________________
अध्ययनं-५, उद्देशक:- १. [नि. २४५]
१४७ 'विस्रोतसिका' तद्रूपसंदर्शनस्मरणापध्यानकचवरनिरोधतः ज्ञानश्रद्धाजलोज्झनेन संयमस(श)स्यशोषफला चित्तविक्रियेति सूत्रार्थः ।। मू.(८५) अनायणे चरंतस्स, संसग्गीए अभिक्खणं ।
हुन्ज वयाणं पीला, सामनमिअ संसओ। वृ.एष सकृच्चरणदोषो वेश्यासामन्तसंगत उक्तः साम्प्रतमिहान्यत्र चासकृच्चरणदोषमाह'अनायणे'त्ति सूत्रम्, अनायतने-अस्थाने वेश्यासामान्तादौ 'चरतो' गच्छतः संसर्गेण' संबन्धेन 'अभीक्ष्णं' पुनः पुनः, किमित्याह-भवेत 'व्रतानां' प्राणातिपातविरत्यादीनां पीडा, तदाक्षिप्तचेतसो भावविराधना, श्रामण्ये च' श्रमणभावेचद्रव्यतो रजोहरणादिधारणरूपे भूयो भावव्रतप्रधानहेतों संशयः, कदाचिदुनिष्क्रामत्येवेत्यर्थः, तथा च वृद्धव्याख्या-वेसादिगयभावस्स मेहुणं पीडिज्जइ, अनुवओगेणं एसणाकरणे हिंसा, पडुप्पायणे अन्नपुच्छण-अवलणाऽसच्चवयणं, अणणुण्णायवेसाइदसंणे अदत्तादाणं, ममत्तकरणे परिग्गहो, एवं सव्ववय-पीडा, दव्वसामन्ने पुण संसयो उनिक्खमणेण त्ति सूत्रार्थः।। मू.(८६) तम्हा एअंविआणित्ता, दोसंदुग्गइवडण।
वज्जए वेससामंत, मुनी एगंतमस्सिए।। वृ.निगमयत्राह-'तम्हा' इति सूत्रम्, यस्मादेवं तस्मादेतत् विज्ञाय दोषम्' अनन्तरोदितं दुर्गतिविर्धनं वर्जयद्वेश्यासामन्तं मुनि एकान्तं' मोक्षमाश्रित इति सूत्रार्थः॥ .
आह-प्रथमव्रतविराधनानन्तरं चतुर्थव्रतविराधनोपन्यासः किमर्थम् ?, उच्यते, प्राधान्यख्यापनार्थम्, अन्यव्रतविराधनाहेतुत्वेन प्राधान्यम्, तच्च लेशतो दर्शितमेवेति। अत्रैव विशेषमू.(८७) साणं सूइअंगावि, दित्तं गोणं हयं गयं।
संडिम्भं कलहंजुद्धं, दूरओ परिवज्जए। वृ. 'साणं ति सूत्रं, 'श्वानं' लोकप्रतीतम्, 'सूतां गाम्' अभिनवप्रसूतामित्यर्थः 'दृप्तं' च दपितं, किमित्याह-गावं हयं गजं, गौ:-बलीवर्दो हयः-अश्वो गजो-हस्ती। तथा 'संडिम्भं' बालक्रीडास्थानं 'कलहं' वाक्प्रतिबद्धं 'युद्ध' खङ्गादिभिः, एतत् दूरतो' दूरेण परि-वर्जयेत्, आत्मसंयमविराधनासंभवात्, श्वसूतगोप्रभृतिभ्य आत्मविराधना, डिम्भस्थाने वन्दनाद्यागमनपतनभण्डनप्रलुठनादिना संयमविराधना, सर्वत्रचात्मपात्रभेदादिनोभयविराधनेति सूत्रार्थः॥ मू.(८८) अणुन्नए नावणए, अप्पहिढे अनाउले।
इंदिआणि जहाभाग, दमइत्ता मुनी चरे॥ वृ. अत्रैव विधिमाह-'अणुन्नए'त्ति सूत्रम्, 'अनुनतो' द्रव्यतो भावतश्च, द्रव्यतो नाकाशदर्शी भावतो न जात्याद्यभिमानवान्, 'नावनतो' द्रव्यभावाभ्यामेव, द्रव्यानवनतोऽनीचकाय: भावानवनतः अलब्ध्यादिनाऽदीनः 'अप्रहृष्टः' अहसन् 'अनाकुलः' क्रोधादिरहितः 'इन्द्रियाणि' स्पर्शनादीनि यथाभागं' यथाविषयं 'दमयित्वा' इष्टानिष्टेषुस्पर्शादिषुरागद्वेषरहितो 'मुनिः' साधुः 'चरेद्' गच्छेत्, विपर्यये प्रभूतदोषप्रसङ्गात्, तथाहि-द्रव्योत्रतो लोकहास्यः भावोत्रत ईयां न रक्षति द्रव्यावनतः बक इति संभाव्यते भावावनतः क्षुद्रसत्त्व इति, प्रहृष्टो योषिद्दर्शनाद्रक्त
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org