________________
१४६
दशवैकालिक - मूलसूत्रं - ५/१/७९
वृ. उक्तः संयमविराधनापरिहारः, अधुना त्वात्मसंयमविराधनापरिहारमाह-'ओवाय 'मिति सूत्रं, व्याख्या- 'अवपातं' गर्तादिरूपं 'विषमं ' निम्नोन्नतं 'स्थाणुम् ' ऊर्ध्वकाष्ठं' वीजलं' विगतजलं कर्दमं 'परिवर्जयेत्' एतत्सर्वं परिहरेत्, तथा 'संक्रमेण' जलगर्तापरिहाराय पाषाणकाष्ठरचितेन न गच्छेत्, आत्मसंयमविराधनासंभवात्, अपवादमाह - विद्यमाने पराक्रमे - अन्यमार्ग इत्यर्थः, असति तु तस्मिन् प्रयोजनमाश्रित्य यतनया गच्छेदिति सूत्रार्थः ॥
मू. (८०)
पवडते व से तत्थ, पक्खलंते व संजए। हिंसेज्ज पाणभूयाई, तसे अदुव थावरे ।
वृ. अवपातादौ दोषमाह - 'पवडंते 'ति सूत्रं, व्याख्या - प्रपतन्वाऽसौ 'तत्र' अवपातादौ प्रस्खलन्वा‘संयत:’साधुः ‘हिंस्याद्' व्यापादयेत् 'प्राणिभूतानि ' प्राणिनो- द्वीन्द्रिया- दयः भूतानि - एकेन्द्रियाः एतदेवाह - त्रसानथवा स्थावरान्, प्रपातेनात्मानं चेत्येवमुभयविराधनेति सूत्रार्थः ॥ तम्हा तेन न गच्छिज्जा, संजए सुसमाहिए।
मू. (८१ )
सइ अन्त्रेण मग्गेण, जयमेव परक्कमे ।
वृ. यतश्चैवं 'तम्हा' सूत्रं, व्याख्या- तस्मात्तेन- अवपातादिमार्गेण न गच्छेत् संयतः सुसमाहितो, भगवदाज्ञावर्तीत्यर्थः, ‘सत्यन्येने 'ति अन्यस्मिन् समादौ ' मार्गेणे 'ति मार्गे, छान्द - सत्वात्सप्तम्यर्थे तृतीया, असति त्वन्यस्मिन्मार्गे तेनैवावपातादिना 'यतमेव पराक्रमेत' यतमिति क्रियाविशेषणं, यतमात्मसंयमविराधनापरिहारेण यायादिति सूत्रार्थः ॥
पू. (८२)
इंगालं छारियं रासिं, तुसरासिं च गोमयं । ससरक्खेहिं पाएहिं, संजओ तं नइक्कमे ॥
वृ. अत्रैव विशेषतः पृथिवीकाययतनामाह - 'इंगाल' मिति सूत्रम्, आङ्गारमिति अङ्गाराणामयमाङ्गारस्तमाङ्गारं राशिम्, एवं क्षाररारिं, तुषराशिं च गोमयराशि च, राशिशब्दः प्रत्येकमभिसंबध्यते 'सरजस्काभ्यां पद्मयां' सचित्तपृथिवीरजोगुण्डिताभ्यां पादाभ्यां 'संयतः ' साधुः 'तम्' अनन्तरोदितं राशि नाक्रामेत् मा भूत्पृथिवीरजोविराधनेति सूत्रार्थः ॥
मू. ( ८३ )
न चरेज्ज वासे वासंते, महियाए वा पडंतिए । महावाए व वायंते, तिरिच्छसंपाइमेसु वा ॥
वृ. अत्रैवाप्कायादियतनामाह-'न चरेज्ज' त्ति सूत्रं, न चरेद्वर्ष वर्षति, भिक्षार्थं प्रविष्टो वर्षणे तु प्रच्छन्ने तिष्ठेत्, तथा महिकायां वा पतन्त्यां सा च प्रायो गर्भमासेषु पतति, महावाते वा वाति सति, तदुत्खातरजोविराधनादोषात् तिर्यक्संपतन्तीति तिर्यक्संपाता:- पतङ्गादय: तेषु वा सत्सु क्वचिदशनिरूपेण न चरेदिति सूत्रार्थः ॥
मू. ( ८४ )
न चरेज्ज वेससामंते, बंभचेरवसाणुए।
बं भयारिस्स दंतस्स, हुज्जा तत्थ विसुत्तिआ ।
वृ.उक्ता प्रथमव्रतयतना, साम्प्रतं चतुर्थव्रतयतनोच्यते- 'न चरेज्ज 'त्ति सूत्रं, 'न चरद्वेश्यासामन्ते' न गच्छेद्गणिकागृहसमीपे, किंविशष्ट इत्याह- 'ब्रह्मचर्यवशानयने (नये)' ब्रह्मचर्यं - मैथुनविरतिरूपं वशमानयति-आत्मायत्तं करोति दर्शनाक्षेपादिनेति ब्रह्मचर्यवशानयनं तस्मिन्, दोषमाह - 'ब्रह्मचारिणः ' साधोः 'दान्तस्य' इन्द्रियनोइन्द्रियदमाभ्यां भवेत् 'तत्र' वेश्यासामन्ते
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org