________________
१०८
दशवैकालिक-मूलसूत्र-४/-/३२ उक्त अधजीवितविशिष्टो ओघजीवः, साम्प्रतं भवजीवं तद्भवजीवं चाहभा.[८] जेण य धरइ भवगओ जीवो जेण य भवाउसंकमई। ।
जाणाहितं भवाउं भउव्विहं तब्भवे दुविहं॥निक्खेवोत्ति गयं ।। वृ.'येन च' नारकाद्यायुष्केण 'ध्रियते' तिष्ठति भवगतो' नारकादिभवस्थितो जीवः, तथा 'येनच' मनुष्याद्यायुष्केण भवात्' नारकादिलक्षणात् संक्रामिति' याति, मनुष्या-दिभवान्तरमिति सामर्थ्यानगम्यते, 'जानीहि' विद्धि, तदित्थंभूतं भवायुः' भवजीवितं, चतुर्विधनारकतिर्यड्मनुष्यामरभेदेन, तथा तद्भवे' तद्भवविषयम्, आयुरितिवर्तते, तच्च द्विविधं-तिर्यक्तद्भवायुर्मनुष्यतद्भवायुश्च, यस्मात्तवेव मृतौ सन्तौ भूयस्तस्मिन्नेव भव उत्पद्येते, नान्ये, तद्भवजीवितं च तस्मान्मृतस्य तस्मिन्नेवोत्पन्नस्य यत्तदुच्यत इति। अत्रापि च भावजीवाधिकारात्तद्भवजीवितविशिष्टश्च जीव एव ग्राह्यः, जीवितं तु तद्विशेषणत्वादुक्तमिति गाथार्थः ।।
उक्तो निक्षेपः, इदानीं प्ररूपणामाहभा.[९] दुविहा य हुंति जीवा सुहुमा तह बायरा य लोगम्मि।
सुहुमा यसव्वलोए दो चेव य बायरविहाणे॥ वृ.'द्विविधाश्च' द्विप्रकाराश्च, चशब्दानवविधाश्च पृथिव्यादिद्विन्द्रियादिभेदेन भवन्ति जीवाः, द्वैविध्यमाह-सूक्ष्मास्तथा बादराश्च, तत्र सूक्ष्मनामकर्मोदयात्सूक्ष्मा बादरनामकर्मोदयाश्च बादरा इति, 'लोक' इति लोकग्रहणमलोके जीवभवनव्यवच्छेदार्थ, तत्र सूक्ष्माश्च सर्वलोक इति, चशब्दस्यावधारणार्थत्वात्सूक्ष्मा एव सर्वलोकेषु, न बादराः, कचित्तेषामसंभवात्, 'द्वे एव च' पर्याप्तकापर्याप्तकलक्षणे 'बादरविधाने' बादरविधी, चशब्दात्सूक्ष्मविधाने च, तेषामपि पर्याप्तकापर्याप्तकरूपत्वादिति गाथार्थ: ।। एतदेव स्पष्टयन्नाहभा.[१०] सुहुमायसव्वलोए परियावना भवंति नायव्वा।
दो चेव बायराणं पज्जत्तियरे अनायव्वा ।। परूवणादारंगयं ति॥ वृ.सूक्ष्मा एव पृथिव्यादयः 'सर्वलोके चतुर्दशरज्ज्वात्मके 'पर्यायापन्ना भवन्ति ज्ञातव्याः' 'पर्यायापना' इति तमेव सूक्ष्मपर्यायमापन्ना: भावसूक्ष्मा नतु भूतभाविनो द्रव्यसूक्ष्मा इति भावः । तथा द्वौ भेदो बादराणां पृथिव्यादीनां, चशब्दात् सूक्ष्माणां च, पर्याप्तकेतरौ ज्ञातव्यौ' पर्याप्तकापर्याप्तकाविति गाथार्थः ।। उक्ता प्ररूपणा, अधुना लक्षणमुच्यते, तथा चाह भाष्यकार:भा.[११] लक्खणमियाणि दारंचिंधं हेऊ अकारणं लिंग।
- लक्खणमिइ जीवस्स उआयाणाई इमंतंच॥ वृ.लक्षणमिदानी द्वारमवसरप्राप्तम्, अस्य च प्रतिपत्त्यङ्गतया प्रधानत्वात्सामान्यतस्तावत्तत्स्वरूपमेवाह'चिहं हेतुश्च कारणं लिङ्गं लक्षणमिति। तत्र चिह्नम्-उपलक्षणं, यथा पताका देवकुलस्य, हेतुः-निमित्तलक्षणं यथा कुम्भकारनैपुण्यं घटसौन्दर्यस्य, कारणम्उपादानलक्षणं, यथा मृन्मसृणत्वं घटबलीयस्त्वस्य, लिङ्ग-कार्यलक्षणं यथा धूमोऽग्नेः, पर्यायशब्दा वा एत इति । लक्षणमित्येतल्लक्षणं लक्ष्यतेऽनेन परोक्षं वस्त्वितिकृत्वा, जीवस्य पुनरादानादि लक्षणमनेकप्रकारमिदं, तच्च वक्ष्यमाणामिति गाथार्थः।
नि.[२२४] आयाणे परिभोगे जोगुवओगे कसायलेसा य।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org