (१७५) दुल्लहा उ मुहादाई, मुहाजीवीवि दुलहा।
मुहादाई मुहाजीवी, दोऽवि गच्छति सुग्गई। ति बेमि। वृ. एतद्दुरापमिति दर्शयति-'दुल्लह'त्ति, दुर्लभा एव मुधादातारः, तथाविधभागवतवत्, मुधाजीविनोऽपि दुर्लभाः, तथाविधचेल्लकवत् । अमीषां फलमाह-मुधादातारो मुधाजीविनश्च द्वादप्येतौ गच्छतः 'सुगति' सिद्धिगति कदाचिदनन्तरमेव कदाचिद्देवलोकसुमानुषप्रत्यागमनपरम्परया । ब्रवीमीति पूर्ववत् । ___ अत्र भागवतोदाहरणम्-जहा एगो परिव्वायगो सो एग भागवयं उवढिओ, अहं तव गिई वरिसारत्तं करेमि, मम उदंतं वहाहि, तेन भणिओ-जइ मम उदंतं न वहसि, एवं हवउ ति । सो से भागवओ सेज्जभत्तपानादिणा उदंतं वहति । अन्नया य तस्स घोडओ चोरेहि हिओ, अतिप्पभायंतिकाऊण जालीए बद्धो, सो अ परिव्वायगो तलाए ण्हायओ गओ, तेन सो घोडओ दिट्टो, आगंतुं भणइ-मम पाणीयतडे पोत्ती विस्सरिया, गोहो विसज्जिओ, तेन घोडओ दिट्ठो, आगंतु कहियं, तेन भागवएण नायं, जहा-परिवायगेण कहियं । तेन परिवायगो भण्णत्ति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org