________________
१२०
दशवैकालिक - मूलसूत्र - ४ /-/ ३२
वृ. अभयश्च भवति जीवः, न किम्मयोऽपीत्यर्थः, कुत इत्याह- 'कारणविरहात्' अकारणत्वात्, यथैवाकाशम्-आकाशवदित्यर्थः, समयं च वस्तु भवत्यनित्यम् एतदेव दर्शयतिमृन्मयघटन्त्वादि, यथा मृन्मयो घटस्तन्तुमयः पट इत्यादि, न पुनरात्मा नित्य इति दर्शितम् । आहअस्मिन् द्वारे सति 'अमयो नतु मृन्मय एव घट' इति प्राक्किमर्थमुक्तमिति, उच्यते, अत एव द्वारादनुग्रहार्थमुक्तमिति लक्ष्यते भवति चासकृच्छ्रवणादकृच्छ्रेण परिज्ञानमित्यनुग्रहः, अतिगम्भीरत्वाद्भाष्यकाराभिप्रायस्य न (वा) वयमभिप्रायं विद्म इति । अन्ये त्वभिदधि-अन्यकर्तृकैवासौ गाथेति गाथार्थः ॥ व्याख्यातं द्वितीयमूलद्वारगाथायां निर्मयद्वारम् अधुना साफल्यद्वारावसरः, तथा चाह भाष्यकार:
भा. [ ५५ ]
,
-
साफल्लदारमहुणा निच्चनिच्चपरिणामिजीवम्मि! होइ तयं कम्माणं इहरेगस भावओऽजुत्तं ॥
वृ. साफल्यद्वारमधुना - तदेतद्वयाख्याते, नित्यानित्य एव परिणामिनि जीव इति योगः, भवति तत् साफल्यं कालान्तरफलप्रदानलक्षणम्, केषामित्याह-कर्मणां कुशलाकुशलानां, कालभेदेन कर्तृ भोक्तृ परिणामभेदे सत्यात्मनस्तदुभयोपपत्तेः कर्मणां कालान्तरफलप्रदानमिति, 'इतरथा' पुनर्यद्येवं नाभ्युपगम्यते तत एकस्वभावत्वतः कारणादयुक्तं 'तत्' कर्मणां साफल्यमिति, एतदुक्तं भवति - यदि नित्य आत्मा कर्तृस्वभाव एव कृतोऽस्य भोगः ?, भोक्तृस्वभावत्वे चाकर्तृत्वं, क्षणिकस्य तु कालद्रयाभावदेवैतदुभयमनुपपन्नम्, उभये च सति कालान्तर फलप्रदानेन कर्म सफलमिति गाथार्थः ॥ द्वितीयमूलद्वारगाथायां व्याख्यातं साफल्यद्वारम्, अधुना परिणामद्वारमहभा. [ ५६ ] जीवस उ परिमाणं वित्थरओ जाव लोगमेत्तं तुं ।
ओगाहणा य सुहुमा तस्स पएसा असंखेज्जा ।।
वृ. जीवस्य तु परिमाणं विततस्य 'विस्तरतो' विस्तरेण यावल्लोकमात्रमेव, एतच्च केवलिसमुद्घातचतुर्थसमये भवति, तत्रावगाहना च 'सूक्ष्मा' विततैकेकप्रदेशरूपा भवति, 'तस्य' जीवस्य प्रदेशाश्चासंख्येयाः सर्व एव लोकाकाशप्रदेशतुल्या इति गाथार्थः ॥
अनेकेषां जीवानां गणनापरिमाणमाह
भा. [ ५७ ]
पत्थेण व कुलएण व जह कोइ मिणेज्ज सव्वधन्नाई ।
एवं मविज्जमाणा हति लोगा अनंता उ ।।
वृ.' प्रस्थेन वा' चतुः कुडवमानेन 'कुडवेन वा' चतुः सेतिकामानेन यथा कश्चित्प्रमाता मिनुयात् 'सर्वधान्यानि ' व्रीह्मादीनि एवं मीयमाना असद्भावस्थापनया भवन्ति लोका अनन्तास्तु, जीवभृता इति भावः । आह- यद्येवं कथमेकस्मिन्नेव ते लोके माता इति ?, उच्यते, सूक्ष्मावगाहनया, यत्रैकस्तत्रान्ताव्यवस्थिताः, इहतु प्रत्येकावगाहनया चिन्त्यन्ते इति न दोषः, दृष्टं च बादरदव्याणामपि प्रदीपप्रभापरमाण्वादीनां तथा परिणामतो भूयसामेकत्रैवावस्थानमिति गाथार्थः || व्याख्यातं द्वितीयमूलद्वारगाथायां परिमाणद्वारं, तद्वयाख्यानाच्च द्वितीया मूलद्वारगाथा जीवपदं चेति ।
Jain Education International
साम्प्रतं निकायपदं व्याचिख्यासुराह
भा. [ ५८ ]
नाम ठवणसरीरे गई निकायत्थिकाय दविए य । माउगपज्जवसंगहभारे तह भावकाए य ।
For Private & Personal Use Only
www.jainelibrary.org