________________
११२
रूपत्वात्संशयस्येति गाथार्थः । एतदेव भावयति
भा. [२४]
जीवस्स एस धम्मो जा ईहा अत्थि नत्थि वा जीवो ।
खाणुमनुस्साणुगया जहईहा देवदत्तस्स ॥
वृ. जीवस्यैष स्वभाव: - एष धर्मः या 'ईहा' सदर्थपर्यालोचनात्मिका, किंविशिष्टेत्याहअस्ति नास्ति वा जीव इति, लोकप्रसिद्धं निदर्शनमाह-'स्थाणुमनुष्यानुगता' किमयं स्थाणुः किं वा पुरुष इत्येवंरूपा येहा देवदत्तस्य जीवतो धर्म इति गाथार्थः ॥ प्रकारान्तरेणैतदेवाह - भा. [२५] सिद्धं जीवस्स अत्थित्तं सद्दादेवानुमीयए । नासओ भुवि भावस्स, सद्दो हवइ केवलो ॥
वृ. 'सिद्धं' प्रतिष्ठितं 'जीवस्य' उपयोगलक्षणस्यास्त्विं, कुत इत्याह--' शब्दादेव' जीव इत्यस्मादनुमीयते कथमेतदेवमित्याह- 'नासत' इति न असत:- अविद्यमानस्य 'भुवि' पृथिव्यां ‘भावस्य' पदार्थस्य शब्दो भवति वाचक इति, खरविषाणादिशब्दैर्व्यभिचारमाशङ्कयाह- 'केवलः ' शुद्धः अन्यपदासंसृष्टः स्वरादिपदसंसृष्टाश्च विषाणादिशब्दा इति गाथार्थः ॥
एतद्विवरणायैवाह भाष्यकारः
भा. [२६] अस्थित्ति निव्विगप्पो जीवो नियमाउ सद्दओ सिद्धी । कम्हा ? सुद्धपयत्ता घडखरसिंगाणुमाणाओ ।।
वृ. अस्तीति निर्विकल्पो जीवः, 'निर्विकल्प' इति निःसंदिग्धः, 'नियमात्' नियमेनैव, प्रतिपत्रपेक्षया 'शब्दतः सिद्धि:' वाचकाद्वाच्यप्रतीतेः, एतदेव प्रश्नद्वारेणाह - 'कस्मात् ' कुत एतदेवमिति ?, आह- 'शुद्धपदत्वात्' केवलपदत्वाज्जीवशब्दस्य, घुटखरशृङ्गानुमानाद, अनुमानशब्दो दृष्टान्तवचनः घटस्वरशृङ्गदृष्टान्तादिति प्रयोगार्थः, प्रयोगस्तु-मुख्येनार्थेनार्थवान्, जीवशब्दः, शुद्धपदत्वाद्, घटशब्दवत्, यस्तु मुख्येनार्थेनार्थवान् न भवति स शुद्धपदमपि न भवति, यथा खरशृङ्गशब्द इति गाथार्थ: || पराभिप्रायमाशङ्कय परिहरन्नाह
भा. [२७] चोगय - सुद्धपयत्ता सिद्धी जइ एवं सुण्णसिद्धि अम्हं पि । तं न भवइ संतेणं जं सुत्रं सुनगेहं व ॥
दशवैकालिक - मूलसूत्रं - ४ /-/ ३२
--
वृ. उक्तवच्छुद्धपदत्वात्सिद्धिर्यदि जीवस्य एवं तर्हिशून्यसिद्धिरस्माकमपि, शून्यंनष्टशब्दस्यापि शुद्धपदत्वादित्यभिप्रायः, अत्रोत्तरमाह- तन्न भवति यदुक्तं परेण, कुत इत्याह' सता' विद्यमानेन पदार्थेन 'यद्' यस्माच्छून्यं शून्यमुच्यते, किंवदित्याह शून्यगृहमिव, तथाहिदेवदत्तेन रहितं शून्यगृहमुच्यते, निवृत्तो घये नष्ट इति नत्वनयोर्जीवशब्दस्य जीववदय (वि) शिष्टं वाच्य -- मस्तीति गाथार्थः ॥ प्रकारान्तरेणास्तित्वपक्षमेव समर्थयन्नाह
भा. [२८]
Jain Education International
मिच्छा भवेउ सव्वत्था, जे केई पारलोइया ।
कत्ता चेवोपभोत्ता य, जइ जीवो न विज्जइ ।
वृ. 'मिथ्या भवेयुः ' अनृताः स्युः, सर्वे ऽर्था ये केचन पारलौकिका - दानादयः, यदिकिम्इत्याह-कर्ता चैव कर्मणः, उपभोक्ता च तत्फलस्य, यदि जीवो न विद्यते, परलोकयायीति गाथार्थः ॥ एतदेवाव्युत्पन्नशिष्यानुग्रहार्थं स्पष्टतरमाह-
भा. [२९]
पाणिदयातवनियमा बंभं दिक्खा य इंदियनिरोहो ।
For Private & Personal Use Only
www.jainelibrary.org