________________
अध्ययनं-४, उद्देशकः- [नि.२३३] वृ.एवमयतं भाषमाणोगृहस्थभाषयानिष्ठुरमन्तरभाषादिना(वा), शेषं पूर्ववत्॥ मू.(५३) कहं चरे कह चिट्टे, कहमासे कहं सए।
कहभुंजतो भासंतो, पावं कम्मनबंधइ?॥ वृ.अत्राह-यद्येवं पापकर्मबन्धस्ततः 'कहं चरे' इत्यादि, 'कथ' केन प्रकारेण चरेत्, कथं तिष्ठेत्, कथमासीत, कथं स्वपेत्, कथं भुञ्जानो भाषमाणः पापं कर्म न बन्धातीति? ।। मू.(५४) जयंचरे जयं चिट्टे, जय मासे जयं सए।
जयंभुंजतो भासंतो, पावं कम्मन बंधइ। वृ.आचार्य आह-'जयं चरे' इत्यादि, यतं चरेत्-सूत्रोपदेशेनेर्यासमितः, यतं तिष्ठेतसमाहितो हस्तपादाद्यविक्षेपेण, यतमासीत-उपयुक्त आकुञ्चनाधकरणेनन, यतं स्वपेत्-समाहितो रात्रो प्रकामशय्यादिपरिहारेण, यतं भुञ्जानः-सप्रयोजनमप्रणीतं प्रतरसिंहभक्षितादिना, एवं यतं भाषमाणः-साधुभाषया मृदुकालप्राप्तं च 'पापं कर्म' क्लिष्टमकुशलानुबन्धि ज्ञानावरणीयादि 'न बध्नाति' नादत्ते, निराश्रवत्वात् विहितानुष्ठानपरत्वादिति॥ मू.(५५) सव्वभूयप्पभूअस्स, सम्मभूयाईपासओ।
पिहिआसवस्स दंतस्स, पावं कम्मनबंधइ॥ वृ.
किंच-'सव्वभूय' इत्यादि, सर्वभूतेष्वात्मभूतः सर्वभूतात्मभूतो, य आत्मवत् सर्वभूतानि पश्यतीत्यर्थः, तस्यैवंसम्यग्-वीतरागोक्तेन विधिना भूतानि-पृथिव्यादीनि पश्यतः सतः पिहिताश्रवस्य' स्थगितप्राणातिपाताद्याश्रवस्य दान्तस्य' इन्द्रियनोइन्द्रियदमेन 'पापं कर्म नबध्यते' तस्य पापकर्म बन्धो न भवतीत्यर्थः॥
एवं सति सर्वभूतदयावत: पापकर्मकन्धो न भवतीति, ततश्च सर्वात्मना दयायामेव यतितव्यम्, अलं ज्ञानाभ्यासेनापि(नेति) मा भूदव्युत्पन्नविनेयमतिविभ्रम इति तदपोहायाहमू.(५६) पढमं नाणं तउदया, एवंचिट्ठइ सव्वसंजए।
___ अन्नाणी किंकाही, किंवा नाही छेअप्पावगं? वृ.'पढमं नाणं' मित्यादि, प्रथमम्-आदौ ज्ञान-जीवस्वरूपसंरक्षणोपायफल-विषयं ततः' तथाविधज्ञानसमनन्तरं दया' संयमस्तदेकान्तोपादेयतया भावतस्तत्प्रवृत्तेः, एवम्' अनेन प्रकारेण ज्ञानपूर्वकक्रियाप्रतिपत्तिरूपेण तिष्ठति' आस्ते सर्वसंयतः' सर्वः प्रव्रजितः, यः पुनः अज्ञानी साध्योपायफलपरिज्ञानविकल: सकिं करिष्यति?, सर्वत्रान्धतुल्यत्वात्प्रवृत्तिनिवृत्तिनिमित्ताभावात्, किंवा कुर्वन् ज्ञास्यति छेकं' निपुणं हितं कालोचितं पापकं वा' अतो विपरीतमिति, ततश्च तत्करणं भावतोऽकरणमेव, समग्रनिमित्ताभावात्, अन्धप्रदीप्तपलायन-धुणाक्षरकरणवत्, अत एवान्यत्राप्युक्तम्-'गीअत्थो अविहारो बीओ गीअत्थमीसिओ भणिओ' इत्यादि, अतो ज्ञानाभ्यास: कार्यः॥ मू.(५७) सोच्चा जाणइ कल्यणं, सोच्चा जाणइ पावगं।
उभयपि जाणए सोच्चा, जंछेयतं समायरे।। वृ.तथा चाह-'सोच्चा' इत्यादि, श्रुत्वा' आकर्ण्यससाधनस्वरूपविपाकं 'जानाति' बुद्धयते 'कल्याणं' कल्यो-मोक्षस्तमणती-प्रापयतीति कल्याणं-दयाख्यं संयमस्वरूपं, तथा श्रुत्वा जानाति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org