________________
१६१
अध्ययनं-५, उद्देशकः - १. नि.२४५] स्मरणाद्वा, पूर्व पश्चाद्वा यत्कृतं, पुरःकर्म पश्चात्कर्म वेत्यर्थः, 'पुनः' आलोचनोत्तर-कालं प्रतिक्रामेत् 'तस्य' सूक्ष्मातिचारस्य 'इच्छामि पडिक्कमिउंगोअरचरिआए, इत्यादि सूत्रं पठित्वा 'व्युत्सृष्टः' कायोत्सर्गस्थश्चिन्तयेदिदं-वक्ष्यमाणलक्षणमिति सूत्रार्थः।। मू.(१६७) अहो जिनेहिं असावज्जा, वित्ती साहूण देसिआ।
मुक्खसाहणहेउस्स, साहुदेहस्स धारणा ।। वृ.'अहो जिनेहि' सूत्रं, 'अहो' विस्मये 'जिनैः' तीर्थकरैः 'असावद्या' अपापा 'वृत्तिः' वर्त्तना साधूनां दर्शिता देशिता वा मोक्षसाधनहेतोः' सम्यग्दर्शनज्ञानचारित्रसाधनस्य साधुदेहस्य 'धारणय' संधारणार्थमिति सूत्रार्थः ॥ मू.(१६८) नमुक्कारेण पारिता, करिता जिनसंथवं।
सज्झायं पट्टवित्ता णं, वीसमेज्ज खणं मुनी। व.ततश्च-'नमोक्कारेण ति सूत्रं, नमस्कारेण पारयित्वा 'नमो अरिहंताण' मित्यनेन, कृत्वा जिनसंस्तवं "लोगस्सुज्जोअगरे" इत्यादिरूपं, ततो न यदि पूर्वं प्रस्थापितस्ततः स्वाध्यायं प्रस्थाप्य मण्डल्युपजीवकस्तमेव कुर्यात् यावदन्य आगच्छन्ति, यः पुनस्तदन्यः क्षपकादिः सोऽपि प्रस्थाप्य विश्राम्येत् 'क्षणं' स्तोककालं मुनिरिति सूत्रार्थः ।। मू.(१६९) वीसमंतो इमं चिंते, हियमढे लाभमस्सिओ।
जइ मे अनुग्णहं कुज्जा, साहू हुज्जामि तारिओ। ब. 'वीसमंति'त्ति सूत्रं, विश्राम्यन्निदं चिन्तयेत् परिणतेन चेतसा, कल्याणप्रापकमर्थंवक्ष्यमाणं, किविशष्टः सन्?-भावलाभेन-निरर्जरादिनाऽर्थोस्येति लाभर्थिकः, यदि 'मे' मम अनुग्रहं कुर्युः साधवः प्रासुकपिण्डग्रहणेन ततः स्यामहं तारितो भवसमुद्रादिति सूत्रार्थः ।। मू.(१७०) साहवो तो चिअत्तेणं, निमंतिज्ज जहक्कम।
जइ तत्थ केइ इच्छिज्जा, तेहिं सद्धिं तु भुंजए । वृ.एवं संचिन्त्योचितवेलायामाचार्यमामन्नयेद्, यदि गृह्णाति शोभनं, तो चेद्वक्तव्योऽसौ भगवन् ! देहि केभ्योऽप्यतो यद्दातव्यं, ततो यदि ददाति सुन्दरम्, अथ भणति त्वमेव प्रयच्छ, अत्रान्तरे-'साहवो'त्ति सूत्रं, साधूंस्ततो गुर्वनुज्ञातः सन् 'चिअत्तेणं'तिमनः-प्रणिधानेन निमन्त्रयेत् 'यथाक्रम' यथारनाधिकतया, ग्रहणौचित्यापेक्षया बालादिक्रमेणेत्यन्ये, यदि तत्र 'केचन' धर्मबान्धवाः 'इच्छेयुः' अभ्युपगच्छेयुस्ततस्तैः सार्धं भुञ्जीत उचितसंविभाग-दानेनेति सूत्रार्थः! मू.(१७१) अह कोइ न इच्छिज्जा, तओ भुंजिण्ज एक्कओ।
आलोए भायणे साहू, जयं अप्परिसाडियं ।। वृ.अह कोइ'त्ति सूत्रं, अथ कश्चिन्नेन्छेत् साधुस्ततो भुञ्जीत ‘एकको' रागादिरहित इति, कथं भुञ्जीतेत्यत्राह-'आलोके भाजने' मक्षिकाद्यपोहाय प्रकाशप्रधाने भाजन इत्यर्थः'साधुः' प्रव्रजितः 'यतं' प्रयतेन तत्रोपयुक्तः 'अपरिशाट' हस्तमुखाभ्यामनुज्झन् इति सूत्रार्थः ।। मू.(१७२)तित्तगं व कडुअं व कसायं, अंबिलं व महुरं लवणं वा।
एअलद्धमन्नत्थ पउत्तं, महंघयं व अॅजिज्ज संजए। 27/11]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org