SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ १३८ दशवैकालिक-मूलसूत्र-४/-/४६ पडिलेहिअपडिलेहिअ पमज्जिअपमज्जिअएगंतमवणेज्जा नोनं संघायमावज्जेज्जा। वृ- 'सेभिक्खू वा इत्यादियावज्जागरमाणेव'त्ति पूर्ववत्, ‘से कीडं वा' इत्यिाद, तद्यथाकीटं वा पतङ्गं वा कुन्थु वा पिपीलिकां वा, किमित्याह-हस्ते वा पादे वा बाहौ वा ऊरुणि वा उदरे वा वस्त्रे वा रजोहरणे वा गुच्छे वा उन्दके वा दण्डके वा पीठे वा फलके वा शय्यायां वा संस्तारके वा अन्यतरस्मिन् वा तथा प्रकारे साधुक्रियोपयोगिनि उपकरणजाते कीटादिरूपं त्रसं कथञ्चिदापतितं सन्तं संयत एव सन् प्रयत्येन वा प्रत्युपेक्ष्य प्रत्यपेक्ष्य-पौन:पुन्येन सम्यक्, प्रमृज्य प्रमृज्य-पौन:पुन्येनैव सम्यक् किमित्याह-'एकान्ते' तस्यानुपधातके स्थाने अपनयेत्' परित्यजेत्' 'नैनं त्रसं संघातमापादयेत्' नैनं त्रसंसंघातं-परस्परगात्रसंस्पर्शपीडारूपमापादयेत्प्रापयेत्, अनेन परितापनादिप्रतिषेध उक्तो वेदितव्यः, 'एकग्रहणे तज्जातीयग्रहणाद् अन्यकारणानुमतिप्रतिषेधश्च, शेषमन्न् प्रकटार्थमेव, नवरमुन्दकं-स्थण्डिलं,शय्या-संस्तारिका वसतिर्वा । इत्युक्ता यतना, गतश्चतुर्थोऽर्थाधिकारः ।। मू.(४७) अजयं चरमाणो अ(उ), पाणभूयाइंहिंसइ। बंधई पावयं कम्म, तं से होइ कडुअंफलं॥ वृ.साम्प्रतमुपदेशाख्यः पञ्चम उच्यते-'अजय'मित्यादि, अयतंचरन्' अयतम् अनुपदेशेनासूत्राज्ञया इति, क्रियाविशेषमेतत्, चरन्-गच्छन्, तुरेवकारार्थः, अयतमेव चरन्, ईर्यासमितिमुल्लङ्घध्य, न त्वन्यथा, किमित्याह-'प्राणिभूतानि हिनस्ती' प्राणिनो-द्वीन्द्रियादयः भूतानिएकेन्द्रियास्ता हिनस्ति-प्रमादानाभोगाभ्यां व्यापादयतीति भावः, तानि चहिंसन् ‘बन्धाति पापं कर्म' अकुशलपरिणामादादत्ते क्लिष्टं ज्ञानावरणीयादि, 'तत् से भवति कटुकफलं' तत्-पापं कर्म से -तस्यायतचारिणो भवति, कटुकफलमित्यनुस्वारोऽलाक्षणिक: अशुभफलं भवति, मोहादिहेतुतया विपाकदारुणमित्यर्थः, मू.(४८) अजयंचिट्ठमाणो अ, पाणभूयाइं हिंसइ। बंधई पावयं कम्म, तं से होइ कडुअफलं॥ वृ.एवमयतं तिष्ठन् ऊर्ध्वस्थानेनासमाहितोहस्तपादादि विक्षिपन्, शेषं पूर्ववत्।। मू.(४९) अजयं आसमणो अ, पाणभूयाइ हिंसइ। बंधई पावयं कम्मतं से होइ कडुअंफलं।। वृ.एवमयतमासीनो-निषण्णतया अनुपयुक्त आकुञ्चनादिभावेन, शेषं पूर्ववत्। मू.(५०) अजयं सयमाणो अ, पाणभूया इंहिंसइ। बंधई पावयं कम्म, तंजे होई कडुअफलं॥ वृ.एवमयतंस्वपन्-असमाहितो दिवा प्रकामशय्यादिना(वा), शेषंपूर्ववत् मू.(५१) अजयंभुंजमाणो अ, पाणभूयाइ हिंसइ। बंधई पावयं कम्मंतं से होइ कडुअंफलं। वृ.एवमयतं भुञ्जानो-निष्प्रयोजनंप्रणीतं काकशृगालभक्षितादिना(वा), शेषं पूर्व-वत्॥ मू.(५२) अजयं भासमाणो अ, पाणभूयाइ हिंसइ। बंधई पावयं कम्मतंसे होइ कडुअंफलं। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003380
Book TitleAgam Sutra Satik 42 Dashvaikalik MoolSutra 3
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages284
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 42, & agam_dashvaikalik
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy