________________
१११
अध्ययनं-४, उद्देशकः- (नि. २२५]
विनाणऽनेगभेयंकालमसंखेयरंधरणा। वृ.चित्तंत्रिकालविषयम्-ओघतोऽतीतानागतवर्तमानग्राहि, चेतनं चेतना-सा प्रत्यक्षवर्तमानार्थग्राहिणी, संज्ञानं संज्ञा-सा अनुस्मरणमिदं तदिति ज्ञानं, विविधं ज्ञानं विज्ञानम् अनेकभेदम्अनेकप्रकारम्, अनेकर्मिणी वस्तुनि तथा तथाऽध्यवसाय इत्यर्थः, 'कालम-संख्येयेतरम्' असंख्येयं संख्येयं वा, धारणाअविच्युतिस्मृतिवासनारूपा, तत्र वासनारूपा असंख्येयवर्षायुषामसंख्येयं संख्येयवर्षायुषां च संख्येयमिति माथार्थः ।। भा.[२०] अत्थस्स ऊह बुद्धी ईहा चेतृत्थअवगमो उमई।
संभावणत्थक्का गुणपच्चक्खाघडोव्वऽत्थि।। वृ.अर्थस्योहावुद्धिः संज्ञिनः परनिरपेक्षोऽर्थपरिच्छेद इति भावः, ईहा-चेष्टा किमयं स्थाणुः किंवा पुरुष? इति सदर्थपर्यालोचनरूपा, अर्थावगमस्तु' अर्थपरिच्छेदस्तु शिर:कण्डूयनादिधर्मोपपत्तेः पुरुष एवायमित्येवंरूपा मतिः, 'संभावणत्थतक्क'त्ति प्राकृतशैल्या अर्थसंभावनाएवमेद चायमर्थ उपपद्यत इत्यादिरूपा तर्का । इत्थं द्वाराणि व्याख्याय सर्व एते चित्तादयो गुणा वर्तन्त इति जीवाख्यगुणिप्रतिपादकेन प्रयोगार्थेनोपसंहरनाह-गुणप्रत्य-क्षत्वाद्धेतोर्घटवदस्ति जीव इति गम्यते, एष गाथार्थः । एतदेव स्पष्टयतिभा.[२१] जम्हा चित्ताईया जीवस्स गुणा हवंति पच्चक्खा।
गुणपच्चरखत्तणओघडुव्व जीवो अओ अत्थि।। वृ.यस्मात् 'चित्तादयः' अनन्तरोक्ता: जीवस्य गुणाः, नाजीवस्य, शरीरादिगुणविधर्मत्वात्, एतेच भवन्तिप्रत्यक्षाः,स्वसंवेद्यत्वात्, यतश्चैवं गुणप्रत्यक्षत्वाद्धेतोर्घटवज्जीवः अतोऽस्तीति प्रयोगार्थः, प्रयोगस्तु-सन्नात्मा, गुणप्रत्यक्षत्वात्, घटवत्, नायं घटवदात्मनोऽचेतनत्वापादनेन विरुद्धः, 'विरुद्धोऽसति बाधने' इतिवचनात्, एतचैतन्यं प्रत्यक्षेणैव बाधनमिति गाथार्थः ।। व्याख्यातं मूलद्वारगाथाद्वये प्रतिद्वारगाथाद्वयेनलक्षणद्वारम्, इदानीमस्तित्वद्वारवसरः, तथा चाह भाष्यकार:भा.[२२] अस्थित्ति दारमहुणा जीवस्सइ अस्थि विज्जए नियमा।
लोआययमयधायत्थमुच्चए तत्थिमो हेऊ॥ वृ.अस्तीति द्वारमधुना-साम्प्रतमवसरप्राप्तं, तत्रेतदुच्यते-जीवः सन्, पृथिव्यादिविकारदेहमात्ररूपः सन्निति सिद्धसाध्यतानतुततोऽन्योऽस्तीत्याशङ्कापनोदायाह-अस्त्यन्यश्चैतन्यरूपः, तदपि मातृचैतन्योपादानं भविष्यति परलोकयायीतुन विद्यते इति मोहापोहायाहविद्यते 'नियमात्' नियमेन, तथा चाह-'लोकायतमतघातार्थ' नास्तिकाभिप्रायनिराकरणार्थमुच्यत एतत्, तस्य चानन्तरादित एवाभिप्राय इति सफलानि विशेषणानि, 'तत्र' लोकायतमतविघाते कर्तव्ये 'अयं' वक्ष्यमाणलक्षणो 'हेतुः' अन्यथानुपपत्तिरूपो युक्तिमार्ग इति गाथार्थः ।। भा.[२३] जो चिंतेइ सरीरेनस्थि अहं स एव होइ जीवो त्ति।
नहुजीवंमि असंते संसयउप्पायओ अन्नो॥ वृ.यश्चिन्तयति 'शरीरे' अत्र लोकप्रतीते नास्त्यहं 'स एव' चिन्तयिता भवति जीव इति। कथमेतदेवमित्याह-न यस्माज्जीवेऽसति मृतदेहादौ संशयोत्पादक: 'अन्य:' प्राणादिः, चैतन्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org