________________
दशवैकालिक-मूलसूत्र-४/-/३२ करणानीति प्रतिज्ञार्थः, करणत्वादिति हेतुः, परशुवदिति दृष्टान्तः । भवति च विशेषे पक्षीकृते सामान्यं हेतुः-यथा अनित्यो वर्णात्मकः शब्दः, शब्दत्वात्, मेघशब्दवदिति गाथार्थः ।। उक्तं योगद्वारं, साम्प्रतमुपयोगद्वारमाहभा.[१६] उवओगा नाभावो अग्गिव्व सलक्खणापरिच्चागा।
सकसाया नाभावो पज्जगमणासुवण्णंव।। व.'उपयोगात्' साकारानाकारभेदभिन्नान्नाभावो, जीव इतिगम्यते, कत इत्याह-'स्वलक्षणापरित्यागाद्' उपयोगलक्षणासाधारणात्मीयलक्षणापरित्यागात्, अग्निवद्, यथाऽग्निरौष्ण्यादिखलक्षणापरित्यागानाभावः तथा जीवोऽपीति प्रयोगार्थः, प्रयोगस्तु-सन्नात्मा, स्वलक्षणापरित्यागाद, अग्निवदिति । उक्तमुपयोगद्वारम्, अधुना कषायद्वारमाह-सकषायत्वाद्-अचेतनविलक्षणक्रोधादिपरिणामोपेतत्वादित्यर्थः, नाभावो जीवः, कुत इत्याह-पर्यायगमनात्-क्रोधमानादिपर्यायप्रातः, सुवर्णवत्, कटकादिपर्यायगमनोपेतसुवर्णवदिति प्रयोगार्थः, प्रयोगस्तुसत्रात्मा, पर्यायगमनात्, सुवर्णवदिति गाथार्थः ।। उक्तं कषायद्वारम्, इदानी लेश्याद्वारमाहभा.[१७] लेसाओ नाभावो परिणमणसभावओयखीरंव।
उस्सासा नाभावो समसब्भावाखउव्व नरो॥ वृ. लेश्यातो' लेश्यासद्भावेन नाभावो जीवः, किंतु भाव इति, कुत इत्याह-परिणमनस्वभावत्वात्कृष्णादिद्रव्यसाचिव्येन जम्बूखादकादिदृष्टान्तसिद्धतथाविधपरिणामधर्मत्वात्, क्षीरवदिति प्रयोगार्थः, प्रयोगस्तु-सन्नात्मा, परिणामित्वात्, क्षीरवदिति।गतं लेश्याद्वारम्, प्राणापानद्वारमाह-उच्छासादिति, अचेतनधर्मविलक्षणप्राणापानसद्भावान्नाभावो जीवः, किंतु भाव एवेति, श्रमसद्भावेन परिस्पन्दोपेतपुरुषवदिति प्रयोगार्थः, प्रयोगस्तु पुनरत्र व्यतिरेकी दृष्टव्यः, सात्मकं जीवच्छसैरं, प्राणादिमत्त्वाद्, यत्तु सात्मकं न भवति तत्प्राणादिमदपि न भवति, यथाऽऽकाशमिति गाथार्थः। उक्तं प्राणापानद्वारम्, अधुना इन्द्रियद्वारमुच्यतेभा.[१८] अक्खाणेयाणि परत्थगाणि वासाइवेहकरणत्ता।
गहवेयगनिज्जरओ कम्मस्सऽन्नो जहाहारो॥ वृ.अक्षाणि' इन्द्रियाणि 'एतानी'ति लोकप्रसिद्धानिदेहाश्रयाणि परार्थानि आत्मप्रयोजनानि, वास्यादिवदिह करणत्वात् इहलोके वास्यादिवदिति प्रयोगार्थः । आह-आदानान्येवेन्द्रियाणि तत् किमर्थं भेदोपन्यासः?, उच्यते, निवृत्त्युपकरणद्वारेण द्वैविध्यख्यापनार्थं, ततश्च तत्रोपकरणस्य ग्रहणमिह तु निर्वृत्तेरिति, प्रयोगस्तु-परार्थाश्चक्षुरादयः, संघातत्वात्, शयनासनादिवत्, न चायं विशेषविरुद्धः, कर्मसंबद्धस्यात्मनः संघातरूपत्वाभ्युपगमात् । गतमिन्द्रियद्वारम्, अघुना बन्धादिद्वाराण्याह-ग्रहणवेदकनिर्जरकः कर्मणोऽन्यो, यथाऽ ऽहार इति, तत्र ग्रहणं-कर्मणो बन्धः वेदनम्-उदय: निर्जरा-क्षयः, यथाऽऽहारे इति-आहारविषयाणि ग्रहणादीनि न कळदिव्यतिरेकेण तथा कर्मणोऽपीति प्रयोगार्थः, प्रयोगस्तु-विद्यमानभोक्तृकमिदं कर्म, ग्रहणवेदननिर्जरणसदभावाद, आहारवदितिगाथार्थः।। उक्तानिबन्धादिद्वाराणि, व्याख्याता च प्रथमा प्रतिद्वारगाथा, साम्प्रतं द्वितीयामधिकृत्य चित्तादिस्वरूपव्याचिख्यासयाऽऽह
भा.[१९] चित्तंतिकालविसयं चेयण पच्चक्ख सन्नमनुसरणं ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org