________________
अध्ययनं-४, उद्देशकः - [नि. २३३]
१२७ अण्डजा इत्यादि, एष खलु षष्ठो जीवनिकायः त्रसकाय प्रोच्यत इति योगः, तत्राण्डाज्जाता अण्डजा:-पक्षिगृहकोकिलादयः, पोता एव जायन्त इति पोतजाः, "अन्येष्वपि दश्यते"ऽप्रत्ययो जनेरिति वचनात्।
ते च हस्तिवल्गुलीचर्मजलौकाप्रभुतयः, जरायुवेष्टिता जायन्त इति जरायुजा-गोमहिष्यजाविकमनुष्यादयः, अत्रापि पूर्ववड्डप्रत्ययः, रसाज्जाता रसजाः-तक्रारनालदधितीमनादिधु पायुक़म्याकृतयोऽतिसूक्ष्मा भवन्ति, संस्वेदाज्जाता इति संस्वेदजा-मत्कुणयूकाशतपदीकादयः, संमर्छनाज्जाताः संमूर्च्छनजा:-शलभपिपीलिकामक्षिकाशालकादयः, उदभेवाज्जन्म येषां ते उद्भेदाः,अथवा उद्भेदनमुद्भित् उद्भिज्जन्मयेषां ते उद्भेदा-पतङ्गखञ्जरीटपारिल्ववादयः, उपपाताज्जाता उपपातजा: अथवा उपपाते भवा औपपातिका-देवानारकाश्च । एतेषामेव लक्षणमाह-- येषां केषाञ्जित्सामान्येनैव प्राणिनां-जीवानामभिक्रान्तं भवतीतिवाक्यशेषः, अभिक्रमणमभिक्रान्तं, भावे निष्ठाप्रत्ययः, प्रज्ञापकं प्रत्यभिमुखंक्रमणमित्यर्थः, एवंप्रतिक्रमणप्रतिक्रान्तं-प्रज्ञापकात्प्रतीपं क्रमणमिति भावः, संकुचनं संकुचितं-गात्रसंकोचकरणं, प्रसारणं प्रसारितं-गाविततकरणं, रवणं रुतं-शब्दकरणं, भ्रमणं भ्रान्तम्-इतश्चेतश्च गमनं, वसनं त्रस्तं-दुःखादुद्वेजनं, पलायनं पलायितंकृतश्चिन्नाशनं, तथाऽऽगते:-कुतश्चित्कचित्, गतेश्च-कुतश्चित्वचिदेव, 'विन्नाया विज्ञातारः।
आह-अभिक्रान्तप्रतिक्रान्ताभ्यां नागतिगत्योः कश्चिद्धेह इति किमर्थं भेदेनाभिधानम्?, उच्यते, विज्ञानविशेषख्यापनार्थम्, एतदुक्तं भवति-य एव विजानन्ति यथा वयमभिक्रमामः प्रतिक्रमामो वा त एव त्रसाः, न तु वृत्ति प्रत्यभिक्रमणवन्तोऽपि वल्लयादय इति।आह-एवमपि द्वीन्द्रियादीनामत्रसत्वप्रसङ्गः, अभिक्रमणप्रतिक्रमणभावेऽप्येवंविज्ञानाभावात्, नैतदेवं हेतुसंज्ञाया अवगते:, बुद्धिपूर्वकमिव छायात उष्णमुष्णाद्वा छायां प्रति तेषामभिक्रमणादिभावात्, न चैवं वल्लयादीनामाभिक्रमणादि, ओघसंज्ञया प्रवृत्तेरिति कृतं प्रसङ्गेन। अधिकृतत्रसभेदानाह'जे ये' इत्यादि, ये च कीटपतङ्गा इत्यत्र कीटा:-कृमयः, 'एकग्रहणे तज्जातीयग्रहण'मिति द्वीन्द्रियाः शङ्कादयोऽपि गृह्यन्ते, पतङ्गा-शलभा, अत्रापि पूर्ववच्चतुरिन्द्रिया भ्रमरादयोऽपि गृह्यन्त इति, तथा याश्च कुन्थुपिपीलिका इत्यनेन त्रीन्द्रियाः सर्व एव गृह्यन्ते, अत एवाह-सर्वे द्वीन्द्रियाः-कृम्यादयः सर्वे त्रीन्द्रियाः-कुन्थ्वादयः, सर्वे चतुरिन्द्रिया:-पतङ्गादयः। आह-ये च कीटपतङ्गा इत्यादावुद्देशव्यत्ययः किमर्थम्?, उच्यते, 'विचित्रा सूत्रगतिरतत्रः क्रम' इति ज्ञापनार्थम् सर्वे पञ्चेन्द्रियाः सामान्यतो, विशेषतः पुनः सर्वे तिर्यग्योनयो-गवादयः, सर्वे नारकारत्नप्रभानारकादिभेदभिन्नाः, सर्वे मनुजा:-कर्मभूमिजादयः, सर्वे देवा-भवन-वास्यादयः, सर्वशब्दश्चात्र परिशेषभेदानां त्रसत्वख्यापनार्थः, सर्व एवैते त्रसाः न त्वेकेन्द्रिया इवत्रसा: स्थावराश्चेति, उक्तं च-"पृथिव्यम्बुवनस्पतय: स्थावराः" "तेजोवायू द्वीन्द्रियादयश्च त्रसाः" इति।
'सर्वे प्राणिनः परमधर्माण' इति सर्व एते प्राणिनो-द्वीन्द्रियादश्च पृथिव्यादयश्च परमधर्माण इति-अत्र परम-सुखंतद्धर्माण: सुखधर्माण:-सुखाभिलाषिण इत्यर्थः, यतश्चैवमित्यतो दुःखोत्पादपरिजिहीर्षया एतेषां षण्णां जीवनिकायानां नैव स्वयं दण्डंसमारभेतेति योगः। षष्ठंजीवनिकायं निगमयन्नाह-एष खलु-अनन्तरोदितः कीटादिः 'षष्ठो जीवनिकायः' पृथिव्यादिपञ्चकापेक्षया षष्ठत्वमस्य, त्रसकाय इति 'प्रोच्यते' प्रकर्षणोच्यते सर्वैरेवतीर्थकरणगणधरैरिति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org