________________
१२३
अध्ययनं-४, उद्देशकः- [नि.२३०] मित्येतदाह, ज्ञानादिवृद्धिसद्भावाद्, उक्तंच
"नाणस्स होइ भागी थिरयरओ दंसणे चरित्ते य।
___ धनाआवकहाए गुरुकुलवासं न मुंचंति।" अथवा 'आमुसंतेणं' आमृशता भगवत्पादारविन्दयुगलमुत्तमाङ्गेन, अनेन च विनयप्रतिपत्तेर्गरीयस्त्वमाह, विनयस्यमोक्षमूलत्वात्, उक्तंच
"मूलं संसारस्सा होंति कसाया अनंतपत्तस्स।
विनओ ठाणपउत्तो दुक्खविमुक्खस्स मोक्खस्स॥" कृतं प्रसङ्गेन, प्रकृतं प्रस्तुमः-तत्र इह खलु षड्जीवनिकायिकानामाध्ययनमस्तीत्युक्तम्, अत्राह-एषा षड्जीवनिकायिका केन प्रवेदिताप्ररूपिता वेति?, अत्रोच्यते, तेनैव भगवता, यत आह-'समणेणं भगवया महावीरेणं कासवेणं पवेइया सुअक्खाया सुपन्नत्ते'ति, साचतेन 'श्रमणेन' महातपस्विना भगवता' समग्रैश्वर्यादियुक्तेन 'महावीरेण' 'शूर वीर विक्रान्ता विति कषायादिशत्रुजयान्महाविक्रान्तो महावीरः, उक्तं च
"विदारयति यत्कर्म, तपसा च विराजते।
तपोवीर्येण युक्तश्च, तस्माद्वीरइति स्मृतः॥" महांश्चासौ वीरच महावीरः तेन महावीरेण, काश्यपेने ति काश्यपसगोत्रेण, 'प्रवेदिता' नान्यतः कुतश्चिदाकर्ण्य ज्ञाता किं तर्हि?, स्वयमेव केवलालोकेन प्रकर्षण वेदिता प्रवेदिता-विज्ञातेत्यर्थः, तथा स्वाख्याते'ति सदेवमनुष्यासुरायां पर्षदि सुष्ठ आख्यात् स्वाख्याता, तथा 'सुप्रज्ञप्ते'ति सुष्ठ प्रज्ञप्ता यथैवख्याता तथैव सुष्टु-सूक्ष्मपरिहारासेवनेन प्रकर्षण सम्यगासेवितेत्यर्थः, अनेकार्थत्वाद्धातूनां ज्ञपिरासेवनार्थः, तां चैवंभूतां षड्जीवनिकायिकां 'श्रेयो मेऽध्येतुं' श्रेयः-पथ्यं हितं, ममेत्यात्मनिर्देशः, छान्दसत्वात्सामान्येन ममत्वामनिर्देश इत्यन्ते, ततश्च श्रेय आत्मनोऽवेतुम्, 'अध्येतु'मिति पठितुं श्रोतुं भावचितुं, कृत इत्याह-'अध्ययनं धर्मप्रज्ञप्ति:' निमित्तकारणहेतुषु सर्वासांप्रायो दर्शन मितिवचनात् हेतौ प्रथमा, अध्ययनत्वाद्-अध्यात्मानयनाच्चेतसो विशुद्धयापादनादित्यर्थः, एतदेव कृत इत्याह-'धर्मप्रज्ञप्तेः' प्रज्ञपनं प्रज्ञप्तिः धर्मस्य प्रज्ञप्तिः धर्मप्रज्ञप्तिः ततो धर्मप्रज्ञसे: कारणाच्चेतसो विशुद्धयापादनाश्च श्रेय आत्मनोऽध्येतुमिति। अन्ये तु व्याचक्षतेअध्ययनं धर्मप्रज्ञप्तिरिति पूर्वोपन्यस्ताध्ययनस्यैवोपादेयतयाऽनुवादमात्रमेतदिति॥
शिष्यः पृच्छत्ति-'कतरा खल्वि'त्यादि, सूत्रमुक्तार्थमेव, अनेनैतद्दर्शयति-विहायाभिमानं संविग्नेन शिष्येण सर्वकार्येष्वेव गुरुः प्रष्टव्य इति, आचार्य आह-'इमा खल्वि'त्यादि सूत्रमुक्तार्थमेव, अनेनाप्येतद्दर्शयति-गुणवते शिष्याय गुरुणाऽप्युपदेशो दातव्य एवेति। ___ 'तंजहा-पुढविकाइया' इत्यादि, अत्र 'तद्यथे'त्युदाहरणोपन्यासार्थः, पृथिवी-काठिन्यादिलक्षणा प्रतीता सैव काय:-शरीरं येषां ते पृथिवीकायाः पृथिवीकाया एव पृथिवीकायिकाः स्वार्थिकष्ठक, आपो-द्रवाः प्रतीता एवता एव काय:-शरीरंयेषां तेऽप्काया: अप्काया एव अप्कायिकाः । तेज-उष्णलक्षणं प्रतीतं तदेव काय:-शरीरं येषां ते तेजःकायाः तेजःकाया एव तेजःकायिकाः । वायुः-चलनधर्मा प्रतीत एव स एव कायः-शरीरं येषां ते वायुकायाः वायुकाया एव वायुकायिकाः । वनस्पतिः-लतादिरूपः प्रतीतः, स एव काय:- शरीरं येषां ते वनस्पतिकायाः,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org