________________
अध्ययनं-४, उद्देशकः - [नि.२३३]
१४१ 'प्रव्रजति' प्रकर्षण व्रजत्यपवर्ग प्रत्यनगारं, द्रव्यतो भावतश्चाविद्यमानागारमिति भावः ॥ मू.(६५) जया मुंडे भवित्ता नं, पब्वइए अनगारि।
तया संवरमुकिलु, धम्म फासे अनुत्तरं। वृ. 'जया' इत्यादि, यदा मुण्डो भूत्वा प्रव्रजत्यनगारं तदा 'संवरमुक्किट्ठति प्राकृतशैल्या उत्कृष्टसंवरंधर्म-सर्वप्राणातिपातादिविनिवृत्तिरूपं, चारित्रधर्ममित्यर्थः, स्पृशत्यनुत्तरं-सम्यगासेवत इत्यर्थः॥ मू.(६६) जया संवरमुक्किट्ठ, धम्म फासे अनुत्तरं।
तया धुणइ कम्मरयं, अबोहिकलुसकड।। वृ. 'जया' इत्यादि, यदोत्कृष्टसंवरं धर्मं स्पृशत्यनुत्तरं तदा धुनोति-अनेकार्थत्वात्पातयति 'कर्मरजः' कर्मैव आत्मरञ्जनाद्रजइवरजः, किंविशिष्टमित्याह-'अबोधिकलुषकृतम्' अबोधिकलुषेणमिथ्यादृष्टिनोपात्तमित्यर्थः॥ मू.(६७) जया धुणइ कम्मरयं, अबोहिकलुसंकडं।
तया सव्वत्तगं नाणं, दसणं चाभिगच्छा। वृ. 'जया' इत्यादि, यदा धुनोति कर्मरजः अबोधिकलुषकृतं तदा 'सर्वत्रगं ज्ञानम्' अशेषज्ञेयविषयं 'दर्शनं च' अशेषदृश्यविषयम् 'अधिगच्छति' आवरणाभावादाधिक्येन प्राप्नोतित्यर्थः॥ मू.(६८) जया सव्वत्तग नाणं, दसणंचाभिगच्छइ।
तया लोगमलोगंच, जिनो जाणइ केवली।। वृ. 'जया' इत्यादि, यदा सर्वत्रगं ज्ञानं दर्शनं चाधिगच्छति तदा 'लोकं' चतुर्दशरज्ज्वात्मकम् 'अलोकं च' अनन्तं जिनो जानाति केवली, लोकालोकौ च सर्व नान्यतरमेवेत्यर्थः। मू.(६९) जया लोगमलोगं च, जिनो जाणइ केवली।
तया जोगे निलंभिता, सेलेर्सि पडिवज्जइ। वृ.'जया' इत्यादि, यदा लोकमलोकं चजिनो जानाति केवली तदोचितसमयेन योगानिरुद्धय मनोयोगादीम्शैलेशी प्रतिपद्यते, भवोपग्राहकाँशक्षयाय॥ मू.(७०) जया जोगे निलंभित्ता, सेलेसि पडिवज्जइ।
तया कम्मंखवित्ता नं, सिद्धिं गच्छइ नीरओ। वृ.'जया' इत्यादि, यदा योगानिरुदध्य शैलेशी प्रतिपद्यते तदा कर्म क्षपयित्वा भवोपग्राह्यपि 'सिद्धिगच्छति' लोकान्तक्षेत्ररूपां'नीरजाः' सकलकर्मरजोविनिर्मुक्तः॥ मू.(७१) जया कम्मखवित्ता नं, सिद्धिं गच्छइ नीरओ।
तयालोगमत्थयत्थो, सिद्धोहवइ सासओ। वृ.'जया' इत्यादि, यदाकर्मक्षपयित्वा सिद्धिंगच्छति नीरजा: तदा'लोकमस्तकस्थ: ' त्रैलोक्योपरिवर्ती सिद्धो भवति 'शाश्वत:' कर्मबीजाभावादनुत्पत्तिधर्मेति भावः । उक्तो धर्मफलास्यः षष्ठोऽधिकारः ।। मू.(७२) सुहसायगस्ससमणस्स, सायाउलगस्सनिगामसाइस्स।
उच्छोलणापहोअस्स, दुलहा सुगई तारिसगस्स।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org