________________
१२४
दशवैकालिक-मूलसूत्रं-४/-/३२ वनस्पतिकाया एव वनस्पतिकायिकाः । एवंत्रसनशीलास्त्रसाः-प्रतीता एव, वसा, कायाः-शरीराणि येषां ते त्रसकायाः, त्रसकाया एव त्रसकायिकाः।
इह च सर्वभूताधारत्वात् पृथिव्याः प्रथमं पृथिवीकायिकानामभिधानं, तदनन्तरंतत्प्रतिष्ठितत्वादप्कायिकानामपि, तदनन्तरंतत्प्रतिपक्षत्वात्तेजस्कायिनां, तदनन्तरं तेजस उपष्टम्भकत्वाद्वायुकायिकानां, तदनन्तरंवायो: शाखाप्रचलनादिगम्यत्वाद्वनस्पतिकायिकानां, तदनन्तरंवनस्पतेवसोपग्राहकत्वात्रसकायिकानामिति विप्रतिपत्तिनिरासार्थं पुनराह-'पुढवी चित्तमंतमक्खाया' 'पृथिवी' उक्तलक्षणा 'चित्तवती'ति चित्तं-जीवलक्षणं तदस्याम अस्तीति चित्तवती-सजीवेत्यर्थः, पाठान्तरंवा पुढवी' चित्तमत्तमक्खाया' अत्र मात्रशब्दः स्तोकवाची, यथा सर्षपत्रिभागमात्रमिति, ततश्चचित्तमात्रा-स्तोकचित्तेत्यर्थः, तथा च प्रबलमोहोदयात्सर्वजधन्यं चैतन्यमेकेन्द्रियाणां, तदभ्यधिकं द्वीन्द्रियादीनामिति, 'आख्याता' सर्वज्ञेन कथिता, इयं च 'अनेकजीवा' अनेके जीवा यस्यां साऽनेकजीवा, न पुनरेकजीवा, यथा वैदिकानां 'पृथिवी देवते' त्येवमादिवचनप्रामाण्यादिति। अनेकजीवाऽपि कैश्चिदेकभूतात्मापेक्षयेष्यत एव, यथाहुरेक
“एक एव हि भूतात्मा, भूते भूते व्यवस्थितः ।
एकधा बहुधा चैव, दृश्यते जलचन्द्रवत् ।।" अत आह'पृथक्सत्त्वा' पृथग्भूताः सत्त्वा-आत्मानो यस्यांसापृथक्सत्त्वा, अङ्गुलासंख्येयभागमात्रावगाहनया पारमार्थिक्याऽनेकजीवसमाश्रितेति भावः । आह-यद्येवं जीवपिण्डरूपा पृथिवी ततस्तस्यामुच्चारादिकरणे नियमतस्तदतिपातादहिंसकत्वानुपपत्तिरित्यसंभवी साधुधर्म इत्यत्राह'अन्यत्र शस्त्रपरिणतायाः' शस्त्ररिणतां पृथिवीं विहाय-परित्यज्यान्या चित्तवत्याख्यातेत्यर्थः । अथ किमिदं पृथिव्याः शस्त्रमिति शस्त्रप्रस्तावात्सामान्यत एवेदं द्रव्यभावभेदभिन्न शस्त्रमभिधित्सुराहनि.[२३१] दव्वं सत्थग्गिविसंनेहंबिल खारलोणमाईयं।
भावो उदुप्पउत्तो वाया काओ अविरई अ॥ वृ. 'द्रव्य'मिति द्वारपरामर्शः, तत्र द्रव्यशस्त्र खड्डादि, अग्निविषस्नेहाम्लानि प्रसिद्धानि, 'क्षारलवणादीनि' अत्र तु क्षार:-करीरादिप्रभवः, लवणं-प्रतीतम्, आदिशब्दात्करीषादिपरिग्रहः । उक्तं द्रव्यशास्त्रम्, अधुना भावशस्त्रमाह-भावस्तु दुष्प्रयुक्तौ वाक्कायौ अविरतिश्च भावशस्त्रमिति, तत्र भावो दुष्प्रयुक्त इत्यनेन द्रोहाभिमानेादिलक्षणो गृह्यते, वाग्दुष्प्रयोगस्तु हिंस्रपुरुषादिवचनलक्षणः, कायदुष्प्रयोगस्तु धावनवल्गनादिः, अविरतिस्त्वविशिष्टा प्राणातिपातादिपापस्थानकप्रवृत्तिः, एतानि स्वपरव्यापादकत्वात्कर्मबन्धनिमित्तत्वाद्भावशस्त्रमिति गाथार्थः ।। इह न भावशस्त्रेणाधिकारः, अपितु द्रव्यशस्त्रेण, तच्च त्रिप्रकारं भवतीत्याहनि.[२३२] किंची सकायसत्थं किंची परकाय तदुभयं किंची।
एयंतु दव्वसत्थं भावे अस्संजमोसत्थं । वृ.किचित्स्वकायशस्त्र, यथा कृष्णा मृद् नीलादिमृदः शस्त्रम्, एवं गन्धरसस्पर्शभेदेऽपि शस्त्रयोजनाकार्या, तथा 'किञ्चित्परकाये'ति परकायशस्त्रं, यथा पृथिवी असेजःप्रभृतीनाम् अप्तेज:प्रभृतयो वा पृथिव्याः, 'तदुभयं किञ्जि'दिति किञ्जित्तदुभयशस्त्रं भवति, यथा कृष्णा
Jain Education International
-
For Private & Personal Use Only
www.jainelibrary.org