SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ दशवैकालिक-मूलसूत्र-४/-/५७ पापकम्-असंयमस्वरूपम्, 'उभयमपि' संयमासंयमस्वरूपं श्रावकोपयोगि जानाति श्रुत्वा, नाश्रुत्वा, यतश्चैवमत इत्थं विज्ञाय यत् छेकं-निपुणं हितं कालोचित्तं तत्समाचरेत्कुर्यादित्यर्थः ।। मू.(५८) जो जीवेविन याणेइ, अजीवेविन याणेइ। जीवाजीवेअयाणतो, कह सो नाहीइ संजमं? वृ.उक्तमेवार्थं स्पष्टयन्नाह-'जो जीवेऽपि' इत्यादि, यो 'जीवानपि' पृथिवीकायिकादिभेदभिन्नान् न जानाति 'अजीवानपि' संयमोपघातिनो मद्यहिरण्यादीन जानाति, जीवाजीवानजानकथमसौ ज्ञास्यति 'संयमं?' तद्विषयं, तद्विषयाज्ञानादिति भावः॥ मू.(५९) जो जीवेवि वियाणेइ, अजीवेवि वियाणेइ। जीवाजीवेवियाणतो, सो हुनाहीइ संजमं। वृ. ततश्च यो जीवानपि जानात्यजीवानपि जानाति जीवाजीवान् विजानन् स एव ज्ञास्यति संयममिति। प्रतिपादितः पञ्चम उपदेशार्थाधिकारः ।। . मू.(६०) जया जीवमजीवे अ, दोऽवि एए वियाणइ। तया गइंबहुविहं, सबजीवाण जाणइ॥ वृ. साम्प्रतं षष्ठेऽधिकारे धर्मफलमाह-'जया' इत्यादि, 'यदा' यस्मिन् काले जीवानजीवांश्च द्वावप्येतौ विजानाति-विविधं जानाति तदा' तस्मिन् काले 'गति' नरकगत्यादिरूपां 'बहुविधां' स्वपरमतभेदेनानेकप्रकारां सर्वजीवानां जानाति, यथाऽवस्थितजीवाजीवपरिज्ञानमन्तरेण गतिपरिज्ञानाभावात्॥ मू.(६१) जया गई बहुविहं, सव्वजीवाण जाणइ। तया पुण्णं च यावंच, बंधमुक्खं च जाणइ। वृ.उत्तरोत्तरां फलवृद्धिमाह-"जया' इत्यादि, यदा गति बहुविधां सर्वजीवानां जानाति तदा पुण्यं च पापंच-बहुविधगतिनिबन्धनं(च) तथा 'बन्धं' जीवकर्मयोगदुःखलक्षणं 'मोक्षं च' तद्वियोगसुखलक्षणं जानाति॥ मू.(६२) जया पुण्णं च पावंच, बंधं मुक्खं च जाणइ । तया निविदए भोए, जे दिवे जे अमानुसे। वृ. 'जया' इत्यादि, यदा पुण्यं च पापंच बन्धं मोक्षं च जानाति तदा निर्विन्ते-मोहा-भावात् सम्यग्विचारयत्यसारदुःखरूपतया भोगान्' शब्दादीन्या दिव्यान्यांश्चमानुषान्, शेषास्तुवस्तुतो भोगा एव न भवन्ति॥ मू.(६३) जया निविंदए भोगे, जे दिवे जे अमानुसे। तया चयइ संजोगं, सब्भितरबाहिरं। वृ.'जया' इत्यादि, यदा निविन्ते भोगान् यान् दिव्यान, यांश्च मानुषान् तदा त्यजति संयोग' संबन्धंद्रव्यतो भावत: 'साभ्यन्तरबाह्यं क्रोधादिहिरण्यादिसंबन्धमित्यर्थः।। मू.(६४) जया चयइ संजोगं, सब्भितरबाहिरं। तया मुंडे भवित्तानं, पब्बइए अनगारि। वृ. 'जया' इत्यादि, यदा त्यजति संयोगं साभ्यन्तरबाह्यं तदा मुण्डो भूत्वा द्रव्यतो भावतश्च Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003380
Book TitleAgam Sutra Satik 42 Dashvaikalik MoolSutra 3
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages284
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 42, & agam_dashvaikalik
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy