SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ १२२ दशवैकालिक-मूलसूत्रं-४/-/३२ सेजे पुण इमेअनेगे बहवे तसा पाणा, तंजहा-अंडया पोयया जराउयारसया संसेइमा समुच्छिमा उब्भिया उववाइया। जेसि केसिंचि पाणाणं अभिकंतं पडिकंतं संकुचियं पसारियं रुयं भंतं तसियं पलाइयं आगइगइविनया जे यकीडपयंगा जायकुंथपिपीलिया सव्वे बेइंदिया सब्वे तेइंदिया सब्वे चउरिदिया सब्वे पंचिदिया सव्वे तिरिक्खजोणिया सव्चे नेरड्या सब्वे मणुआ सव्वे देवा सब्वे पाणा परमाहम्मिआ। एसो खलु छटो जीवनिकाओ तसकाउत्ति पवुच्चइ।। वृ.श्रूयते तदिति श्रुतम्-प्रतिविशष्टार्थप्रतिपादनफ वाग्योगमात्रं भगवता निसृष्टिमात्मीयश्रवणकोटरप्रविष्टंक्षायोपशमिकभावपरिणामाविर्भावकारणं श्रुतमित्युच्यते, श्रुतमवधृतमवगृहीतमिति पर्यायाः, 'मये' त्वात्मपरामर्शः, आयुरस्यास्तीत्यायुष्मान् तस्यामन्त्रणं हे आयुष्यमन्!, कः कमेवमाह ?-सुधर्मस्वामी जम्बूस्वामिनमिति, 'तेने'ति भुवनभर्तुः परामर्शः, भग:समग्रैश्वर्यादिलक्षण इति, उक्तं च "ऐश्वर्यस्य समग्रस्य, रूपस्य यशस: श्रियः। धर्मस्याथ प्रयत्नस्य, षण्णां भगइतोङ्गना।।" सोऽस्यास्तीति भगवांस्तेन भगवता-वर्धमानस्वामिनेत्यर्थः, एव'मिति प्रकारवचन:शब्दः, 'आख्यात'मिति केवलज्ञानेनोपलभ्यावेदितं, किमत आह-इहखलुषड्जीवनिकायनाध्ययनम्, अस्तीति वाक्यशेष:, 'इहे'ति लोके प्रवचने वा, खलुशब्दादन्यतीर्थकृत्प्रवचनेषु च, ‘षड्जीवनिकाये'ति पूर्ववत्, ‘नामे'त्यभिधानम्, 'अध्ययन मिति पूर्ववदेव।इहच 'श्रुतं मये' त्यनेनात्मपरामर्शेनैकान्तक्षणभङ्गापोहमाह, तत्रेत्थंभूतार्थानुपपत्तेरिति, उक्तं च, "एगंतखणियपक्खे गहणं चिअ सव्वहा न अत्थाणं। अनुसरणसासणाई कुओउतेलोगसिद्धाइं? ।।" तथा 'आयुष्म निति च प्रधानगुणनिष्पन्नेनामन्त्रणवचसा गुणवते शिष्यायागमरहस्यं देयं नागुणवत इत्याह, तदनुकम्पाप्रवृत्तेरिति, उक्तं च - "आमे घडे निहत्तं जहाजलं तं घडं विनासेइ। ___ इअसिद्धंतरहस्सं अप्पाहारं विनासेइ॥" आयुश्च प्रधानो गुणः, सति तस्मिन्नव्यवच्छित्तिभावात्, तथा 'तेन भगवता एवमाख्यात' मित्यनेन स्वमनीषिकानिरासाच्छास्त्रपारतन्त्र्यप्रदर्शनेन न ह्यसर्वज्ञेन अनात्मवता अन्यतस्थाभूतात्सम्यगनिश्चित्य परलोकदेशना कर्येत्येतदाह, विपर्ययसंभवाद्, उक्तंच "किं इत्तो पावयरं? संमंअणहिगयधम्मसम्भावो। अन्नं कुदेसणाए कट्ठयरागमि पाडेइ॥" अथवाऽन्यथा व्याख्यायते सूत्रेकदेश:- आउसंतेण ति भगवत एव विशेषणम्, आयुष्मता भगवता-चिरजीविनेत्यर्थः, मङ्गलवचनं चैतद्, अथवा जीवता साक्षादेव, अनेन च गणधरपरम्परागमस्य जीवनविमुक्तानदिशुद्धवक्तुश्चापोहमाह, देहाद्यभावेन तथाविधप्रयत्नाभावात्, "वयणं न कायजोगाभावेन यसो अणादिसुद्धस्स। ___ गहणंमि य नो हेऊ सत्थं अत्तागमो कहनु।" अथवा 'आवसंतेणं'ति गुरमूलमावसता, अनेन च शिष्येण गुरुचरणसेविना सदा भाव्य Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003380
Book TitleAgam Sutra Satik 42 Dashvaikalik MoolSutra 3
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages284
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 42, & agam_dashvaikalik
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy