________________
अध्ययनं-५, उद्देशक:- १. नि.२४५]
१४५ द्वे एव च शते सप्तत्यधिके कोटीनामिति गाथाक्षरार्थः ।। भावार्थस्तु वृद्धसंप्रदायादवसेयः, स चायम् -नव कोडीओ दोहिं रागद्दोसेहिं गुणियाओ अट्ठारस हवंति, ताओ चेव नव तिहिं मिच्छत्तान्त्राणअविरतीहिंगुणिताओ सत्तावीसं हवंति, सत्तावीसा रागदोसेहिंगुणिया चउपन्चा हवंति, ताओ चेव नव दसविहेण समणधम्मेण गुणिआओ विसुद्धाओ नउती भवंति, सा नउती तिहिं नाणदंसणचरित्तेहिंगुणिया दो सया सत्तरा भवंतीति गाथार्थः॥
उक्तो नामनिष्पन्नो निक्षेपः, साम्प्रतं सूत्रालापकनिष्पन्नस्यावसर इत्यादिचर्चः पूर्ववत्तावद्यावत्सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चारणीयं, तच्चेदम्
__ -: अध्ययनं -५ उदेशकः -१:मू.(७६) संपत्ते भिक्खकालंमि, असंभंतो अमुच्छिओ।
इमेण कमजोगेण, भत्तपानं गवेसए। . वृ.'संप्राप्ते' शोधनेन प्रकारेण स्वाध्यायकरणादिना प्राप्ते 'भिक्षाकाले' भिक्षासमये, अनेनासंप्राप्ते भक्तपानैषणाप्रतिषमाह, अलाभाज्ञाखण्डनाभ्यां दृष्टादृष्टविरोधादिति, 'असंभ्रान्तः' अनाकुलो यथावदुपयोगादि कृत्वा, नान्येत्यर्थः, 'अमूच्छितः' पिण्डे शब्दादिषु वा अगृद्धो, विहितानुष्ठानमितिकृत्वा, नतुपिण्डादावेवासक्त इति, अनेन' वक्ष्यमाणलक्षणेन क्रमयोगने परिपाटीव्यापारेण 'भक्तपानं' यतियोग्यमोदनारलादि गवेषयेद्' अन्वेषयेदितिसूत्रार्थः॥ मू.(७७) से गामे वा नगरेवा, गोअरगगओ मुनी।
चरे मंदमनुब्बिग्गओ, अव्वक्खित्तेण चेअसा॥ . वृ.यत्र यथा गवेषयेत्तदाह-'से' इत्यादि सूत्र, व्याख्या-'से' इत्यसंभ्रान्तोऽमूच्छितः ग्रामे वा नगरे वा, उपलक्षणत्वादस्य कर्बटादौ वा, ‘गोचराग्रगत' इति गोरिव चरणं गोचरःउत्तमाधममध्यमकुलेषवरक्तद्विष्टस्य भिक्षाटनम् अग्रः-प्रधानोऽभ्याहृताधाकर्मादिपरित्यागेन तद्गत:तद्वर्ती मुनि:- भावसाधुः चरेत्-गच्छेत् 'मन्दं शनैः शनैर्न द्रुतमित्यर्थः, 'अनुद्विग्नः' प्रशान्तः परीषहादिभ्योऽबिभ्यत् 'अव्याक्षिसेनचेतसा' वत्सवणिग्जायादृष्टान्तात् शब्दादिष्व-गतेन 'चेतसा' अन्तः-करणेन एषणोपयुक्तेनेति सूत्रार्थः॥ मू.(७८) पुरओ जुगमायाए, पेहमाणो महिं चरे।
वजंतो बीअहरियाई, पाणे अदगमट्टि। वृ.यथा चरेत्तथैवाह-'पुरतो' इति सूत्रं, व्याख्या-'पुरतः' अग्रतो 'युगमात्रया' शरीरप्रमाणया शकटोर्द्धिसंस्थितया, दृष्टेति वाक्यशेषः, 'प्रेक्षमाणः' प्रकर्षेण पश्यन् 'महीं' भुवं'चरेत्' यायात्, केचिन्नेति योजयन्ति, नशेषदिगुपयोगेनेति गम्येत, न पेक्षमाण एव अपितु 'वर्जयन्' परिहरन् बीजहरितानीति, अनेनानेकभेदस्य वनस्पतेः परिहारमाह, तथा 'प्राणिनो' द्वीन्द्रियादीन् तथा 'उदकम्' अप्कायं मृत्तिकांच' पृथिवीकायं, चशब्दात्तेजोवायुपरिग्रहः । दृष्टिमानं त्वत्र लघुतरयोपलब्धावपि प्रवृत्तितो रक्षणायोगात् महत्तरया तु देशविप्रकर्षेणा-नुपलब्धेरिति सूत्रार्थः॥ मू.(७९) ओवायंविसमंखार्पु, विज्जलं परिवज्जए।
संकमेण नगच्छिज्जा, विज्जमाणे परक्कमे। 270
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org