________________
अध्ययनं-४, उद्देशकः - नि.२२०]
१०७ अत्र च सचितद्रव्यषट्केनाधिकारा इति गाथार्थ :।। आह-अत्र द्वयाद्यनभिधानं किमर्थम्?, उच्यते, एकषडभिधानतः आद्यन्तग्रहणेन तद्गतेरिति । व्याख्यातं षट्पदम, अधुना जीवपदमाहनि.[२२१] जीवस्स उनिक्लेवो परूवणा लक्खणं च अत्थितं।
अन्नामुत्ततं निच्च कारगो देहवावित्तं ।। नि.[२२२] गुणिउड्ढगइत्ते या निम्मयसाफल्लता य परिमाणे।
जीवस्स तिविहकालम्मि परिक्खा होइ कायव्वा॥ वृ.एतद्वारगाथाद्वयम्, अस्य व्याख्या-जीवस्य तु 'निक्षेपो'नामादिः, प्ररूपणा' द्विविधाश्च भवन्ति जीवा इत्यादिरूपालक्षणं च-आदानादि अस्तित्वं' सत्त्वं शुद्धपदवाच्यत्यादिना अन्यत्वं' देहात् 'अभूर्तत्वं' स्वतः "नित्यत्वं' विकारानुपलम्भेन 'कर्तुत्वं' स्वकर्मफलभोगात् 'देहव्यापित्वं' तत्रेव तल्लिङ्गोपलब्ध्या 'गुणित्वं' योगादिना 'ऊर्ध्वगतित्वम्' अगुरुलधुभावेन 'निर्मा(म)यता' विकाररहितत्वेन, सफलता-च कर्मण; 'परिमाण' लोकाकाशमात्र इत्यादि एवं जीवस्य 'त्रिविधकाल' इति त्रिकालविषया, परीक्षा भवति कर्तव्या इति द्वारगाथाद्वयसमासार्थः । व्यासार्थस्तु भाष्यादवसेयः, तथा च निक्षेपमाहनि.[२२३] नामंठवणाजीवो दव्यजीवो यभावजीवोय।
ओह भवग्गहणंमियतब्भवजीवे य भावम्मि। व.'नामस्थापनाजीव' इति जीवशब्द: प्रत्येकभिसंबध्यते, नामजीव: स्थापनाजीव इति, तथा द्रव्यजीवश्च भावजीवश्च' वक्ष्यमाणलक्षणः, तत्र ओघ' इति ओघजीवः, भवग्रहणे चे'ति भवजीव:, तद्भवजीवश्च तद्भव एवोत्पन्नः, भावे' भावजीव इति गाथासमासार्थः ।। व्यासार्थत्वाहभा.[६]
नामंठवण गयाओ दवे गुणपज्जवेहिरहिउति। नामठवण नक्ष
तिविहोय होइ भावे ओहे भव तब्भवेचेव।। वृ.नामस्थापने गते, क्षुण्णत्वादिति भावः, 'द्रव्य' इति द्रव्यजीवो 'गुणपर्यायाभ्यां' चैतन्यमनुष्य-त्वादिलक्षणाभ्यां रहितः, बुद्धिपरिकल्पितो, नत्वसावित्थंविधः संभवतीति, त्रिविधश्च भवति भाव इति, भावजीवत्रैविध्यमाह-ओघजीवो भवजीवस्तद्भजीवश्चेति, प्राग्गाथोक्तभप्येतदित्थंविधभाष्यकारशैलीप्रामाण्यतोऽदुष्टमेवेति। अन्ये तु पठन्ति-'भावे उतिहा भणिओ, तं पुण संखेवओ वोच्छं' 'भाव' इति भावजीवः, त्रिधे'तित्रिप्रकारो 'भणितो' नियुक्तिकारेण ओघजीवादिः, तमपि च भावार्थमधिकृत्य संक्षेपतो वक्ष्य इति गाथार्थः। तत्रौघजीवमाहभा.[७] संते आउयकम्मे धरई तस्सेवजीवई उदए।
तस्सेव निज्जराए मओ त्ति सिद्धो नयमएणं ।। वृ.'सति' विद्यमान आयुष्यककर्मणि सामान्यरूपे ध्रियते सामान्येनैव तिष्ठति भवोदधौ, कथमित्थमवस्थानमात्राज्जीवत्वमस्येत्याङ्कयात्रैवान्वर्थयोजनामाह-'तस्यैव' ओघायुष्ककर्णणो 'जीवत्युदये' उदये सति जोवत्यासंसारं प्राणान् धारयति, अतो जीवना-ज्जीव इति, तस्यैवौघायुष्ककर्मणो 'निर्जरया' क्षयेण, मृत इति, सर्वथा जीवनाभावात्, स च सिद्धो मृतो, नान्यः, विग्रहगतावपि तथाजीवनसद्भावात्, 'नयमतेने'ति सर्वनयमतेनैव मृत इति गाथार्थः।।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org