________________
अध्ययनं-४, उद्देशकः - नि. २२७]
११९ श्रोत्रादिभिरग्रहणादिति। द्वारत्रयमप्युपसंहरनाह-जीवस्य सिद्धमेवं नित्यत्वममूर्तत्वमन्यत्वमिति गाथार्थः 11 मूलद्वारगाथाद्वये व्याख्यातमन्यत्वादिद्वारत्रयम्, इदानी कर्तृद्वारावसरः, तथा चाहभा./५०] कत्तत्ति दारमहणा सकम्मफलभोइणो जओ जीवा।
वाणियकिसोवलाइव कविलमयनिसेहणं एयं। वृ.कर्तेति द्वारमधुना-तदेशद्वयाख्यायते, स्वकर्मफलभोगिनो यतो जीवास्ततः कर्तार इति, वणिक्कृषीवलायदय इव, न ह्यमी अकृतमुपभुञ्जते इति प्रयोगार्थः, प्रयोगस्तुकर्ताऽऽत्मा, स्वकर्मफलभोक्तृत्वात्, कर्षकादिवत्। ऐदम्पर्यमाह-'कपिलमतनिषेधनमेतत्' संख्यमतनिराकरणमेतत्. तत्रकर्तृवादप्रसिद्धेरिति गाथार्थ : ।। मूलद्वारागाथाद्वये व्याख्यातं कर्तृद्वारम्, इदानीं देहव्यापित्वद्वारावसर इत्याह भाष्यकार:भा.[५१] वावित्ति दारमहुणा देहव्यावी मओऽग्गिउण्हं व।
जीवो नउसव्वगओ देहे लिंगोवलंभाओ।। वृ.व्यापीति द्वारमधुना-तदेतद्वयाख्यायते, 'देहव्यापी' शरीरमात्रं व्याप्तुं शीलमस्येति तथा 'मत' इष्टः प्रवचनज्ञैः जीवो, नतु सर्वगइति योगः, तुशब्दस्यावधारणार्थत्वान्न चाण्वादिमात्रः, कुत इत्याह-'देहे लिङ्गोपलम्भात्' शरीरएव सुखादितोलिङ्गोपलब्धेः, अग्न्यौष्ण्यत्, उष्णत्वं ह्यग्निलिङ्गं नान्यत्राग्ने:नच नानाविति(गाथा)प्रयोगार्थः । प्रयोगस्तु-शरीरनियतदेश आत्मा, परिमितदेशे लिङ्गोपलब्धेः, अग्न्यौष्ण्यवत् इति गाथार्थः ॥ व्याख्याता प्रथमा मूलद्वारगाथा, साम्प्रतं द्वितिया व्याख्यायते-तत्र प्रथमं गुणीत्वाद्यद्वार, तद्वयाचिख्यासयाऽऽह भाष्यकार:भा.५२] अहुणा गुणित्ति दारं होइ गुणेहिं गुणित्ति विनेओ।
ते भोगजोगउवओगमाइरूवाइवघडस्स॥ वृ.अधुना गुणीति द्वारं-तदेतद्वयाख्यायते, भवति गुणैर्हि गुणी न तद्वयतिरेकेण इति' एवं वज्ञेयः, अनेन गुणगुणिनोर्भेदाभेदमाह, ते भोगोयोगोपयोगादयो गुणा इति, आदि-शब्दादमूर्तत्वादिपरिग्रहः, निदर्शनमाह-रूपादय इव घटस्य गुणा इति गाथार्थः | व्याख्यातं मूलद्वारगाथायां गुणिद्वारम्, अधुनोर्ध्वगतिद्वारावसर इत्याह भाष्यकार:भा.[५३] उटुंगइत्ति अहुणा अगुरुलहुत्ता सभावउड्डगई।
दिटुंतलाउएणं एरंडफलाइएहिंच॥ वृ.
ऊर्ध्वगतिरित्यधुना द्वारं-तदेतद्वयाख्यायते, अगुरुलघुत्वाकारणात्स्वभावातः कर्मविप्रमुक्तः सन्नूर्ध्वगतिः, जीव इति गम्यते, यद्येवंतर्हि कथमधोगच्छति?,अत्राह-दृष्टान्तः अलावुना' तुम्बकेन, यथा तत्स्वभावत ऊर्ध्वगमनरूपमपि मृल्लेपाज्जऽधो गच्छति तदपग-मादूर्ध्वमा जलान्ताद्, एवमात्माऽपि कर्मलेपादधो गच्छति तदपगमादूर्ध्वमा लोमकान्तादिति । एरण्डफलादिभिश्च दृष्टान्त इति, अनेन दृष्टान्तबाहुल्यं दर्शयति, यथा चैरण्डफलमपि बन्धनपरिभ्रष्टमूर्ध्व गच्छति, आदिशब्दादग्न्यादिपरिग्रह इति गाथार्थः ।। व्याख्यातं द्वितीयमूलद्वारगाथायामूर्ध्वगतिद्वारं, साम्प्रतं निर्मयद्वारव्याचिख्यासयाऽऽहभा.[५४] अमओ ये होइ जीवो कारणविरहा जहेव आगासं।
__ समयं च होअनिच्चं मिम्मयधडतंतुमाईयं।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org