________________
१४२
दशवकालिक-मूलसूत्र-४/-/७२ वृ. साम्प्रतमिदं धर्मफलं यस्य दुर्लभं तमभिधित्सुराह-'सुहे'ति, सुखास्वादकस्यअभिष्वङ्गेण प्राप्तसुखभोक्तुः श्रमणस्य' द्रव्यप्रव्रजितस्य'साताकुलस्य' भाविसुखार्थं व्याक्षितस्य निकामशायिनः' सूत्रार्थवेलाभप्युल्लडध्य शयानस्य'उत्सोलनाप्रधाविनः 'उत्सोलनयाउदकायतनया प्रकर्षेण धावति-पादादिशुद्धिं करोति यः स तथा तस्य, किमित्याह--'दुर्लभा' दुष्प्रापा 'सुगतिः सिद्धिपर्यवसाना 'तादृशस्य' भगवतदाज्ञालोपकारिण इति गाथार्थः ।। मू.(७३) तवोगुणपहाणस्स उज्जुमइ खंतिसंजमरयस्स।
परीसहे जिणंतस्स सुलहा सुगई तारिसगस्स।। वृ.इदानीमिदं धर्मफलं यस्य सुलभं तमाह-'तवोगुणे'त्यादि, तपोगुणप्रधानस्य' षष्ठाष्ठमादितपोधनवत: 'ऋजुमतेः' मार्गप्रवृत्तबुद्धेः 'क्षान्तिसंयमरतस्य' शान्तिप्रधानसंयमा-सेविनइत्यर्थः 'परीषहान्' क्षुत्पिपासादीन् 'जयतः' अभिभवतः सुलभा 'सुगतिः' उक्तलक्षणा 'तादृशस्य' भगवदाज्ञाकारिण इति गाथार्थः ।। म.(७४) पच्छाविते पयाया, खिप्पंगच्छंति अमरभवणाई।
जेसिंपिओ तवो संजमो अखंती अबंभचेरंच। मू.(७५) इच्चेअंछज्जीवणिअंसम्मविट्ठी सया जए।
दुलहलहित्तु सामण्णं, कम्मुणा नविराज्जासि।तिबेमि।। वृ.महार्था षड्जीवनिकायिकेति विधिनोपसंहरनाह-'इच्चेय' मित्यादि, 'इत्येतां षड्जीवनिकायिकाम्' अधिकृताध्ययनप्रतिपादितार्थरूपां, न विराधयेदितियोगः, 'सम्यग्दृष्टि:' जीवस्तत्त्वश्रद्धावान् सदा यतः' सर्वकालं प्रयत्नपर: सन्, किमित्याह-'दुर्लभं लब्ध्या श्रामण्यं' दुष्प्रापंप्राप्य श्रमणभावं-षड्जीवनिकायसंरक्षणैकरूपं कर्मणा' मनोवाक्कायक्रियया प्रमादेन 'न विराधयेत्' नखण्डयेत्, अप्रमत्तस्य तुद्रव्यविराधना यद्यपि कथञ्चिद्भवति तथाऽप्यसावविराधननैवेत्यर्थः।
एतेन ‘जले जीवाः स्थले जीवा, आकाशे जीवमालिनि।
___ जीवामालाकुले लोके, कथं भिक्षुरहिंसकः॥' इत्येतत्प्रत्युक्तं, तथा सूक्ष्माणां विराधनाभावाच्चा ब्रवीमीति पूर्ववत् । अधिकृताध्ययनपर्यायशब्दप्रतिपादनायाहनिमुक्तिकार:नि.[२३४] जीवाजीवाभिगमो आयारो चेव धम्मपन्नत्ती।
तत्तो चरित्तधम्मो चरणे धम्मे अएगट्ठा । वृ. जीवाजीवाभिगमः' सम्यग्जीवाभिगमहेतुत्वात् एवम् 'आचारश्चैव' आचारोपदेशत्वात 'धर्मप्रज्ञप्तिः' यथावस्थितधर्मप्रज्ञापनात् ततः 'चारित्रधर्मः' तनिमित्तत्वात् 'चरणं' चरणविषयत्वात् 'धर्मश्च' श्रुतधर्मस्तत्सारभूतत्वात्, एकाथिका एते शब्दा इति गाथार्थः ।। अन्ये त्विदं गाथासूत्रमनन्तरोदितसूत्रस्याधो व्याख्यानयन्ति, तत्राप्यविरुद्धमेव। उक्तोऽनुगमः, साम्प्रतं नयास्ते च पूर्ववदेव।
अध्ययन नं-४ समाप्तम् । मुनि दीपरत्नसागरेण संशोधितं सम्पादितं दशवैकालिक सूत्रे
चतुर्थ अध्ययनं सनियुक्तिः सटीकं समाप्तम्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org