________________
अध्ययनं-४, उद्देशक:- [नि. २२४]
आणापाणू इंदिय बंधोदयनिज्जरा चेव। नि.[२२५] चित्तं चेयण सन्ना वित्राणं धारणा य बुद्धी ।
ईहामईवियक्का जीवस्स उलक्खणा एए। वृ.एतत्प्रतिद्वारगाथाद्वयम्, अस्यव्याख्या-आदानं परिभोगस्तथा योगोपयोगी कषायलेश्याश्च तथाऽऽनापानौ इन्द्रियाणि बन्धोदयनिर्जराश्चैव, तथाचित्तंचेतना संज्ञा विज्ञानं धारणा च बुद्धिश्च तथा ईहामतिवितर्का जीवस्य तु लक्षणान्येतानि, तुशब्दस्यावधारणार्थत्वाज्जीवस्यैव नाजीवस्य इति प्रतिद्वारगाथाद्वयसमासार्थः॥व्यासार्थस्तु भाषयादवसेयः, तच्चेदम्भा.[१२] लक्खिज्जइत्ति नज्जइ पच्चक्खियरो व जेण जो अत्थो।
तंतस्स लक्खणं खलु धूमुण्हाइ व्व अग्गिस्स। वृ.लक्ष्यत इति ज्ञायते कोऽसावित्याह-'प्रत्यक्षः' अक्षगोचरापन्नः 'इतरो वा' परोक्षः 'येन' उष्णत्वादिना 'योऽर्थः' अग्नयादिस्तत्तस्य लक्षणं खल्विति, तदेव स्पष्टयतिधूमौष्णयांदिवदग्नेरिति, स ह्यौषण्येन प्रत्यक्षो लक्ष्यते, परोक्षो धूमनेति गाथार्थः ।। तत्रादानादीनां दृष्टान्तानाहभा.[१३] अयगार कूर परसू अग्गि सुवण्णे अखीरलरवासी !
आहारो दिटुंता आयाणाईणजहसंखं। वृ.अयस्कार: कूरस्तथा परशुरग्निः सुवर्ण क्षीरनरवास्यः तथा आहाडो दृष्टान्ता 'आदानादीनां' प्रक्रान्तानां यथासंख्यं, प्रतिज्ञाद्युल्लङ्घनेन चैतदभिधानं परोक्षार्थप्रतिपत्ति प्रतिप्रायः प्रधानाङ्गताख्यापनार्थमिति गाथार्थः ।। साम्प्रतं प्रयोगानाहभा.[१४] देहिदियाइरित्तो आया खलु गज्झगाहगपओगा।
संडासा अयपिंडो अययाराइव्व विनेओ। वृ.देहेन्द्रियातिरिक्त आत्मा, खलुशब्दो विशेषणार्थः, कथंचित्त, न सर्वथाऽतिरिक्त एव, तदसंवेदनादिप्रसङ्गादिति, अनेन प्रतिज्ञार्थमाह, प्रतिज्ञा पुनः-अर्थेन्द्रियाणि आदेयादानानि विद्यमानादातृकाणि, कुत इत्याह-ग्राह्यग्राहकप्रयोगात्, ग्राह्या-रूपादयः ग्राहकाणि-इन्द्रियाणि तेषां प्रयोगः-स्वफलसाधनव्यापारस्तस्मात्, नामीषां कर्मकरणभावः कर्तारमन्तरेण स्वकार्यसाधनप्रयोग: संभवति, अनेनापिहेत्वर्थमाह, हेतुश्चादेयादानरूपत्वादिति। दृष्टान्तमाह-संदंशाद् आदानात् अयस्पिण्डाद् आदेयात् 'अयस्कारादिवत्' लोहकारवद्विज्ञेयः अतिरिक्तो विद्यमान आदातेत्यनेनापि दृष्टान्तार्थमाह, दृष्टान्तस्तु संदंशकायस्पिण्डवत्, यस्तु तदनतिरिक्तः न ततो ग्राह्यग्राहकप्रयोगः, यथा देहादिभ्यएवेति व्यतिरेकार्थः, व्यतिरेकस्तु यानि विद्यमानादातृकाणि न भवन्ति तान्यादानादेयरूपाण्यपि न भवन्ति, यथा मृतकद्रव्येन्द्रियादीनीति गाथार्थः ।। उक्तमादान-द्वारम्, अधुना परिभोगद्वारमाहभा.[१५] देहो सभोत्तिओखलु भोज्जता ओयणाइथालंव।
अन्नप्पउत्तिगा खलु जोगा परसुव्व करणत्ता॥ वृ.देहः सभोक्तृक: खल्विति प्रतिज्ञा, भोग्यत्वादिति हेतुः, ओदनादिस्थालवत्स्थालस्थितौदनवदिति दृष्टान्तः, भोग्यत्वं च देहस्य जीवेन तथा निवसतोपभुज्यमानत्वादिति। उक्तं परिभोगद्वारम्, अधुना योगद्वारमाह-अन्यप्रयोक्तृकाः खलु योगाः, योगा:-साधनानि मनःप्रभृतीनि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org