________________
११८
दशवैकालिक - मूलसूत्र - ४ /-/ ३२ असत्त्वम्, अवग्रहादीनां स्वसंवेदनसिद्धत्वात्, बौद्धैरप्यतीन्द्रियज्ञानाभ्युपगमात्, ज्ञानस्य च गुणत्वात्, गुणस्य च गुणिनभन्तरेणाभावात्, प्राक्तनज्ञानस्यैव गुणित्वानुपपत्तेः, तस्यापि गुणत्वादिति प्रयोगार्थः, प्रयोगश्च नित्य आत्मा, गुणित्वे सत्यतीन्द्रियत्वात्, आकाशवत् । तथा जातिस्मरणादिति, जातेरतिक्रान्तायाः स्मरणात्, न चेदमनुसमरणमननुभूतस्यान्यानुभूतस्य च भवति, अतिप्रसङ्गात्, दृश्यते च कचिदिदं, न चासौ प्रतारकः, तत्कथितार्थसंवादनात्, अनुभवाविशेषे सर्वेषामेव कस्मान्न भवतीति चेद्, उच्यते, कर्मप्रतिबन्धाद् दृढानुभवाभावाद्, इह लोकेऽपि सर्वेषां सर्वत्रानुस्मरणादर्शनात्, न खलु इह लोके सर्वत्रानुस्मरणदर्शनं, तद्वदिहापि क्वचिज्जातौ सर्वेषामस्त्विति चेन्न, नष्टचेतसां सर्वत्रानुस्मरणशून्येन व्यभिचारादिति प्रयोगार्थः, प्रयोगश्च बालकृतानुस्मरणवद्रष्टव्य इति ।
तथा स्तनाभिलाषादिति, तदहर्जाबालकस्यापि स्तनाभिलाषदर्शनात्, न चान्यकालाननुभूतस्तनपानस्यायमुपपद्यते, प्रयोगश्च तदहर्जात बालकस्याऽऽद्यस्तनाभिलाषोऽभिलाषान्तरपूर्वक:, अभिलाषत्वाद्, तदन्यस्तनाभिलाषवत्, तद्वदप्रथमत्वसाधनाद् विरुद्धो हेतुरिति चेन्न, प्रथमत्वानुभवेन बाधनात्, 'असति च बाधने विरुद्ध' इति न्यायाद्, अन्यथा हेतूच्छेदप्रसङ्गादित्यत्र बहु वक्तव्यं तत्तु नोच्यते, अक्षरगमनिकामात्रस्य प्रस्तुतत्वादिति । नित्यादिक्रियायोजना पूर्ववदिति निर्युक्तिगाथार्थः । एतामेव निर्युक्तिगाथां लेशतो व्याचिख्यासुराह भाष्यकारःभा. [४८ ] रोगस्सामयसन्ना बालकयं जं जुवाऽनुसंभरइ ।
जं कयमन्त्रमि भवे तस्सेवन्नत्थुवत्थाणा ।।
वृ. रोगस्यामय इति संज्ञा, बालकृतं किमपि वस्तु' यद्' यस्माद्युवाऽनुस्मरति, तथा यत्कृतमन्यस्मिन्भवे-कुशलाकुशलं कर्म तस्यैव कर्मणोऽन्यत्र - भवान्तरे उपस्थानात्, सर्वत्र भावार्थयोजना कृतैवेति गाथार्थः ॥
भा. [४९ ]
निच्ची अनिदियत्ता खणिओ नवि होइ जाइसंभरणा । अभिलासा यतहा अमओ नउ मिम्मउव्व घडो ॥
वृ. नित्य इति सर्वत्र क्रियाभिसंबध्यते, अतीन्द्रियत्वात् श्रोत्रादिभिरग्रहणादित्यर्थः, 'विज्ञेयो' ज्ञातव्यः । तथा च जातिस्मरणात्, पाठान्तरं वा' क्षणिको न भवति जाति-स्मरणा 'दिति, एतदप्यदुष्टमेव, विधिप्रतिषेधाभ्यां साध्यार्थाभिधानात्, स्तनाभिलाषाच्च, तथा अमयोऽयमात्मा, नतु मृन्मय इव घटः, ततश्चाकारण इत्यर्थः । एतदपि नित्यत्वादिप्रसाधकमिति निर्युक्तिगाथायामनुपन्यस्तमप्युक्तं सूक्ष्मधिया भाष्यकारेणेति गाथार्थ: ।। तृतीयां निर्युक्तिगाथामाहसव्वनुवदित्ता सकम्मफलभोयणा अमुत्तत्ता ।
नि. [२२७]
जीवस्स सिद्धमेवं निच्चत्तममुत्तमन्नत्तं ॥
वृ. 'सर्वज्ञोपदिष्टत्वा 'दिति नित्यो जीव इति सर्वज्ञोक्तत्वात्, अवितथं च सर्वज्ञ - वचनं, तस्य रागादिरहितत्वादिति । तथा 'स्वकर्मफलभोजना' दिति स्वोपात्तकर्मफलभोगादित्यर्थः, उपस्थानदेतन्न भिद्यत इति चेन्न, अभिप्रायापरिज्ञानात्, तत्र हि येन कृतं तस्मिन्नेव कर्तरि कर्मोपतिष्ठत इत्युक्तं तच्चैकस्मिन्नपि जन्मनिसंभवति, इदं त्वन्यजन्मान्तरापेक्षयाऽपि गृह्यत इति न दोषः । तथा 'अमूर्तत्वा' दिति मूर्तिरहितत्वाद्, एतदपि श्रोत्रादिभिरग्रहणादित्यस्मान्न भिद्यत इति चेन, तत्र हि श्रोत्रादिभिर्न गृह्यते इत्येतदुक्तम्, इह तु तत्स्वरूपमेव नियम्यते इति, मूर्ताणूनामपि
www.jainelibrary.org
Jain Education International
For Private & Personal Use Only
-