________________
१२६
दशवैकालिक - मूलसूत्रं - ४ /-/ ३२ किमित्याह - जीवो व्युत्क्रामिति - उत्पद्यते, स एव - पूर्वको बीजजीवः, बीजनामगोत्रे कर्मणी वेदयित्वा मूलादिनामगोत्रे चोपनिबद्धय, अन्यो वा पृथिवीकायिदिजीव एवमेव, 'योऽपि च मूले जीव' इति य एव मूलतया परिणमते जीवः सोऽपि च पत्रे प्रथमतयेति स एव प्रथमपत्रतयाऽपि परिणमत इत्येकजीवकर्तृके मूलप्रथमपत्रे इति । आह-यद्येवं 'सव्वोऽवि वकिसलओ खलु उग्गममाणो अनंतओ भणिओ' इत्यादि कथं न विरुध्यते इति ?, उच्यते, इह बीजजीवोsयो वा बीजमूलत्वेनोत्पद्य तदुच्छ्रनावस्थां करोति, ततस्तदनन्तरभाविनीं किसलयावस्थां नियमेनानन्तजीवाः कुर्वन्ति, पुनश्च तेषु स्थितिक्षयात्परिणतेष्वसावेव मूलजीवोऽनन्तजीवतनुं परिणम्य (मय्य) स्वशरीरतया तायद्वर्धते यावत्प्रथमपत्रमिति न विरोधः । अन्ये तु व्याचक्षतेप्रथमपत्रकमिह याऽसौ बीजस्य समुच्छूनावस्था, नियमप्रदर्शनपरमेतत् शेषं किसलयादि सकलं नावश्यं मूलजीवपरिणामविर्भावितमिति मन्तव्यं, ततश्च 'सव्वोऽवि किसलओ खलु उग्गमाणो अनंतओ होइ' इत्याद्यप्यविरुद्धं, मूलपत्रनिर्वर्तनारम्भकाले किलसयत्वाभावादिति गाथार्थः । एतदेवाह भाष्यकार:
भा. [ ५८ ]
विद्धत्थाविद्धत्था जोणी जीवाण होइ नायव्वा । तत्थ अविद्धत्थाए वुक्कमई सो य अन्नो वा ॥
वृ. विध्वस्ताऽविध्वस्ता - अप्ररोहप्ररोहसमर्था योनिर्जीवानां भवति ज्ञातव्या, तत्राविध्वस्तायां योनौ व्युत्क्रामति स चान्यो वा, जीव इति गम्यत इति गाथार्थः ॥
भा. [ ५९ ]
जो णमूले जीवो सो निव्वत्तेइ जा पढमपत्तं ।
कंदाइ जाव बीयं सेसं अन्ने पकुव्वंति ॥
वृं. यः पुनर्मूले जीवो बीजगतोऽन्यो वा स निर्वर्तयति यावत् प्रथमपत्रं तावदेक एवेति, अत्रापि भावार्थ: पूर्ववदेव । कन्दादि यावद्वीजं शेषमन्ये प्रकृर्वन्ति, वनस्पतिजीवा एव, व्याख्याद्वयपक्षेऽप्येतदविरोधि, एकतः समुच्छूनावस्थाया एव प्रथमपत्रतया विवक्षितत्वात्तदनु कन्दादिभावत: अन्यत्र कन्दादेर्वनस्पतिभेदत्वात्तस्य च प्रथमपत्रोत्तरकालमेव भावादिति गाथार्थ: ।। अतिदेशमाह
भा. [६० ]
से सुत्तप्फास का काए अहक्कमं बूया । अज्झयणत्था पंच य पगरणपयवंजणविसुद्धा !!
वृ . शेषं सूत्रस्पर्श उक्तलक्षणं 'काये काये' पृथिव्यादौ 'यथाक्रमं यथापरिपाटी ब्रूयात् अनुयोगधरएव, न केवलं सूत्रस्पर्शमेव, किंतु अध्ययनार्थान्, पञ्च च प्रागुपन्यस्तान् जीवाजीवाभिगमादीन् प्रकरणपदव्यञ्जनविशुद्धान् ब्रूयात्, सूत्र एव जीवाभिगमः काये काये इत्यनेनैव लब्ध इति पञ्चग्रहणम्, अन्यथा षडिहार्थाधिकारा इति । प्रक्रियन्तऽर्था अस्मिन्निति प्रकरणम्अनेकार्थाधिकारवत्कायप्रकरणादि, पदं सुबन्तादि, कादीनि व्यञ्जनानि, एभिर्विशुद्धान ब्रूयादिति गाथार्थः ॥ इदानी त्रसाधिकार एतदाह- 'से जे पुण इमे' इति, सेशब्दोऽथशब्दार्थः, असावप्युपन्यासार्थः, ‘अथ प्रक्रियाप्रश्नानन्तर्यमङ्गलोपन्यासप्रतिवचनसमुच्चयेष्वि 'ति वचनात्, अथ ये पुनरमी - बालादीनामपि प्रसिद्धा अनेके-द्वीन्द्रयादिभेदेन बहव: एकेकस्यां जातौ त्रसाः प्राणिन:- त्रस्यन्तीति त्रसाः प्राणा-उच्छ्वासादय एषां विद्यन्त इति प्राणिन:, तद्यथा
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org